गरुडपुराणGaruḍapurāṇa

GarPur, 1, 35

35 of 166 · 24 verses

Select a line for its word-by-word analysis.

1.1१.१

हरिरुवाच । (१।१)

hariruvāca |

1.2१.२

न्यासादिकं प्रवक्ष्यामि गायत्र्याः शृणु शङ्कर । (१।२)

nyāsādikaṃ pravakṣyāmi gāyatryāḥ śṛṇu śaṅkara |

1.3१.३

विश्वामित्रर्षिश्चैव सविता चाथ देवता ॥ (१।३)

viśvāmitrarṣiścaiva savitā cātha devatā ||

2.1२.१

ब्रह्मशीर्षा रुद्रशिखा विष्णोर्हृदयसंश्रिता । (२।१)

brahmaśīrṣā rudraśikhā viṣṇorhṛdayasaṃśritā |

2.2२.२

विनियोगैकनयना कात्यायनसगोत्रजा ॥ (२।२)

viniyogaikanayanā kātyāyanasagotrajā ||

3.1३.१

त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षिसंस्थिता । (३।१)

trailokyacaraṇā jñeyā pṛthivīkukṣisaṃsthitā |

3.2३.२

एवं ज्ञात्वा तु गायत्त्रीं जपेद्द्वादशलक्षकम् ॥ (३।२)

evaṃ jñātvā tu gāyattrīṃ japeddvādaśalakṣakam ||

4.1४.१

त्रिपदाष्टाक्षरा ज्ञेया चतुष्पादा षडक्षरा । (४।१)

tripadāṣṭākṣarā jñeyā catuṣpādā ṣaḍakṣarā |

4.2४.२

जपे च त्रिपदा प्रोक्ता अर्चने च चतुष्पदा ॥ (४।२)

jape ca tripadā proktā arcane ca catuṣpadā ||

5.1५.१

न्यासे जपे तथा ध्याने अग्निकार्ये तथार्चने । (५।१)

nyāse jape tathā dhyāne agnikārye tathārcane |

5.2५.२

गायत्त्रीं विन्यसेन्नित्यं सर्वपापप्रणाशिनीम् ॥ (५।२)

gāyattrīṃ vinyasennityaṃ sarvapāpapraṇāśinīm ||

6.1६.१

पादांगुष्ठे गुल्फमध्ये जङ्घयोर्विद्धि जानुनोः । (६।१)

pādāṃguṣṭhe gulphamadhye jaṅghayorviddhi jānunoḥ |

6.2६.२

ऊर्वोर्गुह्ये च वृषणे नाड्यां नाभौ तनूदरे ॥ (६।२)

ūrvorguhye ca vṛṣaṇe nāḍyāṃ nābhau tanūdare ||

7.1७.१

स्तनयोर्हृदि कण्ठौष्ठमुखे तालुनि चांसयोः । (७।१)

stanayorhṛdi kaṇṭhauṣṭhamukhe tāluni cāṃsayoḥ |

7.2७.२

नेत्रे भुवार् ललाटे च पूर्वस्यां दक्षिणोत्तरे ॥ (७।२)

netre bhuvār lalāṭe ca pūrvasyāṃ dakṣiṇottare ||

8.1८.१

पश्चिमे मूर्ध्नि चाकारं न्यसेद्वर्णान्वदाम्यहम् । (८।१)

paścime mūrdhni cākāraṃ nyasedvarṇānvadāmyaham |

8.2८.२

इन्द्रनीलं च वह्निं च पीतं श्यामं च कापिलम् ॥ (८।२)

indranīlaṃ ca vahniṃ ca pītaṃ śyāmaṃ ca kāpilam ||

9.1९.१

श्वेतं विद्युत्प्रभं तारं कृष्णं रक्तं क्रमेण तत् । (९।१)

śvetaṃ vidyutprabhaṃ tāraṃ kṛṣṇaṃ raktaṃ krameṇa tat |

9.2९.२

श्यामं शुक्लं तथा पीतं श्वेतं वै पद्मरागवत् ॥ (९।२)

śyāmaṃ śuklaṃ tathā pītaṃ śvetaṃ vai padmarāgavat ||

10.1१०.१

शङ्खवर्णं पाण्डुरं च रक्तं चासवसन्निभम् । (१०।१)

śaṅkhavarṇaṃ pāṇḍuraṃ ca raktaṃ cāsavasannibham |

10.2१०.२

अर्कवर्णसमं सौम्यं शङ्खाभं श्वेतमेव च ॥ (१०।२)

arkavarṇasamaṃ saumyaṃ śaṅkhābhaṃ śvetameva ca ||

11.1११.१

यद्यत्स्पृशति हस्तेन यच्च पश्यति चक्षुषा । (११।१)

yadyatspṛśati hastena yacca paśyati cakṣuṣā |

11.2११.२

पूतं भवति तत्सर्वं गायत्त्र्या न परं विदुः ॥ (११।२)

pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ ||

12.1१२.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्रीन्यासनिरूपणं नाम पञ्चत्रिंशो ऽध्यायः ॥ (१२।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīnyāsanirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 35

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit