GarPur, 1, 84
Select a line for its word-by-word analysis.
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः । (१।२)
udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ |
विधाय कार्पटीविषं ग्रामस्यापि प्रदक्षिणम् ॥ (१।३)
vidhāya kārpaṭīviṣaṃ grāmasyāpi pradakṣiṇam ||
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् । (२।१)
tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam |
कृत्वा प्रदक्षिणं गच्छेत्प्रतिग्रहविवर्जितः ॥ (२।२)
kṛtvā pradakṣiṇaṃ gacchetpratigrahavivarjitaḥ ||
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः । (४।१)
muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ |
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ॥ (४।२)
varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām ||
दिवा च सर्वदा रात्रौ गयायां श्राद्धकृद्भवेत् । (५।१)
divā ca sarvadā rātrau gayāyāṃ śrāddhakṛdbhavet |
वाराणस्यां कृतं श्राद्धं तीर्थे शोणनदे तथा ॥ (५।२)
vārāṇasyāṃ kṛtaṃ śrāddhaṃ tīrthe śoṇanade tathā ||
पुनः पुना महानद्यां श्राद्धी स्वर्गं पितॄन्नयेत् । (६।१)
punaḥ punā mahānadyāṃ śrāddhī svargaṃ pitṝnnayet |
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ (६।२)
uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām ||
तस्मिन्निवर्तयेच्छ्राद्धं स्नानं चैव निवर्तयेत् । (७।१)
tasminnivartayecchrāddhaṃ snānaṃ caiva nivartayet |
कामान्स लभते दिव्यान्मोक्षोपायं च सर्वशः ॥ (७।२)
kāmānsa labhate divyānmokṣopāyaṃ ca sarvaśaḥ ||
दक्षिणं मानसं गत्वा मौनी पिण्डादि कारयेत् । (८।१)
dakṣiṇaṃ mānasaṃ gatvā maunī piṇḍādi kārayet |
सिद्धानां प्रीतिजननैः पापानां च भयङ्करैः । (९।१)
siddhānāṃ prītijananaiḥ pāpānāṃ ca bhayaṅkaraiḥ |
लेलिहानैर् महाघोरैर् अक्षतैः पन्नगोत्तमैः ॥ (९।२)
lelihānair mahāghorair akṣataiḥ pannagottamaiḥ ||
नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतम् । (१०।१)
nāmnā kanakhalaṃ tīrthaṃ triṣu lokeṣu viśrutam |
उदीच्यां मुण्डपृष्ठस्य देवर्षिगणसेवितम् ॥ (१०।२)
udīcyāṃ muṇḍapṛṣṭhasya devarṣigaṇasevitam ||
तत्र स्नात्वा दिवं याति श्राद्धं दत्तमथाक्षयम् । (११।१)
tatra snātvā divaṃ yāti śrāddhaṃ dattamathākṣayam |
सूर्यं नत्वा त्विदं कुर्यात्कृतपिण्डादिसत्क्रियः ॥ (११।२)
sūryaṃ natvā tvidaṃ kuryātkṛtapiṇḍādisatkriyaḥ ||
अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ॥ (१२।२)
agniṣvāttā barhiṣadaḥ somapāḥ pitṛdevatāḥ ||
आगच्छन्तु महाभागा युष्माभी रक्षितास्त्विह । (१३।१)
āgacchantu mahābhāgā yuṣmābhī rakṣitāstviha |
तेषां पिण्डप्रदानार्थमागतो ऽस्मि गयामिमाम् । (१४।१)
teṣāṃ piṇḍapradānārthamāgato 'smi gayāmimām |
कृतपिण्डः फल्गुतीर्थे पश्येद् देवं पितामहम् ॥ (१४।२)
kṛtapiṇḍaḥ phalgutīrthe paśyed devaṃ pitāmaham ||
गदाधरं ततः पश्येत्पितॄणाम् अनृणो भवेत् । (१५।१)
