GarPur, 1, 46
Select a line for its word-by-word analysis.
वास्तुं संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम् । (१।२)
vāstuṃ saṃkṣepato vakṣye gṛhādau vighnanāśanam |
दौवारिको ऽथ सुग्रीवः पुष्पदन्तो गणाधिपः । (६।१)
dauvāriko 'tha sugrīvaḥ puṣpadanto gaṇādhipaḥ |
मध्ये नवपदे ब्रह्मा तस्याष्ठौ च समीपगान् । (९।१)
madhye navapade brahmā tasyāṣṭhau ca samīpagān |
मित्रो ऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥ (१०।२)
mitro 'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt ||
अष्टमश् चापवत्सश् च परितो ब्रह्मणः स्मृताः । (११।१)
aṣṭamaś cāpavatsaś ca parito brahmaṇaḥ smṛtāḥ |
अदितिं हिमवन्तं च जयन्तं च इदं त्रयम् ॥ (१२।२)
aditiṃ himavantaṃ ca jayantaṃ ca idaṃ trayam ||
नायिका कालिका नाम शक्राद्रन्धर्वगाः पुनः । (१३।१)
nāyikā kālikā nāma śakrādrandharvagāḥ punaḥ |
वास्तुदेवान्पूजयित्वा गृहप्रासादकृद्भवेत् ॥ (१३।२)
vāstudevānpūjayitvā gṛhaprāsādakṛdbhavet ||
सुरेज्यः पुरतः कार्यो यस्याग्नेय्यां महानसम् । (१४।१)
surejyaḥ purataḥ kāryo yasyāgneyyāṃ mahānasam |
गन्धपुष्पगृहं कार्यमैशान्यां पट्टसंयुतम् । (१५।१)
gandhapuṣpagṛhaṃ kāryamaiśānyāṃ paṭṭasaṃyutam |
भाण्डागारं च कौबेर्यां गोष्ठागारं च वायवे ॥ (१५।२)
bhāṇḍāgāraṃ ca kauberyāṃ goṣṭhāgāraṃ ca vāyave ||
समित्कुशेन्धनस्थानम् आयुधानां च नैरृते ॥ (१६।२)
samitkuśendhanasthānam āyudhānāṃ ca nairṛte ||
तोयाग्निदीपसद्भृत्यैर् युक्तं दक्षिणतो भवेत् ॥ (१७।२)
toyāgnidīpasadbhṛtyair yuktaṃ dakṣiṇato bhavet ||
पञ्चवर्णैश्च कुसुमैः शोभितानि प्रकल्पयेत् ॥ (१८।२)
pañcavarṇaiśca kusumaiḥ śobhitāni prakalpayet ||
प्राकारं तद्बहिर् दद्यात् पञ्चहस्तप्रमाणतः । (१९।१)
prākāraṃ tadbahir dadyāt pañcahastapramāṇataḥ |
एवं विष्ण्वाश्रमं कुर्याद्वनैश्चोपवनैर्युतम् ॥ (१९।२)
evaṃ viṣṇvāśramaṃ kuryādvanaiścopavanairyutam ||
चतुःषष्टिपदो वास्तुः प्रासादादौ प्रपूजितः । (२०।१)
catuḥṣaṣṭipado vāstuḥ prāsādādau prapūjitaḥ |
मध्ये चतुष्पदो ब्रह्मा द्विपदास् त्वर्यमादयः ॥ (२०।२)
madhye catuṣpado brahmā dvipadās tvaryamādayaḥ ||
कर्णे चैवाथ शिख्याद्यास्तथा देवाः प्रकीर्तिताः । (२१।१)
karṇe caivātha śikhyādyāstathā devāḥ prakīrtitāḥ |
तेभ्यो ह्युभयतः सार्धादन्ये ऽपि द्विपदाः सुराः ॥ (२१।२)
tebhyo hyubhayataḥ sārdhādanye 'pi dvipadāḥ surāḥ ||
आकाशे गन्धमाली स्यात्क्षेत्रपालांस्ततो यजेत् । (२५।१)
ākāśe gandhamālī syātkṣetrapālāṃstato yajet |
विस्ताराभिहतं दैर्घ्यं राशिं वास्तोस्तु कारयेत् ॥ (२५।२)
vistārābhihataṃ dairghyaṃ rāśiṃ vāstostu kārayet ||
कृत्वा च वसुभिर् भागं शेषं बद्धायम् आदिशेत् । (२६।१)
