GarPur, 1, 34
Select a line for its word-by-word analysis.
तच्छृणुष्व जगन्नाथो येन विष्णुः प्रतुष्यति ॥ (२।३)
tacchṛṇuṣva jagannātho yena viṣṇuḥ pratuṣyati ||
प्रवक्ष्यामि परं पुण्यं तदादौ शृणु शङ्कर ॥ (३।२)
pravakṣyāmi paraṃ puṇyaṃ tadādau śṛṇu śaṅkara ||
ॐ क्षीं शिरसे स्वाहा शिरः प्रोक्तं क्षूं वषट् तथा ॥ (५।३)
oṃ kṣīṃ śirase svāhā śiraḥ proktaṃ kṣūṃ vaṣaṭ tathā ||
ॐ क्षैं कवचाय हुं वै कवचं परिकीर्तितम् ॥ (६।२)
oṃ kṣaiṃ kavacāya huṃ vai kavacaṃ parikīrtitam ||
ॐ क्षैं नेत्रत्रयाय वौषट् नेत्रं देवस्य कीर्तितम् । (७।१)
oṃ kṣaiṃ netratrayāya vauṣaṭ netraṃ devasya kīrtitam |
ॐ हः अस्त्राय फट् अस्त्रं देवस्य कीर्तितम् ॥ (७।२)
oṃ haḥ astrāya phaṭ astraṃ devasya kīrtitam ||
आदौ स्नात्वा तथाचम्य ततो यागगृहं व्रजेत् ॥ (८।२)
ādau snātvā tathācamya tato yāgagṛhaṃ vrajet ||
ततः प्रविश्य विधिवत् कुर्याद् वं शोषणादिकम् । (९।१)
tataḥ praviśya vidhivat kuryād vaṃ śoṣaṇādikam |
यं क्षैं रमिति बीजैश्च कठिनीकृत्य लमिति ॥ (९।२)
yaṃ kṣaiṃ ramiti bījaiśca kaṭhinīkṛtya lamiti ||
शङ्खं चक्रं गदां पद्मं धारयन्तं चतुर्भुजम् ॥ (११।३)
śaṅkhaṃ cakraṃ gadāṃ padmaṃ dhārayantaṃ caturbhujam ||
सुचक्रं सुकपोलं च पीताम्बरधरं विभुम् ॥ (१२।२)
sucakraṃ sukapolaṃ ca pītāmbaradharaṃ vibhum ||
भावयित्वा महात्मानं सर्वदेवैः समन्वितम् । (१३।१)
bhāvayitvā mahātmānaṃ sarvadevaiḥ samanvitam |
अङ्गमन्त्रैस्ततो न्यासं मूलमन्त्रेण वै तथा ॥ (१३।२)
aṅgamantraistato nyāsaṃ mūlamantreṇa vai tathā ||
ततश्च दर्शयेन्मुद्रां शङ्खपद्मादिकां शुभाम् । (१४।१)
tataśca darśayenmudrāṃ śaṅkhapadmādikāṃ śubhām |
ध्यायेद्ध्यात्वार्चयेद्विष्णुं मूलमन्त्रेण शङ्कर ॥ (१४।२)
dhyāyeddhyātvārcayedviṣṇuṃ mūlamantreṇa śaṅkara ||
आवाह्य मण्डले तास्तु पूजयेत्स्वस्तिकादिके । (१६।१)
āvāhya maṇḍale tāstu pūjayetsvastikādike |
द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वज ॥ (१६।२)
dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja ||
अस्य मध्ये ऽर्चनं कार्यं द्वारे गङ्गां च पूजयेत् ॥ (१७।२)
asya madhye 'rcanaṃ kāryaṃ dvāre gaṅgāṃ ca pūjayet ||
गरुडं पूजयेदग्रे मध्ये शक्तिं च पूजयेत् ॥ (१८।२)
garuḍaṃ pūjayedagre madhye śaktiṃ ca pūjayet ||
आधाराख्यां महादेव ततः कूर्मं समर्चयेत् । (१९।१)
ādhārākhyāṃ mahādeva tataḥ kūrmaṃ samarcayet |
अनन्तं पृथिवीं पश्चाद्धर्मज्ञाने ततो ऽर्चयेत् ॥ (१९।२)
anantaṃ pṛthivīṃ paścāddharmajñāne tato 'rcayet ||
अधर्माज्ञानावैराग्यानैश्रर्ग्यादींस् तु पूर्वतः ॥ (२०।२)
adharmājñānāvairāgyānaiśrargyādīṃs tu pūrvataḥ ||
सत्त्वं रजस्तमश्चैव मध्यदेशे ऽथ पूजयेत् । (२१।१)
sattvaṃ rajastamaścaiva madhyadeśe 'tha pūjayet |
कन्दं नालं च पद्मं च मध्ये चैव प्रपूजयेत् ॥ (२१।२)
kandaṃ nālaṃ ca padmaṃ ca madhye caiva prapūjayet ||
अर्कसोमाग्निसंज्ञानां मण्डलानां हि पूजनम् । (२२।१)
arkasomāgnisaṃjñānāṃ maṇḍalānāṃ hi pūjanam |
मध्यदेशे प्रकर्तव्यमिति रुद्र प्रकीर्तितम् ॥ (२२।२)
madhyadeśe prakartavyamiti rudra prakīrtitam ||
विमलोत्कर्षिणी ज्ञाना क्रियायोगे वृषध्वज । (२३।१)
vimalotkarṣiṇī jñānā kriyāyoge vṛṣadhvaja |
प्रह्वी सत्या तथेशानानुग्रहौ शक्तयो ह्यमूः ॥ (२३।२)
prahvī satyā tatheśānānugrahau śaktayo hyamūḥ ||
अनुग्रहा कर्णिकायां पूज्या श्रेयोऽर्थिभिर् नरैः ॥ (२४।२)
anugrahā karṇikāyāṃ pūjyā śreyo'rthibhir naraiḥ ||
प्रणवाद्यैर् नमोऽन्तैश्च चतुर्थ्यन्तैश्च नामभिः । (२५।१)
praṇavādyair namo'ntaiśca caturthyantaiśca nāmabhiḥ |
आवाह्य मण्डले तस्य न्यासं कुर्यादतन्द्रितः ॥ (२९।२)
āvāhya maṇḍale tasya nyāsaṃ kuryādatandritaḥ ||
न्यासं कृत्वा च तत्रस्थं चिन्तयेत्परमेश्वरम् । (३०।१)