गरुडपुराणGaruḍapurāṇa

GarPur, 1, 23

23 of 166 · 120 verses

Select a line for its word-by-word analysis.

1.1१.१

सूत उवाच । (१।१)

sūta uvāca

1.2१.२

शिवार्चनं प्रवक्ष्यामि धर्मकामादिसाधनम् । (१।२)

śivārcanaṃ pravakṣyāmi dharmakāmādisādhanam |

1.3१.३

त्रिभिर्मन्त्रैराचामेत्तु स्वाहान्तैः प्रणवादिकैः ॥ (१।३)

tribhirmantrairācāmettu svāhāntaiḥ praṇavādikaiḥ ||

2.1२.१

ॐ हां आत्मतत्त्वाय विद्यातत्त्वाय हीं तथा । (२।१)

oṃ hāṃ ātmatattvāya vidyātattvāya hīṃ tathā |

2.2२.२

ॐ हूं शिवतत्त्वाय स्वाहा हृदा स्याच्छ्रोत्रवन्दनम् ॥ (२।२)

oṃ hūṃ śivatattvāya svāhā hṛdā syācchrotravandanam ||

3.1३.१

भस्मस्नानं तर्पणं च ॐ हां स्वाहा सर्वमन्त्रकाः । (३।१)

bhasmasnānaṃ tarpaṇaṃ ca oṃ hāṃ svāhā sarvamantrakāḥ |

3.2३.२

सर्वे देवाः सर्वमुनिर्नमो ऽन्तो वौषडन्तकः ॥ (३।२)

sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ ||

4.1४.१

स्वधान्ताः सर्वपितरः स्वधान्ताश्च पितामहाः । (४।१)

svadhāntāḥ sarvapitaraḥ svadhāntāśca pitāmahāḥ |

4.2४.२

ॐ हां प्रपितामहेभ्यस्तथा मातामहादयः ॥ (४।२)

oṃ hāṃ prapitāmahebhyastathā mātāmahādayaḥ ||

5.1५.१

हां नमः सर्वमातृभ्यस्ततः स्यात्प्राणसंयमः । (५।१)

hāṃ namaḥ sarvamātṛbhyastataḥ syātprāṇasaṃyamaḥ |

5.2५.२

आचामं मार्जनं चाथो गायत्रीं च जपेत्ततः ॥ (५।२)

ācāmaṃ mārjanaṃ cātho gāyatrīṃ ca japettataḥ ||

6.1६.१

ॐ हां तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥ (६।१)

oṃ hāṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi tanno rudraḥ pracodayāt ||

7.1७.१

सूर्योपस्थानकं कृत्वा सूर्यमन्त्रैः प्रपूजयेत् । (७।१)

sūryopasthānakaṃ kṛtvā sūryamantraiḥ prapūjayet |

7.2७.२

ॐ हां हीं हूं हैं हौं हः शिवसूर्याय नमः । (७।२)

oṃ hāṃ hīṃ hūṃ haiṃ hauṃ haḥ śivasūryāya namaḥ |

7.3७.३

ॐ हं खखोल्काय सूर्यमूर्तये नमः । (७।३)

oṃ haṃ khakholkāya sūryamūrtaye namaḥ |

7.4७.४

ॐ ह्रां ह्रीं सः सूर्याय नमः ॥ (७।४)

oṃ hrāṃ hrīṃ saḥ sūryāya namaḥ ||

8.1८.१

दण्डिने पिङ्गले त्वातिभूतानि च ततः स्मरेत् । (८।१)

daṇḍine piṅgale tvātibhūtāni ca tataḥ smaret |

8.2८.२

अग्न्यादौ विमलेशानमाराध्य परमं सुखम् ॥ (८।२)

agnyādau vimaleśānamārādhya paramaṃ sukham ||

9.1९.१

यजेत्पद्मां च रां दीप्तां रीं सूक्ष्मां रूं जयां च रें । (९।१)

yajetpadmāṃ ca rāṃ dīptāṃ rīṃ sūkṣmāṃ rūṃ jayāṃ ca reṃ |

9.2९.२

भद्रां च रैं विभूतिं र्ॐ विमलां रौम् अमोघिकाम् ॥ (९।२)

bhadrāṃ ca raiṃ vibhūtiṃ roṃ vimalāṃ raum amoghikām ||

10.1१०.१

रं विद्युतां च पूर्वादौ रा मध्ये सर्वतोमुखीम् । (१०।१)

raṃ vidyutāṃ ca pūrvādau rā madhye sarvatomukhīm |

10.2१०.२

अर्कासनं सूर्यमूर्तें ह्रां ह्रूं सः सूर्यमर्चयेत् ॥ (१०।२)

arkāsanaṃ sūryamūrteṃ hrāṃ hrūṃ saḥ sūryamarcayet ||

11.1११.१

ॐ आं हृदर्काय च शिरः शिखा च भूर्भुवः स्वरोम् । (११।१)

oṃ āṃ hṛdarkāya ca śiraḥ śikhā ca bhūrbhuvaḥ svarom |

11.2११.२

ज्वालिनीं ह्रं कवचस्य चास्त्रं राज्ञां च दीक्षिताम् ॥ (११।२)

jvālinīṃ hraṃ kavacasya cāstraṃ rājñāṃ ca dīkṣitām ||

12.1१२.१

यजेत्सूर्यहृदा सर्वान् स्ॐ सोमं मं च मङ्गलम् । (१२।१)

yajetsūryahṛdā sarvān soṃ somaṃ maṃ ca maṅgalam |

12.2१२.२

बं बुधं बृं बृहस्पतिं भं भार्गवं शं शनैश्चरम् ॥ (१२।२)

baṃ budhaṃ bṛṃ bṛhaspatiṃ bhaṃ bhārgavaṃ śaṃ śanaiścaram ||

13.1१३.१

रं राहुं कं यजेत्केतुं ॐ तेजश्चण्डमर्चयेत् । (१३।१)

raṃ rāhuṃ kaṃ yajetketuṃ oṃ tejaścaṇḍamarcayet |

13.2१३.२

सूर्यमभ्यर्च्य चाचम्य कनिष्ठातो ऽङ्गकां न्यसेत् ॥ (१३।२)

sūryamabhyarcya cācamya kaniṣṭhāto 'ṅgakāṃ nyaset ||

14.1१४.१

हां हृच्छिरो हूं शिखा हैं वर्म हौं चैव नेत्रकम् । (१४।१)

hāṃ hṛcchiro hūṃ śikhā haiṃ varma hauṃ caiva netrakam |

14.2१४.२

हो ऽस्त्रं शक्तिस्थितिं कृत्वा भूतशुद्धिं पुनर्न्यसेत् ॥ (१४।२)

ho 'straṃ śaktisthitiṃ kṛtvā bhūtaśuddhiṃ punarnyaset ||

15.1१५.१

अर्घ्यपात्रं ततः कृत्वा तदद्भिः प्रोक्षयेद्यजेत् ॥ (१५।१)

arghyapātraṃ tataḥ kṛtvā tadadbhiḥ prokṣayedyajet ||

16.1१६.१

आत्मानं पद्मसंस्थं च हौं शिवाय ततो बहिः । (१६।१)

ātmānaṃ padmasaṃsthaṃ ca hauṃ śivāya tato bahiḥ |

16.2१६.२

द्वारे नन्दिमहाकालौ गङ्गा च यमुनाथ गौः ॥ (१६।२)

dvāre nandimahākālau gaṅgā ca yamunātha gauḥ ||

17.1१७.१

श्रीरस्त्रं वास्त्वधिपतिं ब्रह्माणं च गणं गुरुम् । (१७।१)

śrīrastraṃ vāstvadhipatiṃ brahmāṇaṃ ca gaṇaṃ gurum |

17.2१७.२

शक्त्यनन्तौ यजेन्मध्ये पूर्वादौ धर्मकादिकम् ॥ (१७।२)

śaktyanantau yajenmadhye pūrvādau dharmakādikam ||

18.1१८.१

अधर्माद्यं च वह्न्यादौ मध्ये पद्मस्य कर्णिके । (१८।१)

adharmādyaṃ ca vahnyādau madhye padmasya karṇike |

18.2१८.२

वामा ज्येष्ठा च पूर्वादौ रौद्री काली च पूर्षदः ॥ (१८।२)

vāmā jyeṣṭhā ca pūrvādau raudrī kālī ca pūrṣadaḥ ||

19.1१९.१

ॐ हौं कलविकरिण्यै बलविकरिणी ततः । (१९।१)

oṃ hauṃ kalavikariṇyai balavikariṇī tataḥ |

19.2१९.२

बलप्रमथिनी सर्वभूतानां दमनी ततः ॥ (१९।२)

balapramathinī sarvabhūtānāṃ damanī tataḥ ||

20.1२०.१

मनोन्मनी यजेदेताः पठिमध्ये शिवाग्रतः । (२०।१)

manonmanī yajedetāḥ paṭhimadhye śivāgrataḥ |

20.2२०.२

शिवासनं महामूर्ति मूर्तिमध्ये शिवाय च ॥ (२०।२)

śivāsanaṃ mahāmūrti mūrtimadhye śivāya ca ||

21.1२१.१

आवाहनं स्थापनं च सन्निधानं निरोधनम् । (२१।१)

āvāhanaṃ sthāpanaṃ ca sannidhānaṃ nirodhanam |

21.2२१.२

सकलीकरणं मुद्रादर्शनं चार्घ्यपाद्यकम् ॥ (२१।२)

sakalīkaraṇaṃ mudrādarśanaṃ cārghyapādyakam ||

22.1२२.१

आचामाभ्यङ्गमुद्वर्तं स्नानं निर्मथनं चरेत् । (२२।१)

ācāmābhyaṅgamudvartaṃ snānaṃ nirmathanaṃ caret |

22.2२२.२

वस्त्रं विलेपनं पुष्पं धूपं दीपं चरुं ददेत् ॥ (२२।२)

vastraṃ vilepanaṃ puṣpaṃ dhūpaṃ dīpaṃ caruṃ dadet ||

23.1२३.१

आचामं मुखवासं च ताम्बूलं हस्तशोधनम् । (२३।१)

ācāmaṃ mukhavāsaṃ ca tāmbūlaṃ hastaśodhanam |

23.2२३.२

छत्रचामरपावित्रं परमीकरणं चरेत् ॥ (२३।२)

chatracāmarapāvitraṃ paramīkaraṇaṃ caret ||

24.1२४.१

रूपक्पेन चैकाहजपो जाप्यसमर्पणम् । (२४।१)

rūpakpena caikāhajapo jāpyasamarpaṇam |

24.2२४.२

स्तुतिर्नतिर्हृदाद्यैश्च ज्ञेयं नामाङ्ग पूजनम् ॥ (२४।२)

stutirnatirhṛdādyaiśca jñeyaṃ nāmāṅga pūjanam ||

25.1२५.१

अग्नीशरक्षोवायव्ये मध्ये पूर्वादितन्त्रकम् । (२५।१)

agnīśarakṣovāyavye madhye pūrvāditantrakam |

25.2२५.२

इन्द्राद्यांश्च यजेच्चण्डं तस्मै निर्माल्यमर्पयेत् ॥ (२५।२)

indrādyāṃśca yajeccaṇḍaṃ tasmai nirmālyamarpayet ||

26.1२६.१

गुहायातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । (२६।१)

guhāyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam |

26.2२६.२

सिद्धिर्भवतु मे देव तत्प्रसादात्त्वयि स्थितिः ॥ (२६।२)

siddhirbhavatu me deva tatprasādāttvayi sthitiḥ ||

27.1२७.१

यत् किंचित् क्रियते कर्म सदा सुकृतदुष्कृतम् । (२७।१)

yat kiṃcit kriyate karma sadā sukṛtaduṣkṛtam |

27.2२७.२

तन्मे शिवपदस्थस्य रुद्र क्षपय शङ्कर ॥ (२७।२)

tanme śivapadasthasya rudra kṣapaya śaṅkara ||

28.1२८.१

शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् । (२८।१)

śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat |

28.2२८.२

शिवो जयति सर्वत्र यः शिवः सो ऽहमेव च ॥ (२८।२)

śivo jayati sarvatra yaḥ śivaḥ so 'hameva ca ||

29.1२९.१

यत्कृतं यत्करिष्यामि तत्सर्वं सुकृतं तव । (२९।१)

yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava |

29.2२९.२

त्वं त्राता विश्वनेता च नान्यो नाथो ऽस्ति मे शिव ॥ (२९।२)

tvaṃ trātā viśvanetā ca nānyo nātho 'sti me śiva ||

30.1३०.१

अथान्येन प्रकारेण शिवपूजां वदाम्यहम् । (३०।१)

athānyena prakāreṇa śivapūjāṃ vadāmyaham |

30.2३०.२

गणः सरस्वती नन्दी महाकालो ऽथ गङ्गया ॥ (३०।२)

gaṇaḥ sarasvatī nandī mahākālo 'tha gaṅgayā ||

31.1३१.१

पवनास्त्रं वास्त्वधिपो द्वारि पूर्वादितस्त्विमे । (३१।१)

pavanāstraṃ vāstvadhipo dvāri pūrvāditastvime |

31.2३१.२

इन्द्राद्याः पूजनीयाश्च तत्त्वानि पृथिवी जलम् ॥ (३१।२)

indrādyāḥ pūjanīyāśca tattvāni pṛthivī jalam ||

32.1३२.१

तेजो वायुर्व्योम गन्धो रसरूपे च शब्दकः । (३२।१)

tejo vāyurvyoma gandho rasarūpe ca śabdakaḥ |

32.2३२.२

स्पर्शो वाक् पाणिपादं च पायूपस्थं श्रुतित्वचम् ॥ (३२।२)

sparśo vāk pāṇipādaṃ ca pāyūpasthaṃ śrutitvacam ||

33.1३३.१

चक्षुर्जिह्वा घ्राणमनो बुद्धिश्चाहं प्रकृत्यपि । (३३।१)

cakṣurjihvā ghrāṇamano buddhiścāhaṃ prakṛtyapi |

33.2३३.२

पुमान्नागो बुद्धिविद्ये कला कालो नियत्यपि ॥ (३३।२)

pumānnāgo buddhividye kalā kālo niyatyapi ||

34.1३४.१

माया च शुद्धविद्या च ईश्वरश्च सदाशिवः । (३४।१)

māyā ca śuddhavidyā ca īśvaraśca sadāśivaḥ |

34.2३४.२

शक्तिः शिवश्च ताञ्ज्ञात्वा मुक्तो ज्ञानी शिवो भवेत् ॥ (३४।२)

śaktiḥ śivaśca tāñjñātvā mukto jñānī śivo bhavet ||

35.1३५.१

यः शिवः स हरिर्ब्रह्मा सो ऽहं ब्रह्मास्मि शङ्कर ॥ (३५।१)

yaḥ śivaḥ sa harirbrahmā so 'haṃ brahmāsmi śaṅkara ||

36.1३६.१

भूतशुद्धिं प्रवक्ष्यामि यया शुद्धः शिवो भवेत् । (३६।१)

bhūtaśuddhiṃ pravakṣyāmi yayā śuddhaḥ śivo bhavet |

36.2३६.२

हृत्पद्मे सद्योमन्त्रः स्यान्निवृत्तिश्च कला इडा ॥ (३६।२)

hṛtpadme sadyomantraḥ syānnivṛttiśca kalā iḍā ||

37.1३७.१

पिङ्गला द्वे च नाड्यौ तु प्राणो ऽपानश्च मारुतौ । (३७।१)

piṅgalā dve ca nāḍyau tu prāṇo 'pānaśca mārutau |

37.2३७.२

इन्द्रो देहो ब्रह्महेतुश्चतुरस्त्रं च मण्डलम् ॥ (३७।२)

indro deho brahmahetuścaturastraṃ ca maṇḍalam ||

38.1३८.१

वक्त्रेण लाञ्छितं वायुमेकोद्धातगुणाः शराः । (३८।१)

vaktreṇa lāñchitaṃ vāyumekoddhātaguṇāḥ śarāḥ |

38.2३८.२

हृत्स्थानसादृश्यरुतं शतकोटिप्रविस्तरम् ॥ (३८।२)

hṛtsthānasādṛśyarutaṃ śatakoṭipravistaram ||

39.1३९.१

ॐ ह्रीं प्रतिष्ठायै ह्रूं ह्रः फट् । (३९।१)

oṃ hrīṃ pratiṣṭhāyai hrūṃ hraḥ phaṭ |

39.2३९.२

ॐ ह्रीं ह्रूं विद्यायै ह्रं ह्रः फट् । (३९।२)

oṃ hrīṃ hrūṃ vidyāyai hraṃ hraḥ phaṭ |

39.3३९.३

चतुरशीतिकोटीनामुच्छ्रयं भूमितन्त्रकम् ॥ (३९।३)

caturaśītikoṭīnāmucchrayaṃ bhūmitantrakam ||

40.1४०.१

तन्मध्ये भववृक्षं च आत्मानं च विचिन्तयेत् । (४०।१)

tanmadhye bhavavṛkṣaṃ ca ātmānaṃ ca vicintayet |

40.2४०.२

अधोमुखीं ततः पृथ्वीं तत्तच्छुद्धं भवेद्ध्रुवम् ॥ (४०।२)

adhomukhīṃ tataḥ pṛthvīṃ tattacchuddhaṃ bhaveddhruvam ||

41.1४१.१

वामा देवी प्रतिष्ठा च सुषुम्ना धारिका तथा । (४१।१)

vāmā devī pratiṣṭhā ca suṣumnā dhārikā tathā |

41.2४१.२

समानोदानवरुणा देवता विष्णुकारणम् ॥ (४१।२)

samānodānavaruṇā devatā viṣṇukāraṇam ||

42.1४२.१

अद्धाताश्च गुणा वेदाः श्वेतं ध्यानं तथैव च । (४२।१)

addhātāśca guṇā vedāḥ śvetaṃ dhyānaṃ tathaiva ca |

42.2४२.२

एवं कुर्यात्कण्ठपद्ममर्धचन्द्राख्यमण्डलम् ॥ (४२।२)

evaṃ kuryātkaṇṭhapadmamardhacandrākhyamaṇḍalam ||

43.1४३.१

पद्माङ्कितं द्विविंशतिककोटिविस्तीर्णमौ स्मरेत् । (४३।१)

padmāṅkitaṃ dviviṃśatikakoṭivistīrṇamau smaret |

43.2४३.२

चतुर्नवत्युच्छ्रयं च आत्मानं च अधोमुखम् ॥ (४३।२)

caturnavatyucchrayaṃ ca ātmānaṃ ca adhomukham ||

44.1४४.१

तालुस्थानं च पद्मं च अघोरो विद्ययान्वितः । (४४।१)

tālusthānaṃ ca padmaṃ ca aghoro vidyayānvitaḥ |

44.2४४.२

नाभ्योष्ठयोर् हस्तिजिह्वाध्यानो नागो ऽग्निदेवता ॥ (४४।२)

nābhyoṣṭhayor hastijihvādhyāno nāgo 'gnidevatā ||

45.1४५.१

रुद्रहेतुस्त्रिरुद्धातास्त्रिगुणा रक्तवर्णकम् । (४५।१)

rudrahetustriruddhātāstriguṇā raktavarṇakam |

45.2४५.२

ज्वालाकृते त्रिकोणं च चतुःकोटिशतानि च ॥ (४५।२)

jvālākṛte trikoṇaṃ ca catuḥkoṭiśatāni ca ||

46.1४६.१

विस्तीर्णं च समुत्सेधं रुद्रतत्त्वं विचिन्तयेत् । (४६।१)

vistīrṇaṃ ca samutsedhaṃ rudratattvaṃ vicintayet |

46.2४६.२

ललाटे वै तत्पुरुषः शान्तिर्यः शाद्वलं बुधाः ॥ (४६।२)

lalāṭe vai tatpuruṣaḥ śāntiryaḥ śādvalaṃ budhāḥ ||

47.1४७.१

कूर्मश्च कृकरो वायुर्देव ईश्वरकारणम् । (४७।१)

kūrmaśca kṛkaro vāyurdeva īśvarakāraṇam |

47.2४७.२

द्विरुद्धातो गुणौ द्वौ च धूम्रषट्कोणमण्डलम् ॥ (४७।२)

dviruddhāto guṇau dvau ca dhūmraṣaṭkoṇamaṇḍalam ||

48.1४८.१

बिन्द्वङ्कितं चाष्टकोटिविस्तीर्णं चोच्छ्रयस्तथा । (४८।१)

bindvaṅkitaṃ cāṣṭakoṭivistīrṇaṃ cocchrayastathā |

48.2४८.२

चतुर्दशाधिकं कोटिवायुतत्त्वं विचिन्तयेत् ॥ (४८।२)

caturdaśādhikaṃ koṭivāyutattvaṃ vicintayet ||

49.1४९.१

द्वादशति सरसिजे शान्त्यतीतास् तथेश्वराः । (४९।१)

dvādaśati sarasije śāntyatītās tatheśvarāḥ |

49.2४९.२

कुहूश्च शङ्खिनी नाड्यो देवदत्तो धनञ्जयः ॥ (४९।२)

kuhūśca śaṅkhinī nāḍyo devadatto dhanañjayaḥ ||

50.1५०.१

शिखैशानकारणं च सदाशिव इति स्मृतः । (५०।१)

śikhaiśānakāraṇaṃ ca sadāśiva iti smṛtaḥ |

50.2५०.२

गुण एकस्तथोद्धातः शुद्धस्फटिकवत्स्मरेत् ॥ (५०।२)

guṇa ekastathoddhātaḥ śuddhasphaṭikavatsmaret ||

51.1५१.१

षोडशकोटिविस्तीर्णं पञ्चविंशतिकोच्छ्रयम् । (५१।१)

ṣoḍaśakoṭivistīrṇaṃ pañcaviṃśatikocchrayam |

51.2५१.२

वर्तुलं चिन्तयेद् व्योम भूतशुद्धिर् उदाहृता ॥ (५१।२)

vartulaṃ cintayed vyoma bhūtaśuddhir udāhṛtā ||

52.1५२.१

गुणयो गुरुर्बोजगुरुः शक्तयनन्तौ च धर्मकः । (५२।१)

guṇayo gururbojaguruḥ śaktayanantau ca dharmakaḥ |

52.2५२.२

ज्ञानवैराग्यमैश्वर्यैस्ततः पूर्वादिपत्रके ॥ (५२।२)

jñānavairāgyamaiśvaryaistataḥ pūrvādipatrake ||

53.1५३.१

अधोर्ध्ववदने द्वे च पद्मकर्णिककेसरम् । (५३।१)

adhordhvavadane dve ca padmakarṇikakesaram |

53.2५३.२

वामाद्या आत्मविद्या च सदा ध्यायेच्छिवाख्यकम् ॥ (५३।२)

vāmādyā ātmavidyā ca sadā dhyāyecchivākhyakam ||

54.1५४.१

तत्त्वं शिवासने मूर्तिर्हे हौं विद्यादेहाय नमः । (५४।१)

tattvaṃ śivāsane mūrtirhe hauṃ vidyādehāya namaḥ |

54.2५४.२

बद्धपद्मासनासीनः सितः षोडशवार्षिकः ॥ (५४।२)

baddhapadmāsanāsīnaḥ sitaḥ ṣoḍaśavārṣikaḥ ||

55.1५५.१

पञ्चवक्त्रः कराग्रैः स्वैर्दशभिश्चैव धारयन् । (५५।१)

pañcavaktraḥ karāgraiḥ svairdaśabhiścaiva dhārayan |

55.2५५.२

अभयं प्रसादं शक्तिं शूलं खट्वाङ्गमीश्वरः ॥ (५५।२)

abhayaṃ prasādaṃ śaktiṃ śūlaṃ khaṭvāṅgamīśvaraḥ ||

56.1५६.१

दक्षैः करैर्वामकैश्च भुजङ्गं चाक्षसूत्रकम् । (५६।१)

dakṣaiḥ karairvāmakaiśca bhujaṅgaṃ cākṣasūtrakam |

56.2५६.२

डमरुकं नीलोत्पलं बीजपूरकमुत्तमम् ॥ (५६।२)

ḍamarukaṃ nīlotpalaṃ bījapūrakamuttamam ||

57.1५७.१

इच्छाज्ञानक्रियाशक्तिस्त्रिनेत्रो हि सदाशिवः । (५७।१)

icchājñānakriyāśaktistrinetro hi sadāśivaḥ |

57.2५७.२

एवं शिवार्चनध्यानी सर्वदा कालवर्जितः ॥ (५७।२)

evaṃ śivārcanadhyānī sarvadā kālavarjitaḥ ||

58.1५८.१

इहाहोरावचारेण त्रीणि वर्षाणि जीवति । (५८।१)

ihāhorāvacāreṇa trīṇi varṣāṇi jīvati |

58.2५८.२

दिनद्वयस्य चारेण जीवेद्वर्षद्वयं नरः ॥ (५८।२)

dinadvayasya cāreṇa jīvedvarṣadvayaṃ naraḥ ||

59.1५९.१

दिनत्रयस्य चारेण वर्षमेकं स जीवति । (५९।१)

dinatrayasya cāreṇa varṣamekaṃ sa jīvati |

59.2५९.२

नाकाले शीतले मृत्युरुष्णे चैव तु कारके ॥ (५९।२)

nākāle śītale mṛtyuruṣṇe caiva tu kārake ||

60.1६०.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चननिरूपणं नाम त्रयोविंशो ऽध्यायः ॥ (६०।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcananirūpaṇaṃ nāma trayoviṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 23

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit