GarPur, 1, 154
Select a line for its word-by-word analysis.
हृद्रोगादिनिदानं ते वक्ष्ये ऽहं सुश्रुताधुना । (१।२)
hṛdrogādinidānaṃ te vakṣye 'haṃ suśrutādhunā |
कृमिहृद्रोगलिङ्गैश्च स्मृताः पञ्च तु हृद्गताः ॥ (१।३)
kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgatāḥ ||
भिद्यते शुष्यते स्तब्धं हृदयं शून्यता भ्रमः ॥ (२।२)
bhidyate śuṣyate stabdhaṃ hṛdayaṃ śūnyatā bhramaḥ ||
वेपथुर्वेपनान्मोहः श्वासरोधो ऽल्पनिद्रता ॥ (३।२)
vepathurvepanānmohaḥ śvāsarodho 'lpanidratā ||
पित्तात्तृष्णा श्रमो दाहः स्वेदो ऽम्लकफजः क्रमः । (४।१)
pittāttṛṣṇā śramo dāhaḥ svedo 'mlakaphajaḥ kramaḥ |
छर्दनं ह्यम्लपित्तस्य धूमकल्पितको ज्वरः ॥ (४।२)
chardanaṃ hyamlapittasya dhūmakalpitako jvaraḥ ||
श्लेष्मणा हृदयं स्तब्धं भारिकं साश्मगर्भवत् । (५।१)
śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat |
हृद्रोगे हि त्रिभिर् दोषैः कृमिभिः श्यावनेत्रता । (६।१)
hṛdroge hi tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā |
तमःप्रवेशो हृल्लासः शोथः कण्डूः कफस्रुतिः ॥ (६।२)
tamaḥpraveśo hṛllāsaḥ śothaḥ kaṇḍūḥ kaphasrutiḥ ||
चिकित्सदामयं घोरं तच्छीघ्रं शीघ्रमारिणम् ॥ (७।२)
cikitsadāmayaṃ ghoraṃ tacchīghraṃ śīghramāriṇam ||
वातात्पित्तात्कफात्तृष्णा सन्निपाताद्बलक्षयः । (८।१)
vātātpittātkaphāttṛṣṇā sannipātādbalakṣayaḥ |
षष्ठी स्यादुपसर्गाच्च वातपित्ते च कारणम् ॥ (८।२)
ṣaṣṭhī syādupasargācca vātapitte ca kāraṇam ||
सर्वेषु तत्प्रकोपो हि सम्यग्धातुप्रशोषणात् । (९।१)
sarveṣu tatprakopo hi samyagdhātupraśoṣaṇāt |
संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम् ॥ (१०।२)
saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam ||
कण्ठोष्ठतालुकार्कश्याज्जिह्वानिष्क्रमणे क्लमः ॥ (११।२)
kaṇṭhoṣṭhatālukārkaśyājjihvāniṣkramaṇe klamaḥ ||
प्रलापश्चित्तविभ्रंशो ह्युद्गाराढ्यस् तथामयः । (१२।१)
pralāpaścittavibhraṃśo hyudgārāḍhyas tathāmayaḥ |
मारुतात् क्षामता दैन्यं शङ्खभेदः शिरोभ्रमः ॥ (१२।२)
mārutāt kṣāmatā dainyaṃ śaṅkhabhedaḥ śirobhramaḥ ||
गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः । (१३।१)
gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ |
शीताम्लफेनवृद्धिश्च पित्तान्मूर्छास्यतिक्तता ॥ (१३।२)
śītāmlaphenavṛddhiśca pittānmūrchāsyatiktatā ||
रक्तेक्षणत्वं सततं शोषो दाहो ऽतिधूमकः । (१४।१)
raktekṣaṇatvaṃ satataṃ śoṣo dāho 'tidhūmakaḥ |
स्रोतस्तु सकफं तेन पङ्कवच्छोष्यते ततः । (१५।१)
srotastu sakaphaṃ tena paṅkavacchoṣyate tataḥ |
शूकैरिवाचितः कण्ठो निद्रा मधुरवक्त्रता ॥ (१५।२)
śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā ||
आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्यरोचकम् । (१६।१)
ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakam |
आलस्यम् अविपाकं च यः स स्यात्सर्वलक्षणः ॥ (१६।२)
ālasyam avipākaṃ ca yaḥ sa syātsarvalakṣaṇaḥ ||
उष्णाक्रान्तस्य सहसा शीताम्भो भजतस् तृषा ॥ (१७।२)
uṣṇākrāntasya sahasā śītāmbho bhajatas tṛṣā ||
उष्णादूर्ध्वं गतः कोष्ठं कुर्याद्वै पित्तजैव सा । (१८।१)
uṣṇādūrdhvaṃ gataḥ koṣṭhaṃ kuryādvai pittajaiva sā |
या च पानातिपानोत्था तीक्ष्णाग्रे स्नेहपाकजा ॥ (१८।२)
yā ca pānātipānotthā tīkṣṇāgre snehapākajā ||
या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥ (२०।२)
yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आम्लपित्तनिदाना नाम चतुःपञ्चाशदुत्तरशततमो ऽध्यायः ॥ (२१।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āmlapittanidānā nāma catuḥpañcāśaduttaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.