GarPur, 1, 143
Select a line for its word-by-word analysis.
विष्णुनाभ्यब्जतो ब्रह्मा मरीचिस्तत्सुतो ऽभवत् ॥ (१।३)
viṣṇunābhyabjato brahmā marīcistatsuto 'bhavat ||
मरीचेः कश्यपस्तस्माद्रविस्तस्मान्मनुः स्मृतः । (२।१)
marīceḥ kaśyapastasmādravistasmānmanuḥ smṛtaḥ |
मनोरिक्ष्वाकुरस्याभूद्वंशे राजा रघुः स्मृतः ॥ (२।२)
manorikṣvākurasyābhūdvaṃśe rājā raghuḥ smṛtaḥ ||
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायां बभूवतुः ॥ (४।२)
sutau lakṣmaṇaśatrughnau sumitrāyāṃ babhūvatuḥ ||
रामो भक्तः पितुर्मातुर्विश्वामित्रादवाप्तवान् । (५।१)
rāmo bhaktaḥ piturmāturviśvāmitrādavāptavān |
अस्त्रग्रामं ततो यक्षीं ताटकां प्रजघान ह ॥ (५।२)
astragrāmaṃ tato yakṣīṃ tāṭakāṃ prajaghāna ha ||
विश्वामित्रस्य यज्ञे वै सुबाहुं न्यवधीद्बली । (६।१)
viśvāmitrasya yajñe vai subāhuṃ nyavadhīdbalī |
ऊर्मिलां लक्ष्मणो वीरो भरतो माण्डवीं सुताम् । (७।१)
ūrmilāṃ lakṣmaṇo vīro bharato māṇḍavīṃ sutām |
शत्रुघ्नो वै कीर्तिमतीं कुशध्वजसुते उभे ॥ (७।२)
śatrughno vai kīrtimatīṃ kuśadhvajasute ubhe ||
पित्रादिभिरयोध्यायां गत्वा रामादयः स्थिताः । (८।१)
pitrādibhirayodhyāyāṃ gatvā rāmādayaḥ sthitāḥ |
गतयोर्नृपवर्यो ऽसौ राज्यं दातुं समुद्यतः । (९।१)
gatayornṛpavaryo 'sau rājyaṃ dātuṃ samudyataḥ |
स रामाय तत्पुत्राय कैकेय्या प्रार्थितस्तदा ॥ (९।२)
sa rāmāya tatputrāya kaikeyyā prārthitastadā ||
रामः पितृहितार्थं च लक्ष्मणेन च सीतया ॥ (१०।२)
rāmaḥ pitṛhitārthaṃ ca lakṣmaṇena ca sītayā ||
राज्यं च तृणवत्त्यक्त्वा शृङ्गवेरपुरं गतः । (११।१)
rājyaṃ ca tṛṇavattyaktvā śṛṅgaverapuraṃ gataḥ |
रथं त्यक्त्वा प्रयागं च चित्रकूटगिरिं गतः ॥ (११।२)
rathaṃ tyaktvā prayāgaṃ ca citrakūṭagiriṃ gataḥ ||
रामस्य तु वियोगेन राजा स्वर्गं समाश्रितः । (१२।१)
rāmasya tu viyogena rājā svargaṃ samāśritaḥ |
स नैच्छत्पादुके दत्त्वा राज्याय भरताय तु ॥ (१३।२)
sa naicchatpāduke dattvā rājyāya bharatāya tu ||
नन्दिग्रामे स्थितो भक्तो ह्ययोध्यां नाविशद्व्रती ॥ (१४।२)
nandigrāme sthito bhakto hyayodhyāṃ nāviśadvratī ||
रामो ऽपि चित्रकूटाच्च ह्यत्रेराश्रममाययौ । (१५।१)
rāmo 'pi citrakūṭācca hyatrerāśramamāyayau |
नत्वा सुतीक्ष्णं चागस्त्यं दण्डकारण्यमागतः ॥ (१५।२)
natvā sutīkṣṇaṃ cāgastyaṃ daṇḍakāraṇyamāgataḥ ||
तत्प्रेरितः खरश्चागाद्दूषणस्त्रिशिरास्तथा । (१७।१)
tatpreritaḥ kharaścāgāddūṣaṇastriśirāstathā |
रामो ऽपि प्रेषयामास बाणैर्यमपुरं च तान् । (१८।१)
rāmo 'pi preṣayāmāsa bāṇairyamapuraṃ ca tān |
राक्षस्या प्रेरितो ऽभ्यागाद्रावणो हरणाय हि ॥ (१८।२)
rākṣasyā prerito 'bhyāgādrāvaṇo haraṇāya hi ||
मृगरूपं स मारीचं कृत्वाग्रे ऽथ त्रिदण्डधृक् । (१९।१)
mṛgarūpaṃ sa mārīcaṃ kṛtvāgre 'tha tridaṇḍadhṛk |
म्रियमाणः स च प्राह हा सीते लक्ष्मणेति च । (२०।१)
mriyamāṇaḥ sa ca prāha hā sīte lakṣmaṇeti ca |
सीतोक्तो लक्ष्मणो ऽथागाद्रामश् चानुददर्श तम् ॥ (२०।२)
sītokto lakṣmaṇo 'thāgādrāmaś cānudadarśa tam ||
रावणो ऽन्तरमासाद्य ह्यङ्केनादाय जानकीम् ॥ (२१।२)
rāvaṇo 'ntaramāsādya hyaṅkenādāya jānakīm ||
जटायुषं विनिर्भिद्य ययौ लङ्कां ततो बली । (२२।१)
jaṭāyuṣaṃ vinirbhidya yayau laṅkāṃ tato balī |
आगत्य रामः शून्यां च पर्णशालां ददर्श ह । (२३।१)
āgatya rāmaḥ śūnyāṃ ca parṇaśālāṃ dadarśa ha |
शोकं कृत्वाथ जानक्या मार्गणं कृतवान्प्रभुः ॥ (२३।२)
śokaṃ kṛtvātha jānakyā mārgaṇaṃ kṛtavānprabhuḥ ||
जटायुषं च संस्कृत्य तदुक्तो दक्षिणां दिशम् । (२४।१)
jaṭāyuṣaṃ ca saṃskṛtya tadukto dakṣiṇāṃ diśam |
गत्वा सख्यं ततश्चक्रे सुग्रीवेण च राघवः ॥ (२४।२)
gatvā sakhyaṃ tataścakre sugrīveṇa ca rāghavaḥ ||
वालिनं च विनिर्भिद्य किष्किन्धायां हरीश्वरम् ॥ (२५।२)
vālinaṃ ca vinirbhidya kiṣkindhāyāṃ harīśvaram ||
सुग्रीवं कृतवान्राम ऋश्यमूके स्वयं स्थितः । (२६।१)
sugrīvaṃ kṛtavānrāma ṛśyamūke svayaṃ sthitaḥ |
सीताया मार्गणं कर्तुं पूर्वाद्याशासु सोत्सवान् । (२७।१)
sītāyā mārgaṇaṃ kartuṃ pūrvādyāśāsu sotsavān |
प्रतीचीमुत्तरां प्राचीं दिशं गत्वा समागताः ॥ (२७।२)
pratīcīmuttarāṃ prācīṃ diśaṃ gatvā samāgatāḥ ||
दक्षिणां तु दिशं ये च मार्गयन्तो ऽथ जानकीम् । (२८।१)
dakṣiṇāṃ tu diśaṃ ye ca mārgayanto 'tha jānakīm |
भर्त्सितां राक्षसीभिश्च रावणेन च रक्षसा । (३१।१)
bhartsitāṃ rākṣasībhiśca rāvaṇena ca rakṣasā |
भव भार्येति वदता चिन्तयन्तीं च राघवम् ॥ (३१।२)
bhava bhāryeti vadatā cintayantīṃ ca rāghavam ||
अङ्गुलीयं कपिर्दत्त्वा सीतां कौशल्यमब्रवीत् । (३२।१)
aṅgulīyaṃ kapirdattvā sītāṃ kauśalyamabravīt |
रामस्य तस्य दूतो ऽहं शोकं मा कुरु मैथिलि ॥ (३२।२)
rāmasya tasya dūto 'haṃ śokaṃ mā kuru maithili ||
स्वाभिज्ञानं च मे देहि येन रामः स्मरिष्यति । (३३।१)
svābhijñānaṃ ca me dehi yena rāmaḥ smariṣyati |
तच्छ्रुत्वा प्रददौ सीता वेणीरत्नं हनूमते ॥ (३३।२)
tacchrutvā pradadau sītā veṇīratnaṃ hanūmate ||
यथा रामो नयेच्छीघ्रं तथा वाच्यं त्वया कपे । (३४।१)
yathā rāmo nayecchīghraṃ tathā vācyaṃ tvayā kape |
तथेत्युक्त्वा तु हनुमान्वनं दिव्यं बभञ्ज ह ॥ (३४।२)
tathetyuktvā tu hanumānvanaṃ divyaṃ babhañja ha ||
हत्वाक्षं राक्षसांश्चान्यान्बन्धनं स्वयमागतः । (३५।१)
hatvākṣaṃ rākṣasāṃścānyānbandhanaṃ svayamāgataḥ |
सर्वैरिन्द्रजितो बाणैर्दृष्ट्वा रावणमब्रवीत् ॥ (३५।२)
sarvairindrajito bāṇairdṛṣṭvā rāvaṇamabravīt ||
रामदूतो ऽस्मि हनुमान्देहि रामाय मैथिलीम् । (३६।१)
rāmadūto 'smi hanumāndehi rāmāya maithilīm |
एतच्छ्रुत्वा प्रकुपितो दीपयामास पुच्छकम् ॥ (३६।२)
etacchrutvā prakupito dīpayāmāsa pucchakam ||
दग्ध्वा लङ्कां समायातो रामपार्श्वं स वानरः ॥ (३७।२)
dagdhvā laṅkāṃ samāyāto rāmapārśvaṃ sa vānaraḥ ||
जग्ध्वा फलं मधुवने दृष्टा सीतेत्यवेदयत् । (३८।१)
jagdhvā phalaṃ madhuvane dṛṣṭā sītetyavedayat |
ससुग्रीवः स हनुमान्साङ्गदश्च सलक्ष्मणः । (३९।१)
sasugrīvaḥ sa hanumānsāṅgadaśca salakṣmaṇaḥ |
विभीषणो ऽपि सम्प्राप्तः शरणं राघवं प्रति ॥ (३९।२)
vibhīṣaṇo 'pi samprāptaḥ śaraṇaṃ rāghavaṃ prati ||
लङ्कैश्वर्येष्वभ्यषिञ्चद्रामस्तं रावणानुजम् । (४०।१)
laṅkaiśvaryeṣvabhyaṣiñcadrāmastaṃ rāvaṇānujam |
रामो नलेन सेतुं च कृत्वाब्धौ चोत्ततार तम् ॥ (४०।२)
rāmo nalena setuṃ ca kṛtvābdhau cottatāra tam ||
सुवेलावस्थितश्चैव पुरीं लङ्कां ददर्श ह । (४१।१)
suvelāvasthitaścaiva purīṃ laṅkāṃ dadarśa ha |
धूम्रधूम्राक्षवीरेन्द्रा जाम्बवत्प्रमुखास्तदा । (४२।१)
dhūmradhūmrākṣavīrendrā jāmbavatpramukhāstadā |
मैन्दद्विविदमुख्यास्ते पुरीं लङ्कां बभञ्जिरे ॥ (४२।२)
maindadvividamukhyāste purīṃ laṅkāṃ babhañjire ||
रामः सलक्ष्मणो हत्वा सकपिः सर्वराक्षसान् ॥ (४३।२)
rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān ||
विद्युज्जिह्वं च धूम्राक्षं देवान्तकनरान्तकौ । (४४।१)
vidyujjihvaṃ ca dhūmrākṣaṃ devāntakanarāntakau |
कुम्भं निकुम्भं मत्तं च मकराक्षं ह्यकम्पनम् । (४५।१)
kumbhaṃ nikumbhaṃ mattaṃ ca makarākṣaṃ hyakampanam |
प्रहस्तं वीरमुन्मत्तं कुम्भकर्णं महाबलम् ॥ (४५।२)
prahastaṃ vīramunmattaṃ kumbhakarṇaṃ mahābalam ||
रावणिं लक्ष्मणो ऽच्छिन्त ह्यस्त्राद्यै राघवो बली । (४६।१)
rāvaṇiṃ lakṣmaṇo 'cchinta hyastrādyai rāghavo balī |
सीतां शुद्धां गृहीत्वाथ विमाने पुष्पके स्थितः । (४७।१)
sītāṃ śuddhāṃ gṛhītvātha vimāne puṣpake sthitaḥ |
सवानरः समायातो ह्ययोध्यां प्रवरां पुरीम् ॥ (४७।२)
savānaraḥ samāyāto hyayodhyāṃ pravarāṃ purīm ||
तत्र राज्यं चकाराथ पुत्रवत् पालयन्प्रजाः । (४८।१)
tatra rājyaṃ cakārātha putravat pālayanprajāḥ |
पिण्डानां विधिवत्कृत्वा दत्त्वा दानानि राघवः । (४९।१)
piṇḍānāṃ vidhivatkṛtvā dattvā dānāni rāghavaḥ |
पुत्रौ कुशलवौ दृष्ट्वा तौ च राज्ये ऽभ्यषेचयत् ॥ (४९।२)
putrau kuśalavau dṛṣṭvā tau ca rājye 'bhyaṣecayat ||
शत्रुघ्नो लवणं जघ्ने शैलूषं भरतस्ततः ॥ (५०।२)
śatrughno lavaṇaṃ jaghne śailūṣaṃ bharatastataḥ ||
अगस्त्यादीन्मुनीन्नत्वा श्रुत्वोत्पत्तिं च रक्षसाम् । (५१।१)
agastyādīnmunīnnatvā śrutvotpattiṃ ca rakṣasām |
स्वर्गं गतो जनैः सार्धमयोध्यास्थैः कृतार्थकः ॥ (५१।२)
svargaṃ gato janaiḥ sārdhamayodhyāsthaiḥ kṛtārthakaḥ ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रामायणवर्णनं नाम त्रिचत्वारिंशदुत्तरशततमो ऽध्यायः ॥ (५२।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rāmāyaṇavarṇanaṃ nāma tricatvāriṃśaduttaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.