GarPur, 1, 100
Select a line for its word-by-word analysis.
स्वप्ने ऽवगाहते ऽत्यर्थं जलं मुण्डांश्च पश्यति ॥ (१।३)
svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃśca paśyati ||
राजा राज्यं कुमारी च पतिं पुत्रं च गुर्विणी ॥ (२।२)
rājā rājyaṃ kumārī ca patiṃ putraṃ ca gurviṇī ||
नाप्नुयात्स्नापनं तस्य पुण्ये ऽह्नि विधिपूर्वकम् । (३।१)
nāpnuyātsnāpanaṃ tasya puṇye 'hni vidhipūrvakam |
भद्रासनोपविष्टस्य स्वस्ति वाच्यं द्विजाञ्छुभान् ॥ (४।२)
bhadrāsanopaviṣṭasya svasti vācyaṃ dvijāñchubhān ||
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निःक्षिपेत् । (५।१)
mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu niḥkṣipet |
या आहृता एकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ॥ (५।२)
yā āhṛtā ekavarṇaiścaturbhiḥ kalaśairhradāt ||
चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासने तथा । (६।१)
carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsane tathā |
भगं तु वरुणो राजा भगं सूर्यो बृहस्पतिः ॥ (७।२)
bhagaṃ tu varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ ||
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः । (८।१)
bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ |
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ॥ (८।२)
yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani ||
ललाटे कर्णयोर् अक्ष्णोर् आपस् तद्घ्नन्तु ते सदा । (९।१)
lalāṭe karṇayor akṣṇor āpas tadghnantu te sadā |
स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु ॥ (९।२)
snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu ||
कुष्माण्डो राजपुत्रश्च अन्ते स्वाहासमन्वितैः । (११।१)
kuṣmāṇḍo rājaputraśca ante svāhāsamanvitaiḥ |
दद्याच्चतुष्पथे भूमौ कुशानास्तीर्य सर्वशः ॥ (११।२)
dadyāccatuṣpathe bhūmau kuśānāstīrya sarvaśaḥ ||
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ॥ (१२।२)
puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi ||
एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः । (१४।१)
etānsarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ |
अम्बिकामुपतिष्ठेच्च दद्यादर्घ्यं कृताञ्जलिः ॥ (१४।२)
ambikāmupatiṣṭhecca dadyādarghyaṃ kṛtāñjaliḥ ||
दूर्वासर्षपपुष्पैश्च पुत्रजन्मभिरन्ततः । (१५।१)
dūrvāsarṣapapuṣpaiśca putrajanmabhirantataḥ |
कृतस्वस्त्ययनं चैव प्रार्थयेदम्बिकां सतीम् ॥ (१५।२)
kṛtasvastyayanaṃ caiva prārthayedambikāṃ satīm ||
रूपं देहि यशो देहि भगं भगवति देहि मे । (१६।१)
rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me |
पुत्रान्देहि श्रियं देहि सर्वान्कामांश्च देहि मे ॥ (१६।२)
putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me ||
ब्राह्मणान् भोजयेत्पश्चाच्छुक्लवस्त्रानुलेपनैः । (१७।१)
brāhmaṇān bhojayetpaścācchuklavastrānulepanaiḥ |
वस्त्रयुग्मं गुरोर् दद्यात्सम्पूज्य च ग्रहांस्तथा । (१७।२)
vastrayugmaṃ guror dadyātsampūjya ca grahāṃstathā |
श्रेयः कर्मफलं विन्द्यात्सूर्यार्चनरतस्तथा ॥ (१७।३)
śreyaḥ karmaphalaṃ vindyātsūryārcanaratastathā ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तगणपतिकल्पनिरूपणं नाम शततमो ऽध्यायः ॥ (१८।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagaṇapatikalpanirūpaṇaṃ nāma śatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.