गरुडपुराणGaruḍapurāṇa

GarPur, 1, 128

125 of 166 · 42 verses

Select a line for its word-by-word analysis.

1.1१.१

ब्रह्मोवाच । (१।१)

brahmovāca |

1.2१.२

व्रतानि व्यास वक्ष्यामि यैस्तुष्टः सर्वदो हरिः । (१।२)

vratāni vyāsa vakṣyāmi yaistuṣṭaḥ sarvado hariḥ |

1.3१.३

शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतम् ॥ (१।३)

śāstrodito hi niyamo vrataṃ tacca tapo matam ||

2.1२.१

नियमास्तु विशेषाः स्युः व्रतस्यास्य दमादयः । (२।१)

niyamāstu viśeṣāḥ syuḥ vratasyāsya damādayaḥ |

2.2२.२

नित्यं त्रिषवणं स्नायाद् अधःशय्यी जितेन्द्रियः ॥ (२।२)

nityaṃ triṣavaṇaṃ snāyād adhaḥśayyī jitendriyaḥ ||

3.1३.१

स्त्रीशूद्रपतितानां तु वर्जयेदभिभाषणम् । (३।१)

strīśūdrapatitānāṃ tu varjayedabhibhāṣaṇam |

3.2३.२

पवित्राणि च पञ्चैव जुहुयाच्चैव शक्तितः ॥ (३।२)

pavitrāṇi ca pañcaiva juhuyāccaiva śaktitaḥ ||

4.1४.१

कृच्छ्राण्येतानि सर्वाणि चरेत्सुकृतवान्नरः । (४।१)

kṛcchrāṇyetāni sarvāṇi caretsukṛtavānnaraḥ |

4.2४.२

केशानां रक्षणार्थं तु द्विगुणं व्रतमाचरेत् ॥ (४।२)

keśānāṃ rakṣaṇārthaṃ tu dviguṇaṃ vratamācaret ||

5.1५.१

कांस्यं माषं मसूरं च चणकं कोरदूषकम् । (५।१)

kāṃsyaṃ māṣaṃ masūraṃ ca caṇakaṃ koradūṣakam |

5.2५.२

शाकं मधु परान्नं च वर्जयेद् उपवासवान् ॥ (५।२)

śākaṃ madhu parānnaṃ ca varjayed upavāsavān ||

6.1६.१

पुष्पालङ्कारवस्त्राणि धूपगन्धानुलेपनम् । (६।१)

puṣpālaṅkāravastrāṇi dhūpagandhānulepanam |

6.2६.२

उपवासेन दुष्येत्तु दन्तधावनमञ्जनम् ॥ (६।२)

upavāsena duṣyettu dantadhāvanamañjanam ||

7.1७.१

दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रातर्व्रतं चरेत् । (७।१)

dantakāṣṭhaṃ pañcagavyaṃ kṛtvā prātarvrataṃ caret |

7.2७.२

असकृज्जलपानाच्च ताम्बूलस्य च भक्षणात् ॥ (७।२)

asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt ||

8.1८.१

उपवासः प्रदुष्येत दिवास्वप्नाक्षमैथुनात् । (८।१)

upavāsaḥ praduṣyeta divāsvapnākṣamaithunāt |

8.2८.२

क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः ॥ (८।२)

kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ ||

9.1९.१

देवपूजाग्निहवने संतोषो ऽस्तेयमेव च । (९।१)

devapūjāgnihavane saṃtoṣo 'steyameva ca |

9.2९.२

सर्वव्रतेष्वयं धर्मः सामान्यो दशधास्मृतः ॥ (९।२)

sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhāsmṛtaḥ ||

10.1१०.१

नक्षत्रदर्शनान् नक्तम् अनक्तं निशि भोजनम् । (१०।१)

nakṣatradarśanān naktam anaktaṃ niśi bhojanam |

10.2१०.२

गोमूत्रं च पलं दद्यादर्धाङ्गुष्ठं तु गोमयम् ॥ (१०।२)

gomūtraṃ ca palaṃ dadyādardhāṅguṣṭhaṃ tu gomayam ||

11.1११.१

क्षीरं सप्तपलं दद्याद्दध्नश्चैव पलत्रयम् । (११।१)

