GarPur, 1, 149
Select a line for its word-by-word analysis.
पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः ॥ (१।३)
pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ ||
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् । (२।१)
kṣayāyopekṣitāḥ sarve balinaścottarottaram |
तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः ॥ (२।२)
teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ ||
शुष्ककर्णास्यकण्ठत्वं तत्राधोविहितो ऽनिलः । (३।१)
śuṣkakarṇāsyakaṇṭhatvaṃ tatrādhovihito 'nilaḥ |
ऊर्ध्वं प्रवृत्तः प्राप्योरस् तस्मिन्कण्ठे च संसृजन् ॥ (३।२)
ūrdhvaṃ pravṛttaḥ prāpyoras tasminkaṇṭhe ca saṃsṛjan ||
शिरास्रोतांसि सम्पूर्य ततो ऽङ्गान्युत्क्षिपन्ति च । (४।१)
śirāsrotāṃsi sampūrya tato 'ṅgānyutkṣipanti ca |
क्षिपन्निवाक्षिणी क्लिष्टस्वरः पार्श्वे च पीडयन् ॥ (४।२)
kṣipannivākṣiṇī kliṣṭasvaraḥ pārśve ca pīḍayan ||
हृत्पार्श्वेरुशिरः शूलमोहक्षोभस्वरक्षयान् ॥ (५।२)
hṛtpārśveruśiraḥ śūlamohakṣobhasvarakṣayān ||
स्ॐगहर्षो कफं शुष्कं कृच्छ्रान्मुक्त्वाल्पतां व्रजेत् ॥ (६।२)
soṃgaharṣo kaphaṃ śuṣkaṃ kṛcchrānmuktvālpatāṃ vrajet ||
पित्तात्पीताक्षिकत्वं च तिक्तास्यत्वं ज्वरो भ्रमः । (७।१)
pittātpītākṣikatvaṃ ca tiktāsyatvaṃ jvaro bhramaḥ |
पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमको मदः ॥ (७।२)
pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako madaḥ ||
कफादुरो ऽल्परुङ् मूर्ध्नि हृदयं स्तिमिते गुरु ॥ (८।२)
kaphāduro 'lparuṅ mūrdhni hṛdayaṃ stimite guru ||
रोमहर्षो धनस्निग्धं श्लेष्मणां च प्रवर्तनम् ॥ (९।२)
romaharṣo dhanasnigdhaṃ śleṣmaṇāṃ ca pravartanam ||
युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् । (१०।१)
yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam |
उपस्यन्तः क्षतो वायुः पित्तेनानुगतो बली ॥ (१०।२)
upasyantaḥ kṣato vāyuḥ pittenānugato balī ||
पीतं श्यावं च शुष्कं च ग्रथितं कुपितं बहु ॥ (११।२)
pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kupitaṃ bahu ||
ष्ठीवेत्कण्ठेन रुजता विभिन्नेनैव चोरसा । (१२।१)
ṣṭhīvetkaṇṭhena rujatā vibhinnenaiva corasā |
पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान् ॥ (१३।२)
parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān ||
पारावत इवोत्कूजन् पार्श्वशूली ततो ऽस्य च । (१४।१)
pārāvata ivotkūjan pārśvaśūlī tato 'sya ca |
क्षीणस्य सासृङ्मूत्रत्वं श्वासपृष्ठकटिग्रहः । (१५।१)
kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭhakaṭigrahaḥ |
कुर्वन्ति यक्ष्मायतने कासं ष्ठीवत्कफं ततः । (१६।१)
kurvanti yakṣmāyatane kāsaṃ ṣṭhīvatkaphaṃ tataḥ |
अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः ॥ (१७।२)
akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ ||
स्निग्धप्रसन्नवक्रत्वं श्रीमद्दर्शननेत्रता । (१८।१)
snigdhaprasannavakratvaṃ śrīmaddarśananetratā |
ततो ऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च ॥ (१८।२)
tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca ||
याप्यौ वा बलिनां तद्वत्क्षतजो ऽपि नवौ तु तौ ॥ (१९।२)
yāpyau vā balināṃ tadvatkṣatajo 'pi navau tu tau ||
सिध्येतामपि सामर्थ्यात्साध्यादौ च पृथक्क्रमः । (२०।१)
sidhyetāmapi sāmarthyātsādhyādau ca pṛthakkramaḥ |
मिश्रा याप्याश्च ये सर्वे जरसः स्थविरस्य च ॥ (२०।२)
miśrā yāpyāśca ye sarve jarasaḥ sthavirasya ca ||
भवन्त्युपेक्षया यस्मात्तस्मात्तास्त्वरया जयेत् ॥ (२१।२)
bhavantyupekṣayā yasmāttasmāttāstvarayā jayet ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कासनिदानं नामैकोनपञ्चाशदुत्तरशततमो ऽध्यायः ॥ (२२।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kāsanidānaṃ nāmaikonapañcāśaduttaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.