GarPur, 1, 94
Select a line for its word-by-word analysis.
गर्भाष्टमे ऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । (१।२)
garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam |
दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । (३।१)
divā sandhyāsu karṇasthabrahmasūtra udaṅmukhaḥ |
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ॥ (३।२)
kuryānmūtrapurīṣe tu rātrau ceddakṣiṇāmukhaḥ ||
गृहीतशिश्नश् चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः । (४।१)
gṛhītaśiśnaś cotthāya mṛdbhirabhyuddhṛtairjalaiḥ |
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ (५।२)
prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet ||
कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च । (६।१)
kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca |
त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् । (७।१)
triḥ prāśyāpo dvirunmṛjya khānyadbhiḥ samupaspṛśet |
अद्भिस्तु प्रकृतिस्थाभिर् हेनाभिः फेनबुद्बुदैः ॥ (७।२)
adbhistu prakṛtisthābhir henābhiḥ phenabudbudaiḥ ||
हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः । (८।१)
hṛtkaṇṭhatālugābhistu yathāsaṃkhyaṃ dvijātayaḥ |
शुध्येरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ (८।२)
śudhyeran strī ca śūdraśca sakṛtspṛṣṭābhirantataḥ ||
स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः । (९।१)
snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyamaḥ |
सूर्यस्य चाप्युपस्थानं गायत्त्र्याः प्रत्ययं जपः ॥ (९।२)
sūryasya cāpyupasthānaṃ gāyattryāḥ pratyayaṃ japaḥ ||
गायत्त्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । (१०।१)
gāyattrīṃ śirasā sārdhaṃ japedvyāhṛtipūrvikām |
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥ (१०।२)
pratipraṇavasaṃyuktāṃ trirayaṃ prāṇasaṃyamaḥ ||
प्राणानायम्य सम्प्रोक्ष्य त्र्यृचेनाब्दैवतेन तु । (११।१)
prāṇānāyamya samprokṣya tryṛcenābdaivatena tu |
सन्ध्यां प्राक् प्रातरेवं हि तिष्ठेद् आ सूर्यदर्शनात् । (१२।१)
sandhyāṃ prāk prātarevaṃ hi tiṣṭhed ā sūryadarśanāt |
अग्निकार्यं ततः कुर्यात्सन्ध्ययोरुभयोरपि ॥ (१२।२)
agnikāryaṃ tataḥ kuryātsandhyayorubhayorapi ||
ततो ऽभिवादयेद् वृद्धान् असावहमिति ब्रुवन् । (१३।१)
tato 'bhivādayed vṛddhān asāvahamiti bruvan |
गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः ॥ (१३।२)
guruṃ caivāpyupāsīta svādhyāyārthaṃ samāhitaḥ ||
साहूतश्चाप्यधीयीत सर्वं चास्मै निवेदयेत् । (१४।१)
sāhūtaścāpyadhīyīta sarvaṃ cāsmai nivedayet |
हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः ॥ (१४।२)
hitaṃ tasyācarennityaṃ manovākkāyakarmabhiḥ ||
ब्राह्मणेषु चरेद्भैक्षमनिन्द्येष्वात्मवृत्तये ॥ (१५।२)
brāhmaṇeṣu caredbhaikṣamanindyeṣvātmavṛttaye ||
ब्राह्मणक्षत्त्रियविशां भैक्षचर्या यथाक्रमम् ॥ (१६।२)
brāhmaṇakṣattriyaviśāṃ bhaikṣacaryā yathākramam ||
कृताग्निकार्यो भुञ्जीत विनीतो गुर्वनुज्ञया । (१७।१)
kṛtāgnikāryo bhuñjīta vinīto gurvanujñayā |
आपोशानक्रियापूर्वं सत्कृत्यान्नमकुत्सयन् ॥ (१७।२)
āpośānakriyāpūrvaṃ satkṛtyānnamakutsayan ||
ब्राह्मणः कामम् अश्नीयाच्छ्राद्धे व्रतम् अपीडयन् ॥ (१८।२)
brāhmaṇaḥ kāmam aśnīyācchrāddhe vratam apīḍayan ||
मधु मांसं तथा स्विन्नमित्यादि परिवर्जयेत् । (१९।१)
madhu māṃsaṃ tathā svinnamityādi parivarjayet |
स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति ॥ (१९।२)
sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati ||
प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ॥ (२१।२)
prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā ||
आषोडशाद्वाविंशाच्चाचतुर्विंशाच्च वत्सरात् ॥ (२२।२)
āṣoḍaśādvāviṃśāccācaturviṃśācca vatsarāt ||
अत ऊर्ध्वं पतन्त्येते सर्वधर्मविवर्जिताः ॥ (२३।२)
ata ūrdhvaṃ patantyete sarvadharmavivarjitāḥ ||
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः । (२४।१)
sāvitrīpatitā vrātyā vrātyastomādṛte kratoḥ |
मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जबन्धनम् ॥ (२४।२)
māturyadagre jāyante dvitīyaṃ mauñjabandhanam ||
ब्राह्मणक्षत्त्रियविशस् तस्मादेते द्विजातयः । (२५।१)
brāhmaṇakṣattriyaviśas tasmādete dvijātayaḥ |
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ॥ (२५।२)
yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām ||
मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः ॥ (२६।२)
madhunā payasā caiva sa devāṃstarpayeddvijaḥ ||
पितॄन्मधुघृताभ्यां च ऋचो ऽधीते हि सो ऽन्वहम् । (२७।१)
pitṝnmadhughṛtābhyāṃ ca ṛco 'dhīte hi so 'nvaham |
यजुः साम पठेत्तद्वदथर्वाङ्गिरसं द्विजः ॥ (२७।२)
yajuḥ sāma paṭhettadvadatharvāṅgirasaṃ dvijaḥ ||
संतर्पयेत् पितॄन् देवान्सो ऽन्वहं हि घृतामृतैः । (२८।१)
saṃtarpayet pitṝn devānso 'nvahaṃ hi ghṛtāmṛtaiḥ |
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः ॥ (२८।२)
vākovākyaṃ purāṇaṃ ca nārāśaṃsīśca gāthikāḥ ||
इतिहासांस्तथा विद्या यो ऽधीते शक्तितो ऽन्वहम् । (२९।१)
itihāsāṃstathā vidyā yo 'dhīte śaktito 'nvaham |
संतर्पयेत् पितॄन् देवान् मांसक्षीरौदनादिभिः ॥ (२९।२)
saṃtarpayet pitṝn devān māṃsakṣīraudanādibhiḥ ||
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । (३०।१)
te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ |
यं यं क्रतुम् अधीते ऽसौ तस्यस्याप्नुयात् फलम् ॥ (३०।२)
yaṃ yaṃ kratum adhīte 'sau tasyasyāpnuyāt phalam ||
भूमिदानस्य तपसः स्वाध्यायफलभाग्द्विजः । (३१।१)
bhūmidānasya tapasaḥ svādhyāyaphalabhāgdvijaḥ |
नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ ॥ (३१।२)
naiṣṭhiko brahmacārī tu vasedācāryasannidhau ||
तदभावे ऽस्य तनये पत्न्यां वैश्वानरे ऽपि वा । (३२।१)
tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā |
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्मनिरूपणं नाम चतुर्नवतितमो ऽध्यायः ॥ (३३।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma caturnavatitamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.