kṣīraṃ saptapalaṃ dadyāddadhnaścaiva palatrayam |

11.2११.२

घृतम् एकफलं दद्यात्पलमेकं कुशोदकम् ॥ (११।२)

ghṛtam ekaphalaṃ dadyātpalamekaṃ kuśodakam ||

12.1१२.१

गायत्त्र्या चैव गन्धेति आप्यायस्व दृ दधिग्रहः । (१२।१)

gāyattryā caiva gandheti āpyāyasva dṛ dadhigrahaḥ |

12.2१२.२

तेजो ऽसीति च देवस्य ब्रह्मकूर्चव्रतं चरेत् ॥ (१२।२)

tejo 'sīti ca devasya brahmakūrcavrataṃ caret ||

13.1१३.१

अग्न्याधानं प्रतिष्ठां तु यज्ञदानव्रतानि च । (१३।१)

agnyādhānaṃ pratiṣṭhāṃ tu yajñadānavratāni ca |

13.2१३.२

वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥ (१३।२)

vedavratavṛṣotsargacūḍākaraṇamekhalāḥ ||

14.1१४.१

माङ्गल्यमभिषेकं च मलमासे विवर्जयेत् । (१४।१)

māṅgalyamabhiṣekaṃ ca malamāse vivarjayet |

14.2१४.२

दर्शाद्दर्शस्य चान्द्रः स्यात्त्रिंशाहोभिस्तु सावनः ॥ (१४।२)

darśāddarśasya cāndraḥ syāttriṃśāhobhistu sāvanaḥ ||

15.1१५.१

रविसंक्रमणात्सौरो नाक्षत्रः सप्तविंशतिः । (१५।१)

ravisaṃkramaṇātsauro nākṣatraḥ saptaviṃśatiḥ |

15.2१५.२

सौरो मासो विवाहाय यज्ञादौ सावनस्थितिः ॥ (१५।२)

sauro māso vivāhāya yajñādau sāvanasthitiḥ ||

16.1१६.१

युग्माग्नियुगभूतानि षण्मुन्योर्वसुरन्ध्रयोः । (१६।१)

yugmāgniyugabhūtāni ṣaṇmunyorvasurandhrayoḥ |

16.2१६.२

रुद्रेण द्वादशी युक्ता चतुर्दश्याथ पूर्णिमा ॥ (१६।२)

rudreṇa dvādaśī yuktā caturdaśyātha pūrṇimā ||

17.1१७.१

प्रतिपद्यप्यमावास्या तिथ्योर्मस्यं महाफलम् । (१७।१)

pratipadyapyamāvāsyā tithyormasyaṃ mahāphalam |

17.2१७.२

एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुरा कृतम् ॥ (१७।२)

etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purā kṛtam ||

18.1१८.१

प्रारब्धतपसा स्त्रीणां रजो हन्याद्व्रतं न हि । (१८।१)

prārabdhatapasā strīṇāṃ rajo hanyādvrataṃ na hi |

18.2१८.२

अन्यैर्दानादिकं कुर्यात्कायिकं स्वयमेव च ॥ (१८।२)

anyairdānādikaṃ kuryātkāyikaṃ svayameva ca ||

19.1१९.१

क्रोधात्प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि । (१९।१)

krodhātpramādāllobhādvā vratabhaṅgo bhavedyadi |

19.2१९.२

दिनत्रयं न भुञ्जीत शिरसो मुण्डनं भवेत् ॥ (१९।२)

dinatrayaṃ na bhuñjīta śiraso muṇḍanaṃ bhavet ||

20.1२०.१

असामर्थ्ये शरीरस्य पुत्रादीन्कारयेद्व्रतम् । (२०।१)

asāmarthye śarīrasya putrādīnkārayedvratam |

20.2२०.२

व्रतस्थं मूर्छितं विप्रं जलादीन्यनुपाययेत् ॥ (२०।२)

vratasthaṃ mūrchitaṃ vipraṃ jalādīnyanupāyayet ||

21.1२१.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्रतपरिभाषा नामाष्टाविंशत्युत्तरशततमो ऽध्यायः ॥ (२१।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vrataparibhāṣā nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 128

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit