गरुडपुराणGaruḍapurāṇa

GarPur, 1, 85

84 of 166 · 49 verses

Select a line for its word-by-word analysis.

1.1१.१

ब्रह्मोवाच । (१।१)

brahmovāca |

1.2१.२

स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च । (१।२)

snātvā pretaśilādau tu varuṇāsthāmṛtena ca |

1.3१.३

पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान् ॥ (१।३)

piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān ||

2.1२.१

अस्मत्कुले मृता ये च गतिर्येषां न विद्यते । (२।१)

asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate |

2.2२.२

आवाहयिष्ये तान्सर्वान् दर्भपृष्ठे तिलोदकैः ॥ (२।२)

āvāhayiṣye tānsarvān darbhapṛṣṭhe tilodakaiḥ ||

3.1३.१

पितृवंशे मृता ये च मातृवंशे च ये मृताः । (३।१)

pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ |

3.2३.२

तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ (३।२)

teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ||

4.1४.१

मातामहकुले ये च गतिर्येषां न विद्यते । (४।१)

mātāmahakule ye ca gatiryeṣāṃ na vidyate |

4.2४.२

तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ (४।२)

teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ||

5.1५.१

अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः । (५।१)

ajātadantā ye kecidye ca garbhe prapīḍitāḥ |

5.2५.२

तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ (५।२)

teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ||

6.1६.१

बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः । (६।१)

bandhuvargāśca ye kecinnāmagotravivarjitāḥ |

6.2६.२

स्वगोत्रे परगोत्रे वा गतिर्येषां न विद्यते । (६।२)

svagotre paragotre vā gatiryeṣāṃ na vidyate |

6.3६.३

तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ (६।३)

teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ||

7.1७.१

उद्बन्धनमृता ये च विषशस्त्रहताश्च ये । (७।१)

udbandhanamṛtā ye ca viṣaśastrahatāśca ye |

7.2७.२

आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥ (७।२)

ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham ||

8.1८.१

अग्निदाहे मृता ये च सिंहव्याघ्रहताश्चये । (८।१)

agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye |

8.2८.२

दंष्ट्रिभिः शृङ्गिभिर्वापि तेषां पिण्डं ददाम्यहम् ॥ (८।२)

daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham ||

9.1९.१

अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे । (९।१)

agnidagdhāśca ye kecinnāgnidagdhāstathāpare |

9.2९.२

विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम् ॥ (९।२)

vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham ||

10.1१०.१

रौरवे चान्धतामिस्रे कालसूत्रे च ये गताः । (१०।१)

raurave cāndhatāmisre kālasūtre ca ye gatāḥ |

10.2१०.२

तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ (१०।२)

teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ||

11.1११.१

असिपत्रवने घोरे कुम्भीपाके च ये गताः । (११।१)

asipatravane ghore kumbhīpāke ca ye gatāḥ |

11.2११.२

तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ (११।२)

teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ||

12.1१२.१

अन्येषां यातनास्थानां प्रेतलोकनिवासिनाम् । (१२।१)

anyeṣāṃ yātanāsthānāṃ pretalokanivāsinām |

12.2१२.२

तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ (१२।२)

teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ||

13.1१३.१

पशुयोनिं गता ये च पक्षिकीटसरीसृपाः । (१३।१)

paśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ |

13.2१३.२

अथवा वृक्षयोनिस्थास् तेभ्यः पिण्डं ददाम्यहम् ॥ (१३।२)

athavā vṛkṣayonisthās tebhyaḥ piṇḍaṃ dadāmyaham ||

14.1१४.१

असंख्ययातनासंस्था ये नीता यमशासनैः । (१४।१)

asaṃkhyayātanāsaṃsthā ye nītā yamaśāsanaiḥ |

14.2१४.२

तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ (१४।२)

teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ||

15.1१५.१

जात्यन्तरसहस्रेषु भ्रमन्ति स्वेन कर्मणा । (१५।१)

jātyantarasahasreṣu bhramanti svena karmaṇā |

15.2१५.२

मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥ (१५।२)

mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham ||

16.1१६.१

ये बान्धवाबान्धवा वा ये ऽन्यजन्मनि बान्धवाः । (१६।१)

ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ |

16.2१६.२

ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा ॥ (१६।२)

te sarve tṛptimāyāntu piṇḍadānena sarvadā ||

17.1१७.१

ये केचित्प्रेतरूपेण वर्तन्ते पितरो मम । (१७।१)

ye kecitpretarūpeṇa vartante pitaro mama |

17.2१७.२

ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा ॥ (१७।२)

te sarve tṛptimāyāntu piṇḍadānena sarvadā ||

18.1१८.१

ये मे पितृकुले जाताः कुले मातुस्तथैव च । (१८।१)

ye me pitṛkule jātāḥ kule mātustathaiva ca |

18.2१८.२

गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥ (१८।२)

guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ ||

19.1१९.१

ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः । (१९।१)

ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ |

19.2१९.२

क्रियालोपहता ये च जात्यन्धाः पङ्गवस्तथा ॥ (१९।२)

kriyālopahatā ye ca jātyandhāḥ paṅgavastathā ||

20.1२०.१

विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम । (२०।१)

virūpā āmagarbhāśca jñātājñātāḥ kule mama |

20.2२०.२

तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम् ॥ (२०।२)

teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām ||

21.1२१.१

साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा । (२१।१)

sākṣiṇaḥ santu me devā brahmeśānādayastathā |

21.2२१.२

मया गयां समासाद्य पितॄणां निष्कृतिः कृता ॥ (२१।२)

mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā ||

22.1२२.१

आगतो ऽहं गयां देव पितृकार्ये गदाधर । (२२।१)

āgato 'haṃ gayāṃ deva pitṛkārye gadādhara |

22.2२२.२

तन्मे साक्षी भवत्वद्य अनृणो ऽहमृणत्रयात् ॥ (२२।२)

tanme sākṣī bhavatvadya anṛṇo 'hamṛṇatrayāt ||

23.1२३.१

महानदी ब्रह्मसरो ऽक्षयो वटः प्रभासम् उद्यन्तमहो गयाशिरः । (२३।१)

mahānadī brahmasaro 'kṣayo vaṭaḥ prabhāsam udyantamaho gayāśiraḥ |

23.2२३.२

सरस्वतीधर्मकधेनुपृष्ठा एते कुरुक्षेत्रगता गयायाम् ॥ (२३।२)

sarasvatīdharmakadhenupṛṣṭhā ete kurukṣetragatā gayāyām ||

24.1२४.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम पञ्चाशीतितमो ऽध्यायः ॥ (२४।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 85

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit