GarPur, 1, 8
Select a line for its word-by-word analysis.
भूमिष्ठे मण्डपे स्नात्वा मण्डले विष्णुमर्चयेत् । (१।२)
bhūmiṣṭhe maṇḍape snātvā maṇḍale viṣṇumarcayet |
षोडशैः कोष्ठकैस्तत्र संमितं रुद्र कारयेत् । (२।१)
ṣoḍaśaiḥ koṣṭhakaistatra saṃmitaṃ rudra kārayet |
प्रथमा नाभिरुद्दिष्टा मध्ये रेखाप्रसंगमे ॥ (४।२)
prathamā nābhiruddiṣṭā madhye rekhāprasaṃgame ||
पूर्वमध्यमनाभिभ्यामथं सूत्रं तु भ्रामयेत् ॥ (५।२)
pūrvamadhyamanābhibhyāmathaṃ sūtraṃ tu bhrāmayet ||
अन्तरा स द्विजश्रेष्ठः पादोनं भ्रामयेद्धर । (६।१)
antarā sa dvijaśreṣṭhaḥ pādonaṃ bhrāmayeddhara |
द्वारशोभां तथा तत्र तदर्धेन तु कल्पयेत् ॥ (९।२)
dvāraśobhāṃ tathā tatra tadardhena tu kalpayet ||
द्वाराणि शुक्लवर्णेन रेखाः पञ्च च मण्डले ॥ (११।२)
dvārāṇi śuklavarṇena rekhāḥ pañca ca maṇḍale ||
सिता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् । (१२।१)
sitā raktā tathā pītā kṛṣṇā caiva yathākramam |
कृत्वैव मण्डलं चादौ न्यासं कृत्वार्चयेद्धरिम् ॥ (१२।२)
kṛtvaiva maṇḍalaṃ cādau nyāsaṃ kṛtvārcayeddharim ||
हृन्मध्ये तु न्यसेद्विष्णुं कण्ठे सङ्कर्षणं तथा । (१३।१)
hṛnmadhye tu nyasedviṣṇuṃ kaṇṭhe saṅkarṣaṇaṃ tathā |
प्रद्युम्नं शिरसि न्यस्य शिखायाम् अनिरुद्धकम् ॥ (१३।२)
pradyumnaṃ śirasi nyasya śikhāyām aniruddhakam ||
ब्रह्माणं सर्वगात्रेषु करयोः श्रीधरं तथा । (१४।१)
brahmāṇaṃ sarvagātreṣu karayoḥ śrīdharaṃ tathā |
अहं विष्णुरिति ध्यात्वा कर्णिकायां न्यसेद्धरिम् ॥ (१४।२)
ahaṃ viṣṇuriti dhyātvā karṇikāyāṃ nyaseddharim ||
न्यसेत्सङ्कर्षणं पूर्वे प्रद्युम्नं चैव दक्षिणे । (१५।१)
nyasetsaṅkarṣaṇaṃ pūrve pradyumnaṃ caiva dakṣiṇe |
अनिरुद्धं पश्चिमे च ब्रह्माणं चोत्तरे न्यसेत् ॥ (१५।२)
aniruddhaṃ paścime ca brahmāṇaṃ cottare nyaset ||
श्रीधरं रुद्रकोणेषु इन्द्रादीन्दिक्षु विन्यसेत् । (१६।१)
śrīdharaṃ rudrakoṇeṣu indrādīndikṣu vinyaset |
ततो ऽभ्यर्च्य च गन्धाद्यैः प्राप्नुयात्परमं पदम् ॥ (१६।२)
tato 'bhyarcya ca gandhādyaiḥ prāpnuyātparamaṃ padam ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजोपयोगिवज्रनाभमण्डलनिरूपणं नामाष्टमो ऽध्यायः ॥ (१७।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjopayogivajranābhamaṇḍalanirūpaṇaṃ nāmāṣṭamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.