gadādharaṃ tataḥ paśyetpitṝṇām anṛṇo bhavet |
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ॥ (१५।२)
phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam ||
आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान् । (१६।१)
ātmānaṃ tārayetsadyo daśa pūrvāndaśāparān |
प्रथमे ऽह्नि विधिः प्रोक्तो द्वितीयदिवसे व्रजेत् ॥ (१६।२)
prathame 'hni vidhiḥ prokto dvitīyadivase vrajet ||
धर्मारण्यं मतङ्गस्य वाप्यां पिण्डादिकृद्भवेत् । (१७।१)
dharmāraṇyaṃ mataṅgasya vāpyāṃ piṇḍādikṛdbhavet |
राजसूयाश्वमेधाभ्यां फलं स्याद् ब्रह्मतीर्थके । (१८।१)
rājasūyāśvamedhābhyāṃ phalaṃ syād brahmatīrthake |
श्राद्धं पिण्डोदकं कार्यं मध्ये वै कूपयूपयोः ॥ (१८।२)
śrāddhaṃ piṇḍodakaṃ kāryaṃ madhye vai kūpayūpayoḥ ||
तृतीये ऽह्नि ब्रह्मसदो गत्वा स्नात्वाथ तर्पणम् ॥ (१९।२)
tṛtīye 'hni brahmasado gatvā snātvātha tarpaṇam ||
कृत्वा श्राद्धादिकं पिण्डं मध्ये वै यूपकूपयोः । (२०।१)
kṛtvā śrāddhādikaṃ piṇḍaṃ madhye vai yūpakūpayoḥ |
गोप्रचारसमीपस्था आब्रह्म ब्रह्मकल्पिताः ॥ (२०।२)
gopracārasamīpasthā ābrahma brahmakalpitāḥ ||
फल्गुतीर्थे चतुर्थे ऽह्नि स्नात्वा देवादितर्पणम् । (२२।१)
phalgutīrthe caturthe 'hni snātvā devāditarpaṇam |
कृत्वा श्राद्धं गयाशीर्षे कुर्याद्रुद्रपदादिषु ॥ (२२।२)
kṛtvā śrāddhaṃ gayāśīrṣe kuryādrudrapadādiṣu ||
पिण्डान्देहि मुखे व्यासे पञ्चाग्नौ च पदत्रये । (२३।१)
piṇḍāndehi mukhe vyāse pañcāgnau ca padatraye |
सूर्येन्दुकार्तिकेयेषु कृतं श्राद्धं तथाक्षयम् ॥ (२३।२)
sūryendukārtikeyeṣu kṛtaṃ śrāddhaṃ tathākṣayam ||
श्राद्धं तु नवदेवत्यं कुर्याद्द्वादशदैवतम् । (२४।१)
śrāddhaṃ tu navadevatyaṃ kuryāddvādaśadaivatam |
अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह । (२५।१)
atra mātuḥ pṛthak śrāddhamanyatra patinā saha |
स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहम् ॥ (२५।२)
snātvā daśāśvamedhe tu dṛṣṭvā devaṃ pitāmaham ||
रुद्रपादं नरः स्पृष्ट्वा न चेहावर्तते पुनः । (२६।१)
rudrapādaṃ naraḥ spṛṣṭvā na cehāvartate punaḥ |
त्रिर्वित्तपूर्णां पृथिवीं दत्त्वा यत्फलमाप्नुयात् ॥ (२६।२)
trirvittapūrṇāṃ pṛthivīṃ dattvā yatphalamāpnuyāt ||
स तत्फलमवाप्नोति कृत्वा श्राद्धं गयाशिरे । (२७।१)
sa tatphalamavāpnoti kṛtvā śrāddhaṃ gayāśire |
पितरो यान्ति देवत्वं नात्र कार्या विचारणा । (२८।१)
pitaro yānti devatvaṃ nātra kāryā vicāraṇā |
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ॥ (२८।२)
muṇḍapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā ||
गयाशीर्षे तु यः पिण्डान्नाम्ना येषां तु निर्वपेत् ॥ (२९।२)
gayāśīrṣe tu yaḥ piṇḍānnāmnā yeṣāṃ tu nirvapet ||
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः । (३०।१)
narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ |
पञ्चमे ऽह्नि गयालोले स्नात्वा वटतले ततः ॥ (३०।२)
pañcame 'hni gayālole snātvā vaṭatale tataḥ ||
पिण्डान्दद्यात्पितॄणां च सकलं तारयेत्कुलम् । (३१।१)
piṇḍāndadyātpitṝṇāṃ ca sakalaṃ tārayetkulam |
एकस्मिन् भोजिते विप्र कोटिर्भवति भोजिताः । (३२।१)
ekasmin bhojite vipra koṭirbhavati bhojitāḥ |
कृते श्राद्धे ऽक्षयवटे दृष्ट्वा च प्रपितामहम् ॥ (३२।२)
kṛte śrāddhe 'kṣayavaṭe dṛṣṭvā ca prapitāmaham ||
एष्टव्या बहवः पुत्त्रा यद्येको ऽपि गयां व्रजेत् ॥ (३३।२)
eṣṭavyā bahavaḥ puttrā yadyeko 'pi gayāṃ vrajet ||
प्रेतः कश्चित्समुद्दिश्य वणिजं कंचिद् अब्रवीत् ॥ (३४।२)
pretaḥ kaścitsamuddiśya vaṇijaṃ kaṃcid abravīt ||
प्रेतभावाद्विमुक्तः स्यां स्वर्गदो दातुरेव च ॥ (३५।२)
pretabhāvādvimuktaḥ syāṃ svargado dātureva ca ||
श्रुत्वा वणिग् गयाशीर्षे प्रेतराजाय पिण्डकम् । (३६।१)
śrutvā vaṇig gayāśīrṣe pretarājāya piṇḍakam |
प्रददावनुजैः सार्धं स्वपितृभ्यस्ततो ददौ ॥ (३६।२)
pradadāvanujaiḥ sārdhaṃ svapitṛbhyastato dadau ||
सर्वे मुक्ता विशालो ऽपि सपुत्रो ऽभूच्च पिण्डदः । (३७।१)
sarve muktā viśālo 'pi saputro 'bhūcca piṇḍadaḥ |
विशालायां विशालो ऽभूद्राजपुत्रोब्रवीद्द्विजान् ॥ (३७।२)
viśālāyāṃ viśālo 'bhūdrājaputrobravīddvijān ||
कथं पुत्रादयः स्युर्मे विप्राश् चोतुर्विशालकम् । (३८।१)
kathaṃ putrādayaḥ syurme viprāś coturviśālakam |
विशालो ऽथ गयाशीर्षे पिण्डदो ऽभूच्च पुत्रवान् । (३९।१)
viśālo 'tha gayāśīrṣe piṇḍado 'bhūcca putravān |
दृष्ट्वाकाशे सितं रक्तं कृष्णं पुरुषमब्रवीत् ॥ (३९।२)
dṛṣṭvākāśe sitaṃ raktaṃ kṛṣṇaṃ puruṣamabravīt ||
के यूयं तेषु चैवैकः सितः प्रोचे विशालकम् । (४०।१)
ke yūyaṃ teṣu caivaikaḥ sitaḥ proce viśālakam |
मम पुत्र पिता रक्तो ब्रह्महा पापकृत्परम् । (४१।१)
mama putra pitā rakto brahmahā pāpakṛtparam |
अवीचिं नरकं प्राप्तौ मुक्तौ जातौ च पिण्डद । (४२।१)
avīciṃ narakaṃ prāptau muktau jātau ca piṇḍada |
मुक्तीकृतास् ततः सर्वे व्रजामः स्वर्गमुत्तमम् ॥ (४२।२)
muktīkṛtās tataḥ sarve vrajāmaḥ svargamuttamam ||
कृतकृत्यो विशालो ऽपि राज्यं कृत्वा दिवं ययौ । (४३।१)
kṛtakṛtyo viśālo 'pi rājyaṃ kṛtvā divaṃ yayau |
ये ऽस्मत्कुले तु पितरो लुप्तपिण्डोदकक्रियाः ॥ (४३।२)
ye 'smatkule tu pitaro luptapiṇḍodakakriyāḥ ||
ये चाप्यकृतचूडास्तु ये च गर्भाद्विनिःसृताः । (४४।१)
ye cāpyakṛtacūḍāstu ye ca garbhādviniḥsṛtāḥ |
येषां दाहो न क्रिया च ये ऽग्निदग्धास्तथापरे ॥ (४४।२)
yeṣāṃ dāho na kriyā ca ye 'gnidagdhāstathāpare ||
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् । (४५।१)
bhūmau dattena tṛpyantu tṛptā yāntu parāṃ gatim |
अन्येषां चैव पिण्डो ऽयमक्षय्यमुपतिष्ठताम् ॥ (४८।१)
anyeṣāṃ caiva piṇḍo 'yamakṣayyamupatiṣṭhatām ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम चतुरशीतितमो ऽध्यायः ॥ (४९।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma caturaśītitamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.