GarPur, 1, 18
Select a line for its word-by-word analysis.
गरुडोक्तं कश्यपाय वक्ष्ये मृत्युञ्जयार्चनम् । (१।२)
garuḍoktaṃ kaśyapāya vakṣye mṛtyuñjayārcanam |
ओङ्कारं पूर्वमुद्धृत्य जुंकारं तदनन्तरम् । (२।१)
oṅkāraṃ pūrvamuddhṛtya juṃkāraṃ tadanantaram |
सविसर्गं तृतीयं स्यान् मृत्युदारिद्र्यमर्दनम् ॥ (२।२)
savisargaṃ tṛtīyaṃ syān mṛtyudāridryamardanam ||
अमृतेशं महामन्त्रन्त्र्यक्षरं पूजनं समम् । (३।२)
amṛteśaṃ mahāmantrantryakṣaraṃ pūjanaṃ samam |
जपनान्मृत्युहीनाः स्युः सर्वपापविवर्जिताः ॥ (३।३)
japanānmṛtyuhīnāḥ syuḥ sarvapāpavivarjitāḥ ||
अष्टोत्तरशताज्जाप्यात् त्रिसन्ध्यं मृत्युशत्रुजित ॥ (४।२)
aṣṭottaraśatājjāpyāt trisandhyaṃ mṛtyuśatrujita ||
द्वाभ्यां चामृतकुम्भं तु चिन्तयेदमृतेश्वरम् ॥ (५।२)
dvābhyāṃ cāmṛtakumbhaṃ tu cintayedamṛteśvaram ||
आह्वानं स्थापनं रोधं सन्निधानं निवेशनम् । (८।१)
āhvānaṃ sthāpanaṃ rodhaṃ sannidhānaṃ niveśanam |
पाद्यम् आचमनं स्नानमर्घ्यं स्रगनुलेपनम् ॥ (८।२)
pādyam ācamanaṃ snānamarghyaṃ sraganulepanam ||
मात्रामुद्राजपध्यानं दक्षिणा चाहुतिः स्तुतिः ॥ (९।२)
mātrāmudrājapadhyānaṃ dakṣiṇā cāhutiḥ stutiḥ ||
वाद्यं गतिं च नृत्यं च न्यासयोगं प्रदक्षिणम् । (१०।१)
vādyaṃ gatiṃ ca nṛtyaṃ ca nyāsayogaṃ pradakṣiṇam |
प्रणतिर्मन्त्रशय्या च वन्दनं च विसर्जनम् ॥ (१०।२)
praṇatirmantraśayyā ca vandanaṃ ca visarjanam ||
अर्घ्यपात्रार्चनं चादावस्त्रेणैव तु ताडनम् । (१२।१)
arghyapātrārcanaṃ cādāvastreṇaiva tu tāḍanam |
पीठशुद्धिं ततः कुर्याच्छोषणाद्यैस्ततः स्मरेत् ॥ (१३।२)
pīṭhaśuddhiṃ tataḥ kuryācchoṣaṇādyaistataḥ smaret ||
आत्मानं पूजयेत् पश्चाज् ज्योतीरूपं हृदब्जतः ॥ (१४।२)
ātmānaṃ pūjayet paścāj jyotīrūpaṃ hṛdabjataḥ ||
मूर्तौ वा स्थण्डिले वापि क्षिपेत्पुष्पं तु भास्वरम् । (१५।१)
mūrtau vā sthaṇḍile vāpi kṣipetpuṣpaṃ tu bhāsvaram |
अङ्गषट्कस्य पूजा वै कर्तव्या च विपश्चितैः ॥ (१६।२)
aṅgaṣaṭkasya pūjā vai kartavyā ca vipaścitaiḥ ||
धर्मादयश्च शक्राद्याः सायुधाः परिवारकाः । (१७।१)
dharmādayaśca śakrādyāḥ sāyudhāḥ parivārakāḥ |
युगवेदमुहूर्ताश्च पूजेयं भुक्तिमुक्तिकृत् ॥ (१७।२)
yugavedamuhūrtāśca pūjeyaṃ bhuktimuktikṛt ||
मातृकाश्च गणांश्चादौ नन्दिगङ्गे च पूजयेत् । (१८।१)
mātṛkāśca gaṇāṃścādau nandigaṅge ca pūjayet |
चण्डिकायै सरस्वत्यै महालक्ष्मादि पूजयेत् ॥ (२०।२)
caṇḍikāyai sarasvatyai mahālakṣmādi pūjayet ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ऽमृतेशमृत्युञ्जयपूजनं नामाष्टादशो ऽध्यायः ॥ (२१।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'mṛteśamṛtyuñjayapūjanaṃ nāmāṣṭādaśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.