GarPur, 1, 157
Select a line for its word-by-word analysis.
दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षड्विधः ॥ (१।३)
doṣairvyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ ||
भेदो हृद्गुदकोष्ठेषु गात्रस्वेदो मलग्रहः ॥ (५।२)
bhedo hṛdgudakoṣṭheṣu gātrasvedo malagrahaḥ ||
अल्पाल्पं शब्दशून्याढ्यं विरुद्धमुपवेश्यते ॥ (६।२)
alpālpaṃ śabdaśūnyāḍhyaṃ viruddhamupaveśyate ||
रूक्षं सफेनमच्छं च गृहीतं व मुहुर्मुहुः । (७।१)
rūkṣaṃ saphenamacchaṃ ca gṛhītaṃ va muhurmuhuḥ |
पित्तेन पीतम् अशितं हारिद्रं शाद्वलप्रभम् ॥ (८।२)
pittena pītam aśitaṃ hāridraṃ śādvalaprabham ||
पिच्छिलं तत्रानुसारमल्पाल्पं सप्रवाहिकम् । (१०।१)
picchilaṃ tatrānusāramalpālpaṃ sapravāhikam |
कृते ऽप्यकृतसङ्गश्च सर्वात्मा सर्वलक्षणः । (११।१)
kṛte 'pyakṛtasaṅgaśca sarvātmā sarvalakṣaṇaḥ |
भयेन क्षुभिते चित्ते शायिते द्रावयेत् सकृत् ॥ (११।२)
bhayena kṣubhite citte śāyite drāvayet sakṛt ||
वायुस्ततो निवार्येत क्षिप्रमुष्णं द्रवं प्लवम् । (१२।१)
vāyustato nivāryeta kṣipramuṣṇaṃ dravaṃ plavam |
वातपित्ते समं लिङ्गमाहुस्तद्वच्च शोकतः ॥ (१२।२)
vātapitte samaṃ liṅgamāhustadvacca śokataḥ ||
सासृग्जातं रसद्रोगो गौरवाद् अप्सु मुञ्चति । (१३।२)
sāsṛgjātaṃ rasadrogo gauravād apsu muñcati |
शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः ॥ (१३।३)
śakṛddurgandhamāṭopaviṣṭambhārtiprasekinaḥ ||
तस्य स्याद् अग्निनिर्वाणकार्यैर् अत्यर्थसंचितैः । (१५।१)
tasya syād agninirvāṇakāryair atyarthasaṃcitaiḥ |
सामं शकृन्निरामं वा जीर्णं येनातिसार्यते ॥ (१५।२)
sāmaṃ śakṛnnirāmaṃ vā jīrṇaṃ yenātisāryate ||
सामं शीर्णम् अजीर्णेन जीर्णे पक्वं तु नैव च ॥ (१६।२)
sāmaṃ śīrṇam ajīrṇena jīrṇe pakvaṃ tu naiva ca ||
ग्रहणीदोषचिरकृद् ग्रहणीदोषः सञ्चयांश्चोपवेशयेत् । (१७।१)
grahaṇīdoṣacirakṛd grahaṇīdoṣaḥ sañcayāṃścopaveśayet |
अकस्माद् वारसुर् वेधम् अकस्मात् सन्धिनी मुहुः । (१७।२)
akasmād vārasur vedham akasmāt sandhinī muhuḥ |
स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते ॥ (१७।३)
sa caturdhā pṛthagdoṣaiḥ sannipātācca jāyate ||
प्राग्रूपाङ्गस्य सदनं चिरात् पवन अल्पकः । (१८।१)
prāgrūpāṅgasya sadanaṃ cirāt pavana alpakaḥ |
प्रसेको वक्त्रवैरस्यमरुचिस् तृट्श्रमो भ्रमः ॥ (१८।२)
praseko vaktravairasyamarucis tṛṭśramo bhramaḥ ||
सामान्यलक्षणं कार्श्यं वमकस्तमको ज्वरः ॥ (१९।२)
sāmānyalakṣaṇaṃ kārśyaṃ vamakastamako jvaraḥ ||
मूर्छा शिरोरुविष्टम्भः श्वयथुः करपादयोः । (२०।१)
mūrchā śiroruviṣṭambhaḥ śvayathuḥ karapādayoḥ |
तन्द्रानिलात् तालुशोषस् तिमिरं कर्णयोः स्वनः ॥ (२०।२)
tandrānilāt tāluśoṣas timiraṃ karṇayoḥ svanaḥ ||
पार्श्वोरुवङ्क्षणग्रीवारुजा तीक्ष्णविषूचिका । (२१।१)
pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā |
रुग्णेषु वृद्धिः सर्वेषु क्षुत्तृष्णापरिहर्त्रिका ॥ (२१।२)
rugṇeṣu vṛddhiḥ sarveṣu kṣuttṛṣṇāparihartrikā ||
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते । (२२।१)
jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute |
वाताद्धृद्रोगगुल्मार्शःप्लीहपाण्डुरशङ्किताः ॥ (२२।२)
vātāddhṛdrogagulmārśaḥplīhapāṇḍuraśaṅkitāḥ ||
चिराद्दुःखं द्रवं शुष्कं तुन्दारं शब्दफेनवत् । (२३।१)
cirādduḥkhaṃ dravaṃ śuṣkaṃ tundāraṃ śabdaphenavat |
पुनः पुनः सृजेद् वर्चं पायुरुच्छ्वासकासवान् ॥ (२३।२)
punaḥ punaḥ sṛjed varcaṃ pāyurucchvāsakāsavān ||
श्लेष्मणा पच्यते दुःखे मनश्छर्दिररोचकः । (२५।१)
śleṣmaṇā pacyate duḥkhe manaśchardirarocakaḥ |
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु । (२६।१)
hṛdayaṃ manyate styānamudaraṃ stimitaṃ guru |
संभिन्नश्लेष्मसंश्लिष्टगुरु चाम्लैः प्रवर्तचम् । (२७।१)
saṃbhinnaśleṣmasaṃśliṣṭaguru cāmlaiḥ pravartacam |
अकृशस्यापि दौर्बल्यं सर्वजे सर्वदर्शनम् ॥ (२७।२)
akṛśasyāpi daurbalyaṃ sarvaje sarvadarśanam ||
विभागे ऽङ्गस्य ये प्रोक्ताः पिपासाद्यास्त्रयो मलाः । (२८।१)
vibhāge 'ṅgasya ye proktāḥ pipāsādyāstrayo malāḥ |
ते ऽप्यस्य ग्रहणीदोषाः समन्तेष्वस्ति कारणम् ॥ (२८।२)
te 'pyasya grahaṇīdoṣāḥ samanteṣvasti kāraṇam ||
अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः ॥ (२९।२)
arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ऽतिसारनिदानं नाम सप्तपञ्चाशदुत्तरशतमो ऽध्यायः ॥ (३०।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'tisāranidānaṃ nāma saptapañcāśaduttaraśatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.