1.2१.२विस्तरेण प्रवक्ष्यामि श्रीधरस्यार्चनं शुभम् । (१।२)
vistareṇa pravakṣyāmi śrīdharasyārcanaṃ śubham |
1.3१.३परिवारश्च सर्वेषां समो ज्ञेयो हि पण्डितैः ॥ (१।३)
parivāraśca sarveṣāṃ samo jñeyo hi paṇḍitaiḥ ||
2.1२.१ॐ श्रां हृदयाय नमः । (२।१)
2.2२.२ॐ श्रीं शिरसे स्वाहा । (२।२)
2.3२.३ॐ श्रूं शिखायै वौषट् । (२।३)
oṃ śrūṃ śikhāyai vauṣaṭ |
2.4२.४ॐ श्रैं कवचाय हुं । (२।४)
2.5२.५ॐ श्रौं नेत्रत्रयाय वौषट् । (२।५)
oṃ śrauṃ netratrayāya vauṣaṭ |
2.6२.६ॐ श्रः अस्त्राय फट् इति ॥ (२।६)
oṃ śraḥ astrāya phaṭ iti ||
3.1३.१दर्शयेदात्मनो मुद्रां शङ्खचक्रगदादिकाम् । (३।१)
darśayedātmano mudrāṃ śaṅkhacakragadādikām |
3.2३.२ध्यात्वात्मानं श्रीधराख्यं शङ्खचक्रगदाधरम् ॥ (३।२)
dhyātvātmānaṃ śrīdharākhyaṃ śaṅkhacakragadādharam ||
4.1४.१ततस्तं पूजयेद्देवं मण्डले स्वस्तिकादिके । (४।१)
tatastaṃ pūjayeddevaṃ maṇḍale svastikādike |
4.2४.२आसनं पूजयेदादौ देवदेवस्य शार्ङ्गिणः । (४।२)
āsanaṃ pūjayedādau devadevasya śārṅgiṇaḥ |
4.3४.३एभिर् मन्त्रैर् महादेव तान्मन्त्राञ्छृणु शङ्कर ॥ (४।३)
ebhir mantrair mahādeva tānmantrāñchṛṇu śaṅkara ||
5.1५.१ॐ श्रीधरासनदेवताः आगच्छता । (५।१)
oṃ śrīdharāsanadevatāḥ āgacchatā |
5.2५.२ॐ समस्तपरिवारायाच्युतासनाय नमः ॥ (५।२)
oṃ samastaparivārāyācyutāsanāya namaḥ ||
6.5६.५ॐ आधारशक्त्यै नमः । (६।५)
7.1७.१अर्चयित्वा समं रुद्रं हरिमावाह्य संयजेत् । (७।१)
arcayitvā samaṃ rudraṃ harimāvāhya saṃyajet |
7.2७.२मन्त्रैरेभिर्महाप्राज्ञः सर्वपापप्रणाशनैः ॥ (७।२)
mantrairebhirmahāprājñaḥ sarvapāpapraṇāśanaiḥ ||
8.1८.१ॐ ह्रीं श्रीधराय त्रैलोक्यमोहनाय विष्णवे नमः आगच्छ ॥ (८।१)
oṃ hrīṃ śrīdharāya trailokyamohanāya viṣṇave namaḥ āgaccha ||
9.2९.२ॐ श्रां हृदयाय नमः । (९।२)
9.3९.३ॐ श्रीं शिरसे नमः । (९।३)
9.4९.४ॐ श्रूं शिखायै नमः । (९।४)
9.5९.५ॐ श्रैं कवचाय नमः । (९।५)
oṃ śraiṃ kavacāya namaḥ |
9.6९.६ॐ श्रौं नेत्रत्रयाय नमः । (९।६)
oṃ śrauṃ netratrayāya namaḥ |
9.7९.७ॐ श्रः अस्त्राय नमः । (९।७)
10.1१०.१अभिषेकं तथा वस्त्रं ततो यज्ञोपवीतकम् । (१०।१)
abhiṣekaṃ tathā vastraṃ tato yajñopavītakam |
10.2१०.२गन्धं पुष्पं तथा धूपं दीपमन्नं प्रदक्षिणम् ॥ (१०।२)
gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ pradakṣiṇam ||
11.1११.१दद्यादेभिर्महामन्त्रैः समर्प्याथ जपेन्मनुम् । (११।१)
dadyādebhirmahāmantraiḥ samarpyātha japenmanum |
11.2११.२शतमष्टोत्तरं चापि जप्त्वा ह्यथ समर्पयेत् ॥ (११।२)
śatamaṣṭottaraṃ cāpi japtvā hyatha samarpayet ||
12.1१२.१ततो मुहूर्तमेकं तु ध्यायेद्देवं हृदि स्थितम् । (१२।१)
tato muhūrtamekaṃ tu dhyāyeddevaṃ hṛdi sthitam |
12.2१२.२शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् ॥ (१२।२)
śuddhasphaṭikasaṃkāśaṃ sūryakoṭisamaprabham ||
13.1१३.१प्रसन्नवदनं सौम्यं स्फुरन्मकरकुण्डलम् । (१३।१)
prasannavadanaṃ saumyaṃ sphuranmakarakuṇḍalam |
13.2१३.२किरीटिनमुदाराङ्गं वनमालासमन्वितम् ॥ (१३।२)
kirīṭinamudārāṅgaṃ vanamālāsamanvitam ||
14.1१४.१परब्रह्मस्वरूपं च श्रीधरं चिन्तयेत्सुधीः । (१४।१)
parabrahmasvarūpaṃ ca śrīdharaṃ cintayetsudhīḥ |
14.2१४.२अनेन चैव स्तोत्रेण स्तुवीत परमेश्वरम् ॥ (१४।२)
anena caiva stotreṇa stuvīta parameśvaram ||
15.1१५.१श्रीनिवासाय देवाय नमः श्रीपतये नमः । (१५।१)
śrīnivāsāya devāya namaḥ śrīpataye namaḥ |
15.2१५.२श्रीधराय सशार्ङ्गाय श्रीप्रदाय नमोनमः ॥ (१५।२)
śrīdharāya saśārṅgāya śrīpradāya namonamaḥ ||
16.1१६.१श्रीवल्लभाय शान्ताय श्रीमते च नमोनमः । (१६।१)
śrīvallabhāya śāntāya śrīmate ca namonamaḥ |
16.2१६.२श्रीपर्वतनिवासाय नमः श्रेयस्कराय च ॥ (१६।२)
śrīparvatanivāsāya namaḥ śreyaskarāya ca ||
17.1१७.१श्रेयसां पतये चैव ह्याश्रमाय नमोनमः । (१७।१)
śreyasāṃ pataye caiva hyāśramāya namonamaḥ |
17.2१७.२नमः श्रेयः स्वरूपाय श्रीकराय नमोनमः ॥ (१७।२)
namaḥ śreyaḥ svarūpāya śrīkarāya namonamaḥ ||
18.1१८.१शरण्याय वरेण्याय नमो भूयो नमोनमः । (१८।१)
śaraṇyāya vareṇyāya namo bhūyo namonamaḥ |
18.2१८.२स्तोत्रं कृत्वा नमस्कृत्य देवदेवं विसर्जयेत् ॥ (१८।२)
stotraṃ kṛtvā namaskṛtya devadevaṃ visarjayet ||
19.1१९.१इति रुद्र समाख्याता पूजा विष्णोर्महात्मनः । (१९।१)
iti rudra samākhyātā pūjā viṣṇormahātmanaḥ |
19.2१९.२यः करोति महाभक्त्या स याति परमं पदम् ॥ (१९।२)
yaḥ karoti mahābhaktyā sa yāti paramaṃ padam ||
20.1२०.१इं यः पठते ऽध्यायं विष्णुपूजाप्रकाशकम् । (२०।१)
iṃ yaḥ paṭhate 'dhyāyaṃ viṣṇupūjāprakāśakam |
20.2२०.२स विधूयेह पापानि याति विष्णोः परं पदम् ॥ (२०।२)
sa vidhūyeha pāpāni yāti viṣṇoḥ paraṃ padam ||
21.1२१.१इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीधरार्चनविधिर् नाम त्रिंशो ऽध्यायः ॥ (२१।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīdharārcanavidhir nāma triṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.