गरुडपुराणGaruḍapurāṇa

GarPur, 1, 96

94 of 166 · 149 verses

Select a line for its word-by-word analysis.

1.1१.१

याज्ञवल्क्य उवाच । (१।१)

yājñavalkya uvāca

1.2१.२

वक्ष्ये संकरजात्यादिगृहस्थादिविधिं परम् । (१।२)

vakṣye saṃkarajātyādigṛhasthādividhiṃ param |

1.3१.३

विप्रान् मूर्धावषिक्तो हि क्षत्रियायां विशः स्त्रियाम् ॥ (१।३)

viprān mūrdhāvaṣikto hi kṣatriyāyāṃ viśaḥ striyām ||

2.1२.१

जातो ऽम्बष्ठस्तु शूद्रायां निषादः पर्वतो ऽपि वा । (२।१)

jāto 'mbaṣṭhastu śūdrāyāṃ niṣādaḥ parvato 'pi vā |

2.2२.२

माहिष्यः क्षत्त्रियाज्जातो वैश्यायां म्लेच्छसंज्ञितः ॥ (२।२)

māhiṣyaḥ kṣattriyājjāto vaiśyāyāṃ mlecchasaṃjñitaḥ ||

3.1३.१

शूद्रायां करणो वैश्याद्विन्नास्वेष विधिः स्मृतः । (३।१)

śūdrāyāṃ karaṇo vaiśyādvinnāsveṣa vidhiḥ smṛtaḥ |

3.2३.२

ब्राह्मण्यां क्षत्त्रियात्सूतो वैश्याद्वैदेहकस्तथा ॥ (३।२)

brāhmaṇyāṃ kṣattriyātsūto vaiśyādvaidehakastathā ||

4.1४.१

शूद्राज्जातस्तु चाण्डालः सर्ववर्णविगर्हितः । (४।१)

śūdrājjātastu cāṇḍālaḥ sarvavarṇavigarhitaḥ |

4.2४.२

क्षत्रिया मागधं वैश्याच्छूद्रा क्षत्तारमेव च ॥ (४।२)

kṣatriyā māgadhaṃ vaiśyācchūdrā kṣattārameva ca ||

5.1५.१

शूद्रादयोगवं वैश्या जनयामास वै सुतम् । (५।१)

śūdrādayogavaṃ vaiśyā janayāmāsa vai sutam |

5.2५.२

माहिष्येण करण्यां तु रथकारः प्रजायते ॥ (५।२)

māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate ||

6.1६.१

असत्सन्तस्तु वै ज्ञेयाः प्रतिलोमानुलोमजाः । (६।१)

asatsantastu vai jñeyāḥ pratilomānulomajāḥ |

6.2६.२

जात्युत्कर्षाद्द्विजो ज्ञेयः सप्तमे पञ्चमे ऽपि वा ॥ (६।२)

jātyutkarṣāddvijo jñeyaḥ saptame pañcame 'pi vā ||

7.1७.१

व्यत्यये कर्मणां साम्यं पूर्ववच् चोत्तरावरम् । (७।१)

vyatyaye karmaṇāṃ sāmyaṃ pūrvavac cottarāvaram |

7.2७.२

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ॥ (७।२)

karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī ||

8.1८.१

दायकालादृते वापि श्रौतं वैतानिकाग्निषु । (८।१)

dāyakālādṛte vāpi śrautaṃ vaitānikāgniṣu |

8.2८.२

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः ॥ (८।२)

śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ ||

9.1९.१

प्रातः सन्ध्यामुपासीत दन्तधावनपूर्वकम् । (९।१)

prātaḥ sandhyāmupāsīta dantadhāvanapūrvakam |

9.2९.२

हुत्वाग्नौ सर्वदेवत्याञ् जपेन् मन्त्रान् समाहितः ॥ (९।२)

hutvāgnau sarvadevatyāñ japen mantrān samāhitaḥ ||

10.1१०.१

वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च । (१०।१)

vedārthānadhigacchecca śāstrāṇi vividhāni ca |

10.2१०.२

योगक्षेमादिसिद्ध्यर्थम् उपेयादीश्वरं गृही ॥ (१०।२)

yogakṣemādisiddhyartham upeyādīśvaraṃ gṛhī ||

11.1११.१

स्नात्वा देवान्पितॄंश् चैव तर्पयेदर्चयेत्तथा । (११।१)

snātvā devānpitṝṃś caiva tarpayedarcayettathā |

11.2११.२

वेदानथ पुराणानि सेतिहासानि शक्तितः ॥ (११।२)

vedānatha purāṇāni setihāsāni śaktitaḥ ||

12.1१२.१

जपयज्ञानुसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् । (१२।१)

japayajñānusiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet |

12.2१२.२

बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः ॥ (१२।२)

balikarmasvadhāhomasvādhyāyātithisatkriyāḥ ||

13.1१३.१

भूतपित्रमरब्रह्ममनुष्याणां महामखाः । (१३।१)

bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ |

13.2१३.२

देवेभ्यस्तु हुतं चाग्नौ क्षिपेद्भूतबलिं हरेत् ॥ (१३।२)

devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret ||

14.1१४.१

अन्नं भूमौ श्वचाण्डालवायसेभ्यश्च निःक्षिपेत् । (१४।१)

annaṃ bhūmau śvacāṇḍālavāyasebhyaśca niḥkṣipet |

14.2१४.२

अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ॥ (१४।२)

annaṃ pitṛmanuṣyebhyo deyamapyanvahaṃ jalam ||

15.1१५.१

स्वाध्यायमन्वहं कुर्यान्न पचेच्चान्नमात्मने । (१५।१)

svādhyāyamanvahaṃ kuryānna paceccānnamātmane |

15.2१५.२

बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ॥ (१५।२)

bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ ||

16.1१६.१

संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् । (१६।१)

saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam |

16.2१६.२

प्राणाग्निहोत्रविधिनाश्नीयाद् अन्नम् अकुत्सयन् ॥ (१६।२)

prāṇāgnihotravidhināśnīyād annam akutsayan ||

17.1१७.१

मितं विपाकं च हितं भक्ष्यं बालादिपूर्वकम् । (१७।१)

mitaṃ vipākaṃ ca hitaṃ bhakṣyaṃ bālādipūrvakam |

17.2१७.२

आपोशानेनोपरिष्टादधस्ताच्चैव भुज्यते ॥ (१७।२)

āpośānenopariṣṭādadhastāccaiva bhujyate ||

18.1१८.१

अनग्नममृतं चैव कार्यमन्नं द्विजन्मना । (१८।१)

anagnamamṛtaṃ caiva kāryamannaṃ dvijanmanā |

18.2१८.२

अतिथिभ्यस्तु वर्णेभ्यो देयं शक्त्यानुपूर्वशः ॥ (१८।२)

atithibhyastu varṇebhyo deyaṃ śaktyānupūrvaśaḥ ||

19.1१९.१

अप्रणोद्यो ऽतिथिः सायमपि नात्र विचारणा । (१९।१)

apraṇodyo 'tithiḥ sāyamapi nātra vicāraṇā |

19.2१९.२

सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च ॥ (१९।२)

satkṛtya bhikṣave bhikṣā dātavyā suvratāya ca ||

20.1२०.१

आगतान् भोजयेत्सर्वान्महोक्षं श्रोत्रियाय च । (२०।१)

āgatān bhojayetsarvānmahokṣaṃ śrotriyāya ca |

20.2२०.२

प्रतिसंवत्सरं त्वर्च्याः स्नातकाचार्यपार्थिवाः ॥ (२०।२)

pratisaṃvatsaraṃ tvarcyāḥ snātakācāryapārthivāḥ ||

21.1२१.१

प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः । (२१।१)

priyo vivāhyaśca tathā yajñaṃ pratyṛtvijaḥ punaḥ |

21.2२१.२

अध्वनीनो ऽतिथिः प्रोक्तः श्रोत्रियो वेदपारगः ॥ (२१।२)

adhvanīno 'tithiḥ proktaḥ śrotriyo vedapāragaḥ ||

22.1२२.१

मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः । (२२।१)

mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ |

22.2२२.२

परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ॥ (२२।२)

parapākarucirna syādanindyāmantraṇādṛte ||

23.1२३.१

वाक्पाणिपादचापल्यं वर्जयेच् चातिभोजनम् । (२३।१)

vākpāṇipādacāpalyaṃ varjayec cātibhojanam |

23.2२३.२

श्रोत्रियं वातिथिं तृप्तम् आ सीमान्ताद् अनुव्रजेत् ॥ (२३।२)

śrotriyaṃ vātithiṃ tṛptam ā sīmāntād anuvrajet ||

24.1२४.१

अहःशेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः । (२४।१)

ahaḥśeṣaṃ sahāsīta śiṣṭairiṣṭaiśca bandhubhiḥ |

24.2२४.२

उपास्य पश्चिमां सन्ध्यां हुत्वाग्नौ भोजनं ततः ॥ (२४।२)

upāsya paścimāṃ sandhyāṃ hutvāgnau bhojanaṃ tataḥ ||

25.1२५.१

कुर्याद् भृत्यैः समायुक्तैश्चिन्तयेदात्मनो हितम् । (२५।१)

kuryād bhṛtyaiḥ samāyuktaiścintayedātmano hitam |

25.2२५.२

ब्राह्मे मुहूर्ते चोत्थाय मान्यो विप्रो धनादिभिः ॥ (२५।२)

brāhme muhūrte cotthāya mānyo vipro dhanādibhiḥ ||

26.1२६.१

वृद्धार्तानां समादेयः पन्था वै भारवाहिनाम् । (२६।१)

vṛddhārtānāṃ samādeyaḥ panthā vai bhāravāhinām |

26.2२६.२

इज्याध्ययनदानानि वैश्यस्य क्षत्त्रियस्य च ॥ (२६।२)

ijyādhyayanadānāni vaiśyasya kṣattriyasya ca ||

27.1२७.१

प्रतिग्रहो ऽधिको विप्रे याजनाध्यापने तथा । (२७।१)

pratigraho 'dhiko vipre yājanādhyāpane tathā |

27.2२७.२

प्रधानं क्षत्त्रिये कर्म प्रजानां परिपालनम् ॥ (२७।२)

pradhānaṃ kṣattriye karma prajānāṃ paripālanam ||

28.1२८.१

कुसीदकृषिवाणिज्यं पाशुपाल्यं विशः स्मृतम् । (२८।१)

kusīdakṛṣivāṇijyaṃ pāśupālyaṃ viśaḥ smṛtam |

28.2२८.२

शूद्रस्य द्विजशुश्रूषा द्विजो यज्ञान्न हापयेत् ॥ (२८।२)

śūdrasya dvijaśuśrūṣā dvijo yajñānna hāpayet ||

29.1२९.१

अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः । (२९।१)

ahiṃsā satyamasteyaṃ śaucamindriyasaṃyamaḥ |

29.2२९.२

दमः क्षमार्जवं दानं सर्वेषां धर्मसाधनम् ॥ (२९।२)

damaḥ kṣamārjavaṃ dānaṃ sarveṣāṃ dharmasādhanam ||

30.1३०.१

आचरेत्सदृशीं वृत्तिमजिह्मामशठान्तथा । (३०।१)

ācaretsadṛśīṃ vṛttimajihmāmaśaṭhāntathā |

30.2३०.२

त्रैवार्षिकाधिकान्नो यः स सोमं पातुमर्हति ॥ (३०।२)

traivārṣikādhikānno yaḥ sa somaṃ pātumarhati ||

31.1३१.१

स्यादन्नं वार्षिकं यस्य कुर्यात् प्रकसौमिकीं क्रियाम् । (३१।१)

syādannaṃ vārṣikaṃ yasya kuryāt prakasaumikīṃ kriyām |

31.2३१.२

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ॥ (३१।२)

pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā ||

32.1३२.१

कर्तव्याग्रहणेष्टिश् च चातुर्मास्यानि यत्नतः । (३२।१)

kartavyāgrahaṇeṣṭiś ca cāturmāsyāni yatnataḥ |

32.2३२.२

एषामसम्भवे कुर्यादिष्टिं वैश्वानरीं द्विजः ॥ (३२।२)

eṣāmasambhave kuryādiṣṭiṃ vaiśvānarīṃ dvijaḥ ||

33.1३३.१

हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् । (३३।१)

hīnakalpaṃ na kurvīta sati dravye phalapradam |

33.2३३.२

चण्डालो जायते यज्ञकरणाच् छूद्रभिक्षितात ॥ (३३।२)

caṇḍālo jāyate yajñakaraṇāc chūdrabhikṣitāta ||

34.1३४.१

यज्ञार्थलब्धं नादद्याद्भासः काको ऽपि वा भवेत् । (३४।१)

yajñārthalabdhaṃ nādadyādbhāsaḥ kāko 'pi vā bhavet |

34.2३४.२

कुसूतकुम्भीधान्यो वा त्र्याहिकः श्वस्तनो ऽपि वा ॥ (३४।२)

kusūtakumbhīdhānyo vā tryāhikaḥ śvastano 'pi vā ||

35.1३५.१

जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः । (३५।१)

jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ |

35.2३५.२

न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः ॥ (३५।२)

na svādhyāyavirodhyarthamīheta na yatastataḥ ||

36.1३६.१

राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा । (३६।१)

rājāntevāsiyājyebhyaḥ sīdanniccheddhanaṃ kṣudhā |

36.2३६.२

दम्भहैतुकपाषण्डिबकवृत्तींश्च वर्जयेत् ॥ (३६।२)

dambhahaitukapāṣaṇḍibakavṛttīṃśca varjayet ||

37.1३७.१

शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः । (३७।१)

śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ |

37.2३७.२

न भार्यादर्शने ऽश्नीयान् नैकवासा न संस्थितः ॥ (३७।२)

na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ ||

38.1३८.१

अप्रियं न वदेज्जातु ब्रह्मसूत्री विनीतवान् । (३८।१)

apriyaṃ na vadejjātu brahmasūtrī vinītavān |

38.2३८.२

देवप्रदक्षिणां कुर्याद् यष्टिमान् सकमण्डलुः ॥ (३८।२)

devapradakṣiṇāṃ kuryād yaṣṭimān sakamaṇḍaluḥ ||

39.1३९.१

न तु मेहेन् नदीछायाभस्मगोष्ठाम्बुवर्त्मसु । (३९।१)

na tu mehen nadīchāyābhasmagoṣṭhāmbuvartmasu |

39.2३९.२

न प्रत्यग्न्यर्कगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनाम् ॥ (३९।२)

na pratyagnyarkagosomasandhyāmbustrīdvijanmanām ||

40.1४०.१

नेक्षेताग्न्यर्कनग्नां स्त्रीं न च संसृष्टमैथुनाम् । (४०।१)

nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām |

40.2४०.२

न च मूत्रं पुरीषं वा स्वपेत् प्रत्यक्शिरा न च ॥ (४०।२)

na ca mūtraṃ purīṣaṃ vā svapet pratyakśirā na ca ||

41.1४१.१

ष्ठीवनासृक्शकृन्मूत्रविषाण्य् अप्सु न संक्षिपेत् । (४१।१)

ṣṭhīvanāsṛkśakṛnmūtraviṣāṇy apsu na saṃkṣipet |

41.2४१.२

पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ (४१।२)

pādau pratāpayennāgnau na cainamabhilaṅghayet ||

42.1४२.१

पिबेन्नाञ्जलिना तोयं न शयानं प्रबोधयेत् । (४२।१)

pibennāñjalinā toyaṃ na śayānaṃ prabodhayet |

42.2४२.२

नाक्षैः क्रीजेच्च कितवैर्व्याधितैश्च न संविशेत् ॥ (४२।२)

nākṣaiḥ krījecca kitavairvyādhitaiśca na saṃviśet ||

43.1४३.१

विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम् । (४३।१)

viruddhaṃ varjayet karma pretadhūmaṃ nadītaram |

43.2४३.२

केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ (४३।२)

keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim ||

44.1४४.१

नाचक्षीत धयन्तीं गां नाद्वारेणाविशेत् क्वचित् । (४४।१)

nācakṣīta dhayantīṃ gāṃ nādvāreṇāviśet kvacit |

44.2४४.२

न राज्ञः प्रतिगृह्णीयाल् लुब्धस्योच्छास्त्रवर्तिनः ॥ (४४।२)

na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ ||

45.1४५.१

अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा । (४५।१)

adhyāyānāmupākarma śrāvaṇyāṃ śravaṇena vā |

45.2४५.२

हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य च ॥ (४५।२)

hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya ca ||

46.1४६.१

पौषमासस्य रोहिण्यामष्टकायामथापि वा । (४६।१)

pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā |

46.2४६.२

जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद् बहिः ॥ (४६।२)

jalānte chandasāṃ kuryādutsargaṃ vidhivad bahiḥ ||

47.1४७.१

अनध्यायस्त्र्यहं प्रेते शिष्यर्त्विग्गुरुबन्धुषु । (४७।१)

anadhyāyastryahaṃ prete śiṣyartviggurubandhuṣu |

47.2४७.२

उपाकर्मणि चोत्सर्गे स्वशाखश्रोत्रिये मृते ॥ (४७।२)

upākarmaṇi cotsarge svaśākhaśrotriye mṛte ||

48.1४८.१

सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने । (४८।१)

sandhyāgarjitanirghātabhūkampolkānipātane |

48.2४८.२

समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥ (४८।२)

samāpya vedaṃ dyuniśamāraṇyakamadhītya ca ||

49.1४९.१

पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके । (४९।१)

pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake |

49.2४९.२

ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ (४९।२)

ṛtusandhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca ||

50.1५०.१

पशुमण्डूकनकुलश्वाहिमार्जारसूकरैः । (५०।१)

paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ |

50.2५०.२

कृते ऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ (५०।२)

kṛte 'ntare tvahorātraṃ śakrapāte tathocchraye ||

51.1५१.१

श्वक्रोष्टुगर्दभोलूकसामबाणार्तनिःस्वने । (५१।१)

śvakroṣṭugardabholūkasāmabāṇārtaniḥsvane |

51.2५१.२

अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ (५१।२)

amedhyaśavaśūdrāntyaśmaśānapatitāntike ||

52.1५२.१

देशे ऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे । (५२।१)

deśe 'śucāvātmani ca vidyutstanitasaṃplave |

52.2५२.२

भुक्त्वार्द्रपाणिरम्भो ऽन्तरर्धरात्रे ऽतिमारुते ॥ (५२।२)

bhuktvārdrapāṇirambho 'ntarardharātre 'timārute ||

53.1५३.१

दिग्दाहे पांसुवर्षेषु सन्ध्यानीहारभीतिषु । (५३।१)

digdāhe pāṃsuvarṣeṣu sandhyānīhārabhītiṣu |

53.2५३.२

धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ (५३।२)

dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate ||

54.1५४.१

खरोष्ट्रयानहस्त्यश्वनौवृक्षगिरिरोहणे । (५४।१)

kharoṣṭrayānahastyaśvanauvṛkṣagirirohaṇe |

54.2५४.२

सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥ (५४।२)

saptatriṃśadanadhyāyānetāṃstātkālikānviduḥ ||

55.1५५.१

वेददिष्टं तथाचार्यं राजच्छायां परस्त्रियम् । (५५।१)

vedadiṣṭaṃ tathācāryaṃ rājacchāyāṃ parastriyam |

55.2५५.२

नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनानि च ॥ (५५।२)

nākrāmedraktaviṇmūtraṣṭhīvanodvartanāni ca ||

56.1५६.१

विप्राहिक्षत्त्रियात्मानो नावज्ञेयाः कदाचन । (५६।१)

viprāhikṣattriyātmāno nāvajñeyāḥ kadācana |

56.2५६.२

दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ॥ (५६।२)

dūrāducchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet ||

57.1५७.१

श्रुतिस्मृत्युक्तमाचारं कुर्यान्मर्मणि न स्पृशेत् । (५७।१)

śrutismṛtyuktamācāraṃ kuryānmarmaṇi na spṛśet |

57.2५७.२

न निन्दाताडने कुर्यात्सुतं शिष्यं च ताडयेत् ॥ (५७।२)

na nindātāḍane kuryātsutaṃ śiṣyaṃ ca tāḍayet ||

58.1५८.१

आचरेत्सर्वदा धर्मं तद्विरुद्धं तु नाचरेत् । (५८।१)

ācaretsarvadā dharmaṃ tadviruddhaṃ tu nācaret |

58.2५८.२

मातापित्रतिथीभ्याढ्यैर् विवादं नाचरेद्गृही ॥ (५८।२)

mātāpitratithībhyāḍhyair vivādaṃ nācaredgṛhī ||

59.1५९.१

पञ्च पिण्डान् अनुद्धृत्य न स्नायात्परवारिषु । (५९।१)

pañca piṇḍān anuddhṛtya na snāyātparavāriṣu |

59.2५९.२

स्नायान् नदीप्रस्रवणदेवखातह्रदेषु च ॥ (५९।२)

snāyān nadīprasravaṇadevakhātahradeṣu ca ||

60.1६०.१

वर्जयेत्परशय्यादि न चाश्नीयादनापदि । (६०।१)

varjayetparaśayyādi na cāśnīyādanāpadi |

60.2६०.२

कदर्यबद्धचोराणां तथा चानम्निकस्य च ॥ (६०।२)

kadaryabaddhacorāṇāṃ tathā cānamnikasya ca ||

61.1६१.१

वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम् । (६१।१)

vaiṇābhiśastavārdhuṣyagaṇikāgaṇadīkṣiṇām |

61.2६१.२

चिकित्सकातुरक्रुद्धक्लीबरङ्गोपजीविनाम् ॥ (६१।२)

cikitsakāturakruddhaklībaraṅgopajīvinām ||

62.1६२.१

क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् । (६२।१)

krūrograpatitavrātyadāmbhikocchiṣṭabhojinām |

62.2६२.२

शास्त्रविक्रयिणश्चैव स्त्रीजितग्रामयाजिनाम् ॥ (६२।२)

śāstravikrayiṇaścaiva strījitagrāmayājinām ||

63.1६३.१

नृशंसराजरजककृतघ्नवधजीविनाम् । (६३।१)

nṛśaṃsarājarajakakṛtaghnavadhajīvinām |

63.2६३.२

पिशुनानृतिनोश्चैव सोमविक्रयिणस्तथा ॥ (६३।२)

piśunānṛtinoścaiva somavikrayiṇastathā ||

64.1६४.१

बन्दिनां स्वर्णकाराणामन्नमेषां कदाचन । (६४।१)

bandināṃ svarṇakārāṇāmannameṣāṃ kadācana |

64.2६४.२

न भोक्तव्यं वृथा मांसं केशकीटसमन्वितम् ॥ (६४।२)

na bhoktavyaṃ vṛthā māṃsaṃ keśakīṭasamanvitam ||

65.1६५.१

भक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितोक्षितम् । (६५।१)

bhaktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitokṣitam |

65.2६५.२

उदक्यास्पृष्टसंघुष्टमपर्याप्तं च वर्जयेत् ॥ (६५।२)

udakyāspṛṣṭasaṃghuṣṭamaparyāptaṃ ca varjayet ||

66.1६६.१

गोघ्रातं शकुनोच्छिष्टं पादस्पृष्टं च कामतः । (६६।१)

goghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭaṃ ca kāmataḥ |

66.2६६.२

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ॥ (६६।२)

śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ ||

67.1६७.१

भोज्यान्नो नापितश्चैव यश्चात्मानं निवेदयेत् । (६७।१)

bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet |

67.2६७.२

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंभृतम् ॥ (६७।२)

annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃbhṛtam ||

68.1६८.१

अस्नेहा अपि गोधूमयवगोरसविक्रियाः । (६८।१)

asnehā api godhūmayavagorasavikriyāḥ |

68.2६८.२

औष्ट्रमैकशफं स्त्रीणां पयश्च परिवर्जयेत् ॥ (६८।२)

auṣṭramaikaśaphaṃ strīṇāṃ payaśca parivarjayet ||

69.1६९.१

क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत् । (६९।१)

kravyādapakṣidātyūhaśukamāṃsāni varjayet |

69.2६९.२

सारसैकशफान्हंसान्बलाकबकटिट्टिभान् ॥ (६९।२)

sārasaikaśaphānhaṃsānbalākabakaṭiṭṭibhān ||

70.1७०.१

वृथा कृसरसंयावपायसापूपशष्कुलीः । (७०।१)

vṛthā kṛsarasaṃyāvapāyasāpūpaśaṣkulīḥ |

70.2७०.२

कुररं जालपादं च खञ्जरीटमृगद्विजान् ॥ (७०।२)

kuraraṃ jālapādaṃ ca khañjarīṭamṛgadvijān ||

71.1७१.१

चाषान् मत्स्यात्रक्तपादञ्चग्द्ध्वा वै कामतो नरः । (७१।१)

cāṣān matsyātraktapādañcagddhvā vai kāmato naraḥ |

71.2७१.२

वल्लूरं कामतो जग्ध्वा सोपवासस्त्र्यहं भवेत् ॥ (७१।२)

vallūraṃ kāmato jagdhvā sopavāsastryahaṃ bhavet ||

72.1७२.१

पलाण्डुलशुनादीनि जग्ध्वा चान्द्रायणं चरेत् । (७२।१)

palāṇḍulaśunādīni jagdhvā cāndrāyaṇaṃ caret |

72.2७२.२

श्राद्धे देवान्पितॄन् प्रार्च्य खादन्मांसं न दोषभाक् ॥ (७२।२)

śrāddhe devānpitṝn prārcya khādanmāṃsaṃ na doṣabhāk ||

73.1७३.१

वसेत्स नरके घोरे दिनानि पशुरोमतः । (७३।१)

vasetsa narake ghore dināni paśuromataḥ |

73.2७३.२

संमितानि दुराचारो यो हन्त्यविधिना पशून् । (७३।२)

saṃmitāni durācāro yo hantyavidhinā paśūn |

73.3७३.३

मांसं संत्यज्य संप्रार्थ्य कामान्याति ततो हरिम् ॥ (७३।३)

māṃsaṃ saṃtyajya saṃprārthya kāmānyāti tato harim ||

74.1७४.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धनिरूपणं नाम षण्णवतितमो ऽध्यायः ॥ (७४।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhanirūpaṇaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 96

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit