गरुडपुराणGaruḍapurāṇa

GarPur, 1, 42

42 of 166 · 52 verses

Select a line for its word-by-word analysis.

1.1१.१

हरिरुवाच । (१।१)

hariruvāca |

1.2१.२

पवित्रारोपणं वक्ष्ये शिवस्याशिवनाशनम् । (१।२)

pavitrāropaṇaṃ vakṣye śivasyāśivanāśanam |

1.3१.३

आचार्यः साधकः कुर्यात्पुत्रकः समयी हर ॥ (१।३)

ācāryaḥ sādhakaḥ kuryātputrakaḥ samayī hara ||

2.1२.१

संवत्सरकृतां पूजां विघ्नेशो हरते ऽन्यथा । (२।१)

saṃvatsarakṛtāṃ pūjāṃ vighneśo harate 'nyathā |

2.2२.२

आषाढे श्रावणे माघे कुर्याद्भाद्रपदे ऽपि वा ॥ (२।२)

āṣāḍhe śrāvaṇe māghe kuryādbhādrapade 'pi vā ||

3.1३.१

सौवर्णरौप्यताम्रं च सूत्रं कार्पासिकं क्रमात् । (३।१)

sauvarṇaraupyatāmraṃ ca sūtraṃ kārpāsikaṃ kramāt |

3.2३.२

ज्ञेयं कुजादौ संग्राह्यं कन्यया कर्तितं च यत् ॥ (३।२)

jñeyaṃ kujādau saṃgrāhyaṃ kanyayā kartitaṃ ca yat ||

4.1४.१

त्रिगुणं त्रिगुणीकृत्य ततः कुर्यात्पवित्रकम् । (४।१)

triguṇaṃ triguṇīkṛtya tataḥ kuryātpavitrakam |

4.2४.२

ग्रन्थयो वामदेवेन सत्येन क्षालयेच्छिव ॥ (४।२)

granthayo vāmadevena satyena kṣālayecchiva ||

5.1५.१

अघोरेण तु संशोध्य बद्धस्तत्पुरुषाद्भवेत् । (५।१)

aghoreṇa tu saṃśodhya baddhastatpuruṣādbhavet |

5.2५.२

धूपयेदीशमन्त्रेण तन्तुदेवा इति स्मृताः ॥ (५।२)

dhūpayedīśamantreṇa tantudevā iti smṛtāḥ ||

6.1६.१

ॐकारश्चन्द्रमा वह्निर् ब्रह्मा नागः शिखिध्वजः । (६।१)

oṃkāraścandramā vahnir brahmā nāgaḥ śikhidhvajaḥ |

6.2६.२

रविर्विष्णुः शिवः प्रोक्तः क्रमात्तन्तुषु देवताः ॥ (६।२)

ravirviṣṇuḥ śivaḥ proktaḥ kramāttantuṣu devatāḥ ||

7.1७.१

अष्टोत्तरशतं कुर्यात्पञ्चाशत्पञ्चविंशतिम् । (७।१)

aṣṭottaraśataṃ kuryātpañcāśatpañcaviṃśatim |

7.2७.२

रुद्रो ऽत्तमादि विज्ञेयं मानं च ग्रन्थयो दश ॥ (७।२)

rudro 'ttamādi vijñeyaṃ mānaṃ ca granthayo daśa ||

8.1८.१

चतुरङ्गुलान्तराः स्युर्ग्रन्थिनामानि च क्रमात् । (८।१)

caturaṅgulāntarāḥ syurgranthināmāni ca kramāt |

8.2८.२

प्रकृतिः पौरुषी वीरा चतुर्थी चापराजिता ॥ (८।२)

prakṛtiḥ pauruṣī vīrā caturthī cāparājitā ||

9.1९.१

जया च विजया रुद्रा अजिता च सदाशिवा । (९।१)

jayā ca vijayā rudrā ajitā ca sadāśivā |

9.2९.२

मनोन्मनी सर्वमुखी द्व्यङ्गुलाङ्गुलतो ऽथवा ॥ (९।२)

manonmanī sarvamukhī dvyaṅgulāṅgulato 'thavā ||

10.1१०.१

रञ्जयेत्कुङ्कुमाद्यैस्तु कुर्याद्रन्धैः पवित्रकम् । (१०।१)

rañjayetkuṅkumādyaistu kuryādrandhaiḥ pavitrakam |

10.2१०.२

सप्तम्यां वा त्रयोदश्यां शुक्लपक्षे तथेतरे ॥ (१०।२)

saptamyāṃ vā trayodaśyāṃ śuklapakṣe tathetare ||

11.1११.१

क्षीरादिभिश्च संस्नाप्य लिङ्गं गन्धादिभिर्यजेत् । (११।१)

kṣīrādibhiśca saṃsnāpya liṅgaṃ gandhādibhiryajet |

11.2११.२

दद्याद्रन्धपवित्रं तु आत्मने ब्रह्मणे हर ॥ (११।२)

dadyādrandhapavitraṃ tu ātmane brahmaṇe hara ||

12.1१२.१

पुष्पं गन्धयुतं दद्यान्मूलेनेशानगोचरे । (१२।१)

puṣpaṃ gandhayutaṃ dadyānmūleneśānagocare |

12.2१२.२

पूर्वे च दण्डकाष्ठं तु उत्तरे चामलकीफलम् ॥ (१२।२)

pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam ||

13.1१३.१

मृत्तिकां पश्चिमे दद्याद्दक्षिणे भस्मभूतयः । (१३।१)

mṛttikāṃ paścime dadyāddakṣiṇe bhasmabhūtayaḥ |

13.2१३.२

नैरृते ह्यगुरुं दद्याच्छिखामन्त्रेण मन्त्रवित् ॥ (१३।२)

nairṛte hyaguruṃ dadyācchikhāmantreṇa mantravit ||

14.1१४.१

वायव्यां सर्षपं दद्यात्कवचेन वृषध्वज । (१४।१)

vāyavyāṃ sarṣapaṃ dadyātkavacena vṛṣadhvaja |

14.2१४.२

गृहं संवेष्ट्य सूत्रेण दद्याद्रन्धपवित्रकम् ॥ (१४।२)

gṛhaṃ saṃveṣṭya sūtreṇa dadyādrandhapavitrakam ||

15.1१५.१

होमं कृत्वा ग्नेय दत्त्वा दद्याद्भूतबलिं तथा । (१५।१)

homaṃ kṛtvā gneya dattvā dadyādbhūtabaliṃ tathā |

15.2१५.२

आमन्त्रितो ऽसि देवेश गणैः सार्धं महेश्वर ॥ (१५।२)

āmantrito 'si deveśa gaṇaiḥ sārdhaṃ maheśvara ||

16.1१६.१

प्रातस्त्वां पूजयिष्यामि अत्र संनिहितो भव । (१६।१)

prātastvāṃ pūjayiṣyāmi atra saṃnihito bhava |

16.2१६.२

निमन्त्र्यानेन तिष्ठेत्तु कुर्वन् गीतादिकं निशि ॥ (१६।२)

nimantryānena tiṣṭhettu kurvan gītādikaṃ niśi ||

17.1१७.१

मन्त्रितानि पवित्राणि स्थापयेद्देवपार्श्वतः । (१७।१)

mantritāni pavitrāṇi sthāpayeddevapārśvataḥ |

17.2१७.२

स्नात्वादित्यं चतुर्दश्यां प्राग्रुद्रं च प्रपूजयेत् ॥ (१७।२)

snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet ||

18.1१८.१

ललाटस्थं विश्वरूपं ध्यात्वात्मानं प्रपूजयेत् । (१८।१)

lalāṭasthaṃ viśvarūpaṃ dhyātvātmānaṃ prapūjayet |

18.2१८.२

अस्त्रेण प्रोक्षितान्येवं हृदयेनार्चितान्यथ ॥ (१८।२)

astreṇa prokṣitānyevaṃ hṛdayenārcitānyatha ||

19.1१९.१

संहितामन्त्रितान्येव धूपितानि समर्पयेत् । (१९।१)

saṃhitāmantritānyeva dhūpitāni samarpayet |

19.2१९.२

शिवतत्त्वात्मकं चादौ विद्यातत्त्वात्मकं ततः ॥ (१९।२)

śivatattvātmakaṃ cādau vidyātattvātmakaṃ tataḥ ||

20.1२०.१

आत्मतत्त्वात्मकं पश्चाद्देवकाख्यं ततो ऽर्चयेत् । (२०।१)

ātmatattvātmakaṃ paścāddevakākhyaṃ tato 'rcayet |

20.2२०.२

ॐ हौं हौं शिवतत्त्वाय नमः । (२०।२)

oṃ hauṃ hauṃ śivatattvāya namaḥ |

20.3२०.३

ॐ हीं विद्यातत्त्वाय नमः ॥ (२०।३)

oṃ hīṃ vidyātattvāya namaḥ ||

21.1२१.१

ॐ हां आत्मतत्त्वाय नमः । (२१।१)

oṃ hāṃ ātmatattvāya namaḥ |

21.2२१.२

ॐ हां हीं हूं क्षैं सर्वतत्त्वाय नमः । (२१।२)

oṃ hāṃ hīṃ hūṃ kṣaiṃ sarvatattvāya namaḥ |

21.3२१.३

कालात्मना त्वया देव यद्दृष्टं मामके विधौ ॥ (२१।३)

kālātmanā tvayā deva yaddṛṣṭaṃ māmake vidhau ||

22.1२२.१

कृतं क्लिष्टं समुत्सृष्टं हुतं गुप्तं च यत्कृतम् । (२२।१)

kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ hutaṃ guptaṃ ca yatkṛtam |

22.2२२.२

सर्वात्मनात्मना शम्भो पवित्रेण त्वदिच्छया ॥ (२२।२)

sarvātmanātmanā śambho pavitreṇa tvadicchayā ||

23.1२३.१

पूरय पूरय मखव्रतं तन्नियमेश्वराय सर्वतत्त्वात्मकाय सर्वकारणपालिताय ॐ हां हीं हूं हैं हौं शिवाय नमः ॥ (२३।१)

pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ ||

24.1२४.१

पूर्वैरनेन यो दद्यात्पवित्राणां चतुष्टयम् । (२४।१)

pūrvairanena yo dadyātpavitrāṇāṃ catuṣṭayam |

24.2२४.२

दत्त्वा वह्नेः पवित्रं च गुरवे दक्षिणां दिशेत् ॥ (२४।२)

dattvā vahneḥ pavitraṃ ca gurave dakṣiṇāṃ diśet ||

25.1२५.१

बलिं दत्त्वा द्विजान् भोज्य चण्डं प्राच्यै विसर्जयेत् ॥ (२५।१)

baliṃ dattvā dvijān bhojya caṇḍaṃ prācyai visarjayet ||

26.1२६.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवपवित्रारोपणं नाम द्विचत्वारिंशो ऽध्यायः ॥ (२६।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivapavitrāropaṇaṃ nāma dvicatvāriṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 42

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit