GarPur, 1, 86
Select a line for its word-by-word analysis.
येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता । (१।२)
yeyaṃ pretaśilā khyātā gayāyāṃ sā tridhā sthitā |
प्रेतत्वं ये गता नॄणां मित्राद्या बान्धवादयः ॥ (२।२)
pretatvaṃ ye gatā nṝṇāṃ mitrādyā bāndhavādayaḥ ||
तस्यां शिलायां श्राद्धादिकर्तारो ब्रह्मलोकगाः । (४।१)
tasyāṃ śilāyāṃ śrāddhādikartāro brahmalokagāḥ |
गयासुरस्य यन्मुण्डं तस्य पृष्ठे शिला यतः ॥ (४।२)
gayāsurasya yanmuṇḍaṃ tasya pṛṣṭhe śilā yataḥ ||
मुण्डपृष्ठो गिरिस्तस्मात्सर्वदेवमयो ह्ययम् । (५।१)
muṇḍapṛṣṭho giristasmātsarvadevamayo hyayam |
तस्माद् गिरिः क्रौञ्चपादः पितॄणां ब्रह्मलोकदः । (७।१)
tasmād giriḥ krauñcapādaḥ pitṝṇāṃ brahmalokadaḥ |
दैत्यराक्षसनाशार्थं मत्स्यः पूर्वं यथाभवत् ॥ (१०।२)
daityarākṣasanāśārthaṃ matsyaḥ pūrvaṃ yathābhavat ||
यथा दाशरथी रामः कृष्णो बुद्धो ऽथ कल्क्यपि ॥ (११।२)
yathā dāśarathī rāmaḥ kṛṣṇo buddho 'tha kalkyapi ||
तथा व्यक्तो ऽव्यक्तरूपी आसीदादिर्गदाधरः । (१२।१)
tathā vyakto 'vyaktarūpī āsīdādirgadādharaḥ |
आदिरादौ पूजितो ऽत्र देवैर्ब्रह्मादिभिर्यतः ॥ (१२।२)
ādirādau pūjito 'tra devairbrahmādibhiryataḥ ||
पाद्याद्यैर् गन्धपुष्पाद्यैरत आदिगदाधरः । (१३।१)
pādyādyair gandhapuṣpādyairata ādigadādharaḥ |
गदाधरं सुरैः सार्धमाद्यं गत्वा ददाति यः ॥ (१३।२)
gadādharaṃ suraiḥ sārdhamādyaṃ gatvā dadāti yaḥ ||
अर्घ्यं पात्रं च पाद्यं च गन्धपुष्पं च धूपकम् । (१४।१)
arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam |
दीपं नैवेद्यम् उत्कृष्टं माल्यानि विविधानि च ॥ (१४।२)
dīpaṃ naivedyam utkṛṣṭaṃ mālyāni vividhāni ca ||
वस्त्राणि मुकुटं घण्टा चामरं प्रेक्षणीयकम् । (१५।१)
vastrāṇi mukuṭaṃ ghaṇṭā cāmaraṃ prekṣaṇīyakam |
तेषां तावद्धनं धान्यम् आयुर् आरोग्यसम्पदः । (१६।१)
teṣāṃ tāvaddhanaṃ dhānyam āyur ārogyasampadaḥ |
पुत्त्रादिसन्ततिश्रेयोविद्यार्थं काम ईप्सितः ॥ (१६।२)
puttrādisantatiśreyovidyārthaṃ kāma īpsitaḥ ||
भार्या स्वर्गादिवासश्च स्वर्गादागत्य राज्यकम् । (१७।१)
bhāryā svargādivāsaśca svargādāgatya rājyakam |
कुलीनः सत्त्वसम्पन्नो रणे मर्दितशात्रवनः ॥ (१७।२)
kulīnaḥ sattvasampanno raṇe marditaśātravanaḥ ||
वधबन्धविनिर्मुक्तश्चान्ते मोक्षमवाप्नुयात् । (१८।१)
vadhabandhavinirmuktaścānte mokṣamavāpnuyāt |
श्राद्धपिण्डादिकर्तारः पितृभिर्ब्रह्मलोकगाः ॥ (१८।२)
śrāddhapiṇḍādikartāraḥ pitṛbhirbrahmalokagāḥ ||
जगन्नाथं ये ऽर्चयन्ति सुभद्रां बलभद्रकम् । (१९।१)
jagannāthaṃ ye 'rcayanti subhadrāṃ balabhadrakam |
ज्ञानं प्राप्य श्रियं पुत्रान्व्रजन्ति पुरुषोत्तमम् ॥ (१९।२)
jñānaṃ prāpya śriyaṃ putrānvrajanti puruṣottamam ||
पुरतस्तत्र पिण्डादि पितॄणां ब्रह्मलोकदः ॥ (२०।२)
puratastatra piṇḍādi pitṝṇāṃ brahmalokadaḥ ||
नत्वा कपर्दिविघ्नेशं सर्वविघ्नैः प्रमुच्यते । (२१।१)
natvā kapardivighneśaṃ sarvavighnaiḥ pramucyate |
कार्तिकेयं पूजयित्वा ब्रह्मलोकमवाप्नुयात् ॥ (२१।२)
kārtikeyaṃ pūjayitvā brahmalokamavāpnuyāt ||
द्वादशादित्यमभ्यर्च्य सर्वरोगैः प्रमुच्यते । (२२।१)
dvādaśādityamabhyarcya sarvarogaiḥ pramucyate |
वैश्वानरं समभ्यर्च्य उत्तमां दीप्तिमाप्नुयात् ॥ (२२।२)
vaiśvānaraṃ samabhyarcya uttamāṃ dīptimāpnuyāt ||
रेवन्तं पूजयित्वाथ अश्वानाप्नोत्यनुत्तमान् । (२३।१)
revantaṃ pūjayitvātha aśvānāpnotyanuttamān |
अभ्यर्च्येन्द्रं महैश्वर्यं गौरीं सौभाग्यमाप्नुयात् ॥ (२३।२)
abhyarcyendraṃ mahaiśvaryaṃ gaurīṃ saubhāgyamāpnuyāt ||
विद्यां सरस्वतीं प्रार्च्य लक्ष्मीं सम्पूज्य च श्रियम् । (२४।१)
vidyāṃ sarasvatīṃ prārcya lakṣmīṃ sampūjya ca śriyam |
गरुडं च समभ्यर्च्य विघ्नवृन्दात्प्रमुच्यते ॥ (२४।२)
garuḍaṃ ca samabhyarcya vighnavṛndātpramucyate ||
क्षेत्रपालं समभ्यर्च्य ग्रहवृन्दैः प्रमुच्यते । (२५।१)
kṣetrapālaṃ samabhyarcya grahavṛndaiḥ pramucyate |
मुण्डपृष्ठं समभ्यर्च्य सर्वकाममवाप्नुयात् ॥ (२५।२)
muṇḍapṛṣṭhaṃ samabhyarcya sarvakāmamavāpnuyāt ||
नागाष्टकं समभ्यर्च्य नागदष्टो विमुच्यते । (२६।१)
nāgāṣṭakaṃ samabhyarcya nāgadaṣṭo vimucyate |
ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात् ॥ (२६।२)
brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt ||
बलभद्रं समभ्यर्च्य बलारोग्यमवाप्नुयात् । (२७।१)
balabhadraṃ samabhyarcya balārogyamavāpnuyāt |
सुभद्रां पूजयित्वा तु सौभाग्यं परमाप्नुयात् ॥ (२७।२)
subhadrāṃ pūjayitvā tu saubhāgyaṃ paramāpnuyāt ||
सर्वान्कामानवाप्नोति सम्पूज्य पुरुषोत्तमम् । (२८।१)
sarvānkāmānavāpnoti sampūjya puruṣottamam |
स्पृष्ट्वा नत्वा नारसिंहं संग्रामे विजयी भवेत् । (२९।१)
spṛṣṭvā natvā nārasiṃhaṃ saṃgrāme vijayī bhavet |
वराहं पूजयित्वा तु भूमिराज्यमवाप्नुयात् ॥ (२९।२)
varāhaṃ pūjayitvā tu bhūmirājyamavāpnuyāt ||
मालाविद्याधरौ स्पष्ट्वा विद्याधरपदं लभेत् । (३०।१)
mālāvidyādharau spaṣṭvā vidyādharapadaṃ labhet |
रामेश्वरं नरो नत्वा रामवत्सुप्रियो भवेत् । (३२।१)
rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet |
ब्रह्मेश्वरं नरः स्तुत्वा ब्रह्मलोकाय कल्प्यते ॥ (३२।२)
brahmeśvaraṃ naraḥ stutvā brahmalokāya kalpyate ||
कालेश्वरं समभ्यर्च्य नरः कालंजयो भवेत् । (३३।१)
kāleśvaraṃ samabhyarcya naraḥ kālaṃjayo bhavet |
सिद्धेश्वरं च सम्पूज्य सिद्धो ब्रह्मपुरं व्रजेत् । (३४।१)
siddheśvaraṃ ca sampūjya siddho brahmapuraṃ vrajet |
आद्यै रुद्रादिभिः सार्धं दृष्ट्वा ह्यादिगदाधरम् ॥ (३४।२)
ādyai rudrādibhiḥ sārdhaṃ dṛṣṭvā hyādigadādharam ||
कुलानां शतमुद्धृत्य नयेद्ब्रह्मपुरं नरः । (३५।१)
kulānāṃ śatamuddhṛtya nayedbrahmapuraṃ naraḥ |
धर्मार्थं प्राप्नुयाद् धर्ममर्थार्थो चार्थमाप्नुयात् ॥ (३५।२)
dharmārthaṃ prāpnuyād dharmamarthārtho cārthamāpnuyāt ||
कामान् सम्प्राप्नुयात् कामी मोक्षार्थो मोक्षमाप्नुयात् । (३६।१)
kāmān samprāpnuyāt kāmī mokṣārtho mokṣamāpnuyāt |
राज्यार्थो राज्यमाप्नोति शान्त्यर्थः शान्तिमाप्नुयात् ॥ (३६।२)
rājyārtho rājyamāpnoti śāntyarthaḥ śāntimāpnuyāt ||
सर्वार्थः सर्वमाप्नोति सम्पूज्यादिगदाधरम् । (३७।१)
sarvārthaḥ sarvamāpnoti sampūjyādigadādharam |
पुत्रान्पुत्रार्थिनी स्त्री च सौभाग्यं च तदर्थिनी ॥ (३७।२)
putrānputrārthinī strī ca saubhāgyaṃ ca tadarthinī ||
वंशार्थिनी च वंशान्वै प्राप्यार्च्यादिगदाधरम् । (३८।१)
vaṃśārthinī ca vaṃśānvai prāpyārcyādigadādharam |
पृथिव्यां सर्वतीर्थेभ्यो यथा श्रेष्ठा गया पुरी ॥ (३९।२)
pṛthivyāṃ sarvatīrthebhyo yathā śreṣṭhā gayā purī ||
तस्मिन्दृष्टे शिला दृष्टा यतः सर्वं गदाधरः ॥ (४०।२)
tasmindṛṣṭe śilā dṛṣṭā yataḥ sarvaṃ gadādharaḥ ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम षडशीतितमो ऽध्यायः ॥ (४१।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.