kṛtvā ca vasubhir bhāgaṃ śeṣaṃ baddhāyam ādiśet |
यच्छेषं तद्भवेदृक्षं भागैर्हृत्वाव्ययं भवेत् । (२७।१)
yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet |
ऋक्षं चतुर्गुणं कृत्वा नवभिर्भागहारितम् ॥ (२७।२)
ṛkṣaṃ caturguṇaṃ kṛtvā navabhirbhāgahāritam ||
अष्टाभिर्गुणितं पिण्डं षष्टिभिर् भागाहरितम् ॥ (२८।२)
aṣṭābhirguṇitaṃ piṇḍaṃ ṣaṣṭibhir bhāgāharitam ||
वास्तुक्रोडे गृहं कुर्यान्न पृष्ठे मानवः सदा ॥ (२९।२)
vāstukroḍe gṛhaṃ kuryānna pṛṣṭhe mānavaḥ sadā ||
वामपार्श्वेन स्वापिति नात्र कार्या विचारणा । (३०।१)
vāmapārśvena svāpiti nātra kāryā vicāraṇā |
सिंहकन्यातुलायां च द्वारं शुध्येदथोत्तरम् ॥ (३०।२)
siṃhakanyātulāyāṃ ca dvāraṃ śudhyedathottaram ||
एवं च वृश्चिकादौ स्यात्पूर्वदक्षिणपश्चिमम् । (३१।१)
evaṃ ca vṛścikādau syātpūrvadakṣiṇapaścimam |
द्वारं दीर्घार्धविस्तारं द्वाराण्यष्टौ स्मृतानि च ॥ (३१।२)
dvāraṃ dīrghārdhavistāraṃ dvārāṇyaṣṭau smṛtāni ca ||
सन्तानप्रेष्यनीचत्वं स्वयानं स्वर्णभूषणम् । (३२।१)
santānapreṣyanīcatvaṃ svayānaṃ svarṇabhūṣaṇam |
सुतहीनं तु रौद्रेण वीर्यघ्नं दक्षिणे तथा ॥ (३२।२)
sutahīnaṃ tu raudreṇa vīryaghnaṃ dakṣiṇe tathā ||
वह्नौ वधश्चायुर्वृद्धिं पुत्रलाभसुतृप्तिदः । (३३।१)
vahnau vadhaścāyurvṛddhiṃ putralābhasutṛptidaḥ |
नृपभीतिर् मृतापत्यं ह्यनपत्यं न वैरदम् । (३४।१)
nṛpabhītir mṛtāpatyaṃ hyanapatyaṃ na vairadam |
अर्थदं चार्थहान्यै च दोषदं पुत्रमृत्युदम् ॥ (३४।२)
arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam ||
द्वाराण्युत्तरसंज्ञानि पूर्वद्वाराणि वच्म्यहम् । (३५।१)
dvārāṇyuttarasaṃjñāni pūrvadvārāṇi vacmyaham |
राजघ्नं कोपदं पूर्वे फलतो द्वारमीरितम् । (३६।१)
rājaghnaṃ kopadaṃ pūrve phalato dvāramīritam |
ईशानादौ भवेत्पूर्वम् अग्नेय्यादौ तु दक्षिणम् ॥ (३६।२)
īśānādau bhavetpūrvam agneyyādau tu dakṣiṇam ||
नैरृत्यादौ पश्चिमं स्याद्वायव्यादौ तु चोत्तरम् । (३७।१)
nairṛtyādau paścimaṃ syādvāyavyādau tu cottaram |
अष्टभागे कृते भागे द्वाराणां च फलाफलम् ॥ (३७।२)
aṣṭabhāge kṛte bhāge dvārāṇāṃ ca phalāphalam ||
अश्वत्थप्लक्षन्यग्रोधाः पूर्वादौ स्यादुदुम्बरः । (३८।१)
aśvatthaplakṣanyagrodhāḥ pūrvādau syādudumbaraḥ |
गृहस्य शोभनः प्रोक्त ईशाने चैव शाल्मलिः । (३८।२)
gṛhasya śobhanaḥ prokta īśāne caiva śālmaliḥ |
पूजितो विघ्नहारी स्यात्प्रासादस्य गृहस्य च ॥ (३८।३)
pūjito vighnahārī syātprāsādasya gṛhasya ca ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वास्तुमानलक्षणं नाम षट्चत्वारिंशो ऽध्यायः ॥ (३९।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vāstumānalakṣaṇaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.