1.2१.२माहेश्वरीं च मे पूजां वद शङ्खगदाधर । (१।२)
māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara |
1.3१.३यां ज्ञात्वा मानवाः सिद्धिं गच्छन्ति परमेश्वर ॥ (१।३)
yāṃ jñātvā mānavāḥ siddhiṃ gacchanti parameśvara ||
2.2२.२शृणु माहेश्वरीं पूजां कथ्यमानां वृषध्वज । (२।२)
śṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja |
2.3२.३आदौ स्नात्वा तथाचम्य ह्यासने चोपविश्य च ॥ (२।३)
ādau snātvā tathācamya hyāsane copaviśya ca ||
3.1३.१न्यासं कृत्वा मण्डले वै पूजयेच्च महेश्वरम् । (३।१)
nyāsaṃ kṛtvā maṇḍale vai pūjayecca maheśvaram |
3.2३.२मन्त्रैरेतैर्महेशान परिवारयुतं हरम् ॥ (३।२)
mantrairetairmaheśāna parivārayutaṃ haram ||
4.1४.१ॐ हां शिवासनदेवता आगच्छतेति । (४।१)
oṃ hāṃ śivāsanadevatā āgacchateti |
4.2४.२अनेनावाहयेद्रुद्र देवता आसनस्य याः ॥ (४।२)
anenāvāhayedrudra devatā āsanasya yāḥ ||
5.1५.१oṃ hāṃ gaṇapataye namaḥ |
5.2५.२ॐ हां सरस्वत्यै नमः । (५।२)
oṃ hāṃ sarasvatyai namaḥ |
5.3५.३ॐ हां नन्दिने नमः । (५।३)
5.4५.४ॐ हां महाकालाय नमः । (५।४)
oṃ hāṃ mahākālāya namaḥ |
5.5५.५ॐ हां गङ्गायै नमः । (५।५)
5.6५.६ॐ हां लक्ष्म्यै नमः । (५।६)
5.7५.७ॐ हां महाकलायै नमः । (५।७)
oṃ hāṃ mahākalāyai namaḥ |
5.8५.८ॐ हां अस्त्राय नम इति ॥ (५।८)
oṃ hāṃ astrāya nama iti ||
6.1६.१एते द्वारे प्रपूज्या वै स्नानगन्धादिभिर्हर । (६।१)
ete dvāre prapūjyā vai snānagandhādibhirhara |
6.2६.२ॐ हां ब्रह्मणे वास्त्वधिपतये नमः । (६।२)
oṃ hāṃ brahmaṇe vāstvadhipataye namaḥ |
6.3६.३ॐ हां गुरुभ्यो नमः । (६।३)
6.4६.४ॐ हां आधारशक्त्यै नमः । (६।४)
oṃ hāṃ ādhāraśaktyai namaḥ |
6.5६.५ॐ हां अनन्ताय नमः । (६।५)
6.7६.७ॐ हां ज्ञानाय नमः । (६।७)
6.8६.८ॐ हां वैराग्याय नमः । (६।८)
oṃ hāṃ vairāgyāya namaḥ |
6.9६.९ॐ हां ऐश्वर्याय नमः । (६।९)
oṃ hāṃ aiśvaryāya namaḥ |
6.12६.१२ॐ हां अवैराग्याय नमः । (६।१२)
oṃ hāṃ avairāgyāya namaḥ |
6.13६.१३ॐ हां अनैश्वर्याय नमः । (६।१३)
oṃ hāṃ anaiśvaryāya namaḥ |
6.14६.१४ॐ हां ऊर्ध्वच्छन्दाय नमः । (६।१४)
oṃ hāṃ ūrdhvacchandāya namaḥ |
6.15६.१५ॐ हां अधश्छन्दाय नमः । (६।१५)
oṃ hāṃ adhaśchandāya namaḥ |
6.17६.१७ॐ हां कर्णिकायै नमः । (६।१७)
oṃ hāṃ karṇikāyai namaḥ |
6.19६.१९ॐ हां ज्येष्ठायै नमः । (६।१९)
oṃ hāṃ jyeṣṭhāyai namaḥ |
6.22६.२२ॐ हां कलविकरण्यै नमः । (६।२२)
oṃ hāṃ kalavikaraṇyai namaḥ |
6.23६.२३ॐ बलप्रमथिन्यै नमः । (६।२३)
oṃ balapramathinyai namaḥ |
6.24६.२४ॐ हां सर्वभूतदमन्यै नमः । (६।२४)
oṃ hāṃ sarvabhūtadamanyai namaḥ |
6.25६.२५ॐ हां मनोन्मन्यै नमः । (६।२५)
oṃ hāṃ manonmanyai namaḥ |
6.26६.२६ॐ हां मण्डलत्रितयाय नमः । (६।२६)
oṃ hāṃ maṇḍalatritayāya namaḥ |
6.27६.२७ॐ हां हौं हं शिवमूर्तये नमः । (६।२७)
oṃ hāṃ hauṃ haṃ śivamūrtaye namaḥ |
6.28६.२८ॐ हां विद्याधिपतये नमः । (६।२८)
oṃ hāṃ vidyādhipataye namaḥ |
6.29६.२९ॐ हां हीं हौं शिवाय नमः । (६।२९)
oṃ hāṃ hīṃ hauṃ śivāya namaḥ |
6.34६.३४ॐ हौं नेत्रत्रयाय नमः । (६।३४)
oṃ hauṃ netratrayāya namaḥ |
7.1७.१ॐ हां सिद्ध्यै नमः । (७।१)
7.2७.२ॐ हां ऋद्ध्यै नमः । (७।२)
7.3७.३ॐ हां विद्युतायै नमः । (७।३)
oṃ hāṃ vidyutāyai namaḥ |
7.4७.४ॐ हां लक्ष्म्यै नमः । (७।४)
7.7७.७ॐ हां स्वधायै नमः । (७।७)
7.8७.८ॐ हां प्रभायै नमः ॥ (७।८)
oṃ hāṃ prabhāyai namaḥ ||
8.1८.१सत्यस्याष्टौ कला ज्ञेयाः पूज्याः पूर्वादिषु स्थिताः ॥ (८।१)
satyasyāṣṭau kalā jñeyāḥ pūjyāḥ pūrvādiṣu sthitāḥ ||
9.1९.१ॐ हां वामदेवाय नमः । (९।१)
oṃ hāṃ vāmadevāya namaḥ |
9.3९.३ॐ हां रक्षायै नमः । (९।३)
9.5९.५ॐ हां कन्यायै नमः । (९।५)
9.8९.८ॐ हां क्रियायै नमः । (९।८)
9.9९.९ॐ हां वृद्ध्यै नमः । (९।९)
9.12९.१२ॐ हां भ्रामण्यै नमः । (९।१२)
oṃ hāṃ bhrāmaṇyai namaḥ |
9.15९.१५वामदेवकला ज्ञेयास्त्रयो दश वृषध्वज ॥ (९।१५)
vāmadevakalā jñeyāstrayo daśa vṛṣadhvaja ||
10.1१०.१ॐ हां तत्पुरुषाय नमः । (१०।१)
oṃ hāṃ tatpuruṣāya namaḥ |
10.3१०.३ॐ हां प्रतिष्ठायै नमः । (१०।३)
oṃ hāṃ pratiṣṭhāyai namaḥ |
10.6१०.६ज्ञेयास्तत्पुरुषस्यैव चतस्रो वृषभध्वज ॥ (१०।६)
jñeyāstatpuruṣasyaiva catasro vṛṣabhadhvaja ||
11.2११.२कलाषट्कं ह्यघोरस्य विज्ञेयं भैरवं हर ॥ (११।२)
kalāṣaṭkaṃ hyaghorasya vijñeyaṃ bhairavaṃ hara ||
12.7१२.७ईशानस्य कलाः पञ्च जानीहि वृषभध्वज ॥ (१२।७)
īśānasya kalāḥ pañca jānīhi vṛṣabhadhvaja ||
13.1१३.१ॐ हां शिवपरिवारेभ्यो नमः । (१३।१)
oṃ hāṃ śivaparivārebhyo namaḥ |
13.2१३.२ॐ हां इन्द्राय सुराधिपतये नमः । (१३।२)
oṃ hāṃ indrāya surādhipataye namaḥ |
13.3१३.३ॐ हां अग्नये तेजोऽधिपतये नमः । (१३।३)
oṃ hāṃ agnaye tejo'dhipataye namaḥ |
13.4१३.४ॐ हां यमाय प्रेताधिपतये नमः । (१३।४)
oṃ hāṃ yamāya pretādhipataye namaḥ |
13.5१३.५ॐ हां निरृतये रक्षोऽधिपतये नमः । (१३।५)
oṃ hāṃ nirṛtaye rakṣo'dhipataye namaḥ |
