GarPur, 1, 3
Select a line for its word-by-word analysis.
इति रुद्राब्जजो विष्णोः शुश्राव ब्रह्मणो मुनिः । (१।२)
iti rudrābjajo viṣṇoḥ śuśrāva brahmaṇo muniḥ |
व्यासो व्यासादहं वक्ष्ये ऽहं ते शौनक नैमिषे ॥ (१।३)
vyāso vyāsādahaṃ vakṣye 'haṃ te śaunaka naimiṣe ||
मुनीनां शृण्वतां मध्ये सर्गाद्यं देवपूजनम् । (२।१)
munīnāṃ śṛṇvatāṃ madhye sargādyaṃ devapūjanam |
सप्रपञ्चं निष्प्रपञ्चं कृतं विष्णोर्निगद्यते ॥ (४।२)
saprapañcaṃ niṣprapañcaṃ kṛtaṃ viṣṇornigadyate ||
चक्रे क्षुधा हृतं यस्य ब्रह्माण्डमुदरे हरेः । (७।१)
cakre kṣudhā hṛtaṃ yasya brahmāṇḍamudare hareḥ |
यं दृष्ट्वा स्मृतमात्रेण नागान्दीनां च संक्षयः ॥ (७।२)
yaṃ dṛṣṭvā smṛtamātreṇa nāgāndīnāṃ ca saṃkṣayaḥ ||
गरुडः स हरिस्तेन प्रोक्तं श्रीकश्यपाय च ॥ (८।२)
garuḍaḥ sa haristena proktaṃ śrīkaśyapāya ca ||
तच्छ्रीमद्गारुडं पुण्यं सर्वदं पठतस्तव । (९।१)
tacchrīmadgāruḍaṃ puṇyaṃ sarvadaṃ paṭhatastava |
वक्ष्ये व्यासं नमस्कृत्य शृणु शौनक तद्यथा ॥ (९।२)
vakṣye vyāsaṃ namaskṛtya śṛṇu śaunaka tadyathā ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषयनिरूपणं नाम तृतीयो ऽध्यायः ॥ (१०।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣayanirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.