GarPur, 1, 153
Select a line for its word-by-word analysis.
छर्दिदोषैः पृथक्सर्वैर्दुष्टैरन्यैश्च पञ्चमः ॥ (३।२)
chardidoṣaiḥ pṛthaksarvairduṣṭairanyaiśca pañcamaḥ ||
उदानो ऽधिकृतान्दोषान्सर्वं सन्ध्यर्हमस्यति । (४।१)
udāno 'dhikṛtāndoṣānsarvaṃ sandhyarhamasyati |
आशु क्लेशो ऽस्य लावण्यप्रसेकारुचयः क्रमात् ॥ (४।२)
āśu kleśo 'sya lāvaṇyaprasekārucayaḥ kramāt ||
नाभिपृष्ठं रुजत्याशु पार्श्वे चाहारमुत्क्षिपेत् । (५।१)
nābhipṛṣṭhaṃ rujatyāśu pārśve cāhāramutkṣipet |
ततो विच्छ्रिन्नल्पाल्पकषायं फेनिलं वमेत् ॥ (५।२)
tato vicchrinnalpālpakaṣāyaṃ phenilaṃ vamet ||
शब्दोद्गारयुतः कृच्छ्रमनुकृच्छ्रेण वेगवत् । (६।१)
śabdodgārayutaḥ kṛcchramanukṛcchreṇa vegavat |
कफात्स्निग्धं घनं पीतं श्लेष्मतस्तु समाक्षिकम् । (८।१)
kaphātsnigdhaṃ ghanaṃ pītaṃ śleṣmatastu samākṣikam |
सर्वैर्लिङ्गैः समापन्नस्त्याज्यो भवति सर्वथा ॥ (९।२)
sarvairliṅgaiḥ samāpannastyājyo bhavati sarvathā ||
सर्वं यस्य च विद्विष्टं दर्शनश्रवणादिभिः । (१०।१)
sarvaṃ yasya ca vidviṣṭaṃ darśanaśravaṇādibhiḥ |
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ऽरोचकनिदाना नाम त्रिपञ्चाशदुत्तरशततमो ऽध्यायः ॥ (११।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rocakanidānā nāma tripañcāśaduttaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.