13.6१३.६ॐ हां वरुणाय जलाधिपतये नमः । (१३।६)
oṃ hāṃ varuṇāya jalādhipataye namaḥ |
13.7१३.७ॐ हां वायवे प्राणाधिपतये नमः । (१३।७)
oṃ hāṃ vāyave prāṇādhipataye namaḥ |
13.8१३.८ॐ हां सोमाय नेत्राधिपतये नमः । (१३।८)
oṃ hāṃ somāya netrādhipataye namaḥ |
13.9१३.९ॐ हां ईशानाय सर्वविद्याधिपतये नमः । (१३।९)
oṃ hāṃ īśānāya sarvavidyādhipataye namaḥ |
13.10१३.१०ॐ हां अनन्ताय नागाधिपतये नमः । (१३।१०)
oṃ hāṃ anantāya nāgādhipataye namaḥ |
13.11१३.११ॐ हां ब्रह्मणे सर्वलोकाधिपतये नमः । (१३।११)
oṃ hāṃ brahmaṇe sarvalokādhipataye namaḥ |
13.12१३.१२ॐ हां धूलिचण्डेश्वराय नमः ॥ (१३।१२)
oṃ hāṃ dhūlicaṇḍeśvarāya namaḥ ||
14.1१४.१आवाहनं स्थापनं सन्निधानं च शङ्कर । (१४।१)
āvāhanaṃ sthāpanaṃ sannidhānaṃ ca śaṅkara |
14.2१४.२सन्निरोधं तथा कुर्यात्सकलीकरणं तथा ॥ (१४।२)
sannirodhaṃ tathā kuryātsakalīkaraṇaṃ tathā ||
15.1१५.१तत्त्वन्यासं च मुद्राया दर्शनं द्यानमेव च । (१५।१)
tattvanyāsaṃ ca mudrāyā darśanaṃ dyānameva ca |
15.2१५.२पाद्यमाचमनं ह्यर्घ्यं पुष्पाण्यभ्यङ्गदानकम् ॥ (१५।२)
pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṅgadānakam ||
16.1१६.१तत उद्वर्तनं स्नानं सुगन्धं चानुलेपनम् । (१६।१)
tata udvartanaṃ snānaṃ sugandhaṃ cānulepanam |
16.2१६.२वस्त्रालंकारभोगांश्च ह्यङ्गन्यासं च धूपकम् ॥ (१६।२)
vastrālaṃkārabhogāṃśca hyaṅganyāsaṃ ca dhūpakam ||
17.1१७.१दीपं नैवेद्यदानं च हस्तोद्वर्तनमेव च । (१७।१)
dīpaṃ naivedyadānaṃ ca hastodvartanameva ca |
17.2१७.२पाद्यार्घ्याचमनं गन्धं ताम्बूलं गीतवादनम् ॥ (१७।२)
pādyārghyācamanaṃ gandhaṃ tāmbūlaṃ gītavādanam ||
18.1१८.१नृत्यं छत्रादिकरणं मुद्राणां दर्शनं तथा । (१८।१)
nṛtyaṃ chatrādikaraṇaṃ mudrāṇāṃ darśanaṃ tathā |
18.2१८.२रूपं ध्यानं जपं चाथ एकवद्भाव एव च ॥ (१८।२)
rūpaṃ dhyānaṃ japaṃ cātha ekavadbhāva eva ca ||
19.1१९.१मूलमन्त्रेण वै कुर्याज्जपपूजासमर्पणम् । (१९।१)
mūlamantreṇa vai kuryājjapapūjāsamarpaṇam |
19.2१९.२माहेशी कथिता पूजा रुद्र पापविनाशिनी ॥ (१९।२)
māheśī kathitā pūjā rudra pāpavināśinī ||
20.1२०.१इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महेश्वरपूजाविधिर्नाम चत्वारिंशो ऽध्यायः ॥ (२०।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe maheśvarapūjāvidhirnāma catvāriṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.