गरुडपुराणGaruḍapurāṇa

GarPur, 1, 22

22 of 166 · 35 verses

Select a line for its word-by-word analysis.

1.1१.१

सूत उवाच । (१।१)

sūta uvāca

1.2१.२

शिवार्चनं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् । (१।२)

śivārcanaṃ pravakṣyāmi bhuktimuktikaraṃ param |

1.3१.३

शान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम् ॥ (१।३)

śāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam ||

2.1२.१

पञ्च वक्त्राणि ह्रस्वानि दीर्घाण्यङ्गानि बिन्दुना । (२।१)

pañca vaktrāṇi hrasvāni dīrghāṇyaṅgāni bindunā |

2.2२.२

सविसर्गं वदेदस्त्रं शिव ऊर्ध्वं तथा पुनः ॥ (२।२)

savisargaṃ vadedastraṃ śiva ūrdhvaṃ tathā punaḥ ||

3.1३.१

षष्ठेनाधो महामन्त्रो हौमित्येवाखिलार्थदः । (३।१)

ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ |

3.2३.२

हस्ताभ्यां संस्पृशेत् पादाव् ऊर्ध्वं पादान्मस्तकम् ॥ (३।२)

hastābhyāṃ saṃspṛśet pādāv ūrdhvaṃ pādānmastakam ||

4.1४.१

महामुद्रा हि सर्वेषां कराङ्गन्यासमाचरेत् । (४।१)

mahāmudrā hi sarveṣāṃ karāṅganyāsamācaret |

4.2४.२

तालहस्तेन पृष्ठं च अस्त्रमन्त्रेण शोधयेत् ॥ (४।२)

tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet ||

5.1५.१

कनिष्ठामादितः कृत्वा तर्जन्यङ्गानि विन्यसेत् । (५।१)

kaniṣṭhāmāditaḥ kṛtvā tarjanyaṅgāni vinyaset |

5.2५.२

पूजनं सम्प्रवक्ष्यामि कर्णिकायां हृदम्बुजे ॥ (५।२)

pūjanaṃ sampravakṣyāmi karṇikāyāṃ hṛdambuje ||

6.1६.१

धर्मं ज्ञानं च वैराग्यमैश्वर्यादि हृदार्चयेत् । (६।१)

dharmaṃ jñānaṃ ca vairāgyamaiśvaryādi hṛdārcayet |

6.2६.२

आवाहनं स्थापनं च पाद्यमर्घ्यं हृदार्पयेत् ॥ (६।२)

āvāhanaṃ sthāpanaṃ ca pādyamarghyaṃ hṛdārpayet ||

7.1७.१

आचामं स्नपनं पूजाम् एकाधारणतुल्यकम् । (७।१)

ācāmaṃ snapanaṃ pūjām ekādhāraṇatulyakam |

7.2७.२

अग्निकार्यविधिं वक्ष्ये अस्त्रेणोल्लेखनं चरेत् ॥ (७।२)

agnikāryavidhiṃ vakṣye astreṇollekhanaṃ caret ||

8.1८.१

वर्मणाभ्युक्षणं कार्यं शक्तिन्यासं हृदा चरेत् । (८।१)

varmaṇābhyukṣaṇaṃ kāryaṃ śaktinyāsaṃ hṛdā caret |

8.2८.२

हृदि वा शक्तिगर्ते च प्रक्षिपेज्जातवेदसम् ॥ (८।२)

hṛdi vā śaktigarte ca prakṣipejjātavedasam ||

9.1९.१

गर्भाधानादिकं कृत्वा निष्कृतिं चारस्य पश्चिमाम् । (९।१)

garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cārasya paścimām |

9.2९.२

हृदा कृत्वा सर्वकर्म शिवं साङ्गं तु होमयेत् ॥ (९।२)

hṛdā kṛtvā sarvakarma śivaṃ sāṅgaṃ tu homayet ||

10.1१०.१

पूजयेन्मण्डले शम्भुं पद्मगर्भे गराङ्कितम् । (१०।१)

pūjayenmaṇḍale śambhuṃ padmagarbhe garāṅkitam |

10.2१०.२

चतुःषष्ट्यन्तम् अष्टादि खाक्षि खाद्य् आदिमण्डलम् ॥ (१०।२)

catuḥṣaṣṭyantam aṣṭādi khākṣi khādy ādimaṇḍalam ||

11.1११.१

खाक्षीन्द्रसूर्यगं सर्वखादिवेदेन्दु वर्तनम् । (११।१)

khākṣīndrasūryagaṃ sarvakhādivedendu vartanam |

11.2११.२

आग्नेय्यां कारयेत् कुण्डम् अर्धचन्द्रनिभं शुभम् ॥ (११।२)

āgneyyāṃ kārayet kuṇḍam ardhacandranibhaṃ śubham ||

12.1१२.१

अग्निशास्त्रपरायुस्थो हृदयादिगणोच्यते । (१२।१)

agniśāstraparāyustho hṛdayādigaṇocyate |

12.2१२.२

अस्त्रं दिशा सुपद्मस्य कर्णिकायां सदाशिवः ॥ (१२।२)

astraṃ diśā supadmasya karṇikāyāṃ sadāśivaḥ ||

13.1१३.१

दीक्षां वक्ष्ये पञ्चतत्त्वे स्थितां भूम्यादिकां परे । (१३।१)

dīkṣāṃ vakṣye pañcatattve sthitāṃ bhūmyādikāṃ pare |

13.2१३.२

निवृत्तिर्भूप्रतिष्ठाद्यैर्विद्याग्निः शान्तिवन्निजः ॥ (१३।२)

nivṛttirbhūpratiṣṭhādyairvidyāgniḥ śāntivannijaḥ ||

14.1१४.१

शान्त्यतीतं भवेद् व्योम तत्परं शान्तमव्ययम् । (१४।१)

śāntyatītaṃ bhaved vyoma tatparaṃ śāntamavyayam |

14.2१४.२

एकैकस्य शतं होमा हत्येवं पञ्च होमयेत् ॥ (१४।२)

ekaikasya śataṃ homā hatyevaṃ pañca homayet ||

15.1१५.१

पश्चात्पूर्णाहुतिं दत्त्वा प्रासोदन शिवं स्मरेत् । (१५।१)

paścātpūrṇāhutiṃ dattvā prāsodana śivaṃ smaret |

15.2१५.२

प्रायश्चित्तविशुद्ध्यर्थम् एकैकाष्टाहुतिं क्रमात् ॥ (१५।२)

prāyaścittaviśuddhyartham ekaikāṣṭāhutiṃ kramāt ||

16.1१६.१

होमयेदस्त्रबीजेन एवं दीक्षां समापयेत् । (१६।१)

homayedastrabījena evaṃ dīkṣāṃ samāpayet |

16.2१६.२

यजनव्यतिरेकेण गोप्यं संस्कारमुत्तमम् ॥ (१६।२)

yajanavyatirekeṇa gopyaṃ saṃskāramuttamam ||

17.1१७.१

एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम् ॥ (१७।१)

evaṃ saṃskāraśuddhasya śivatvaṃ jāyate dhruvam ||

18.1१८.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चनप्रकारो नाम द्वाविंशो ऽध्यायः ॥ (१८।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcanaprakāro nāma dvāviṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 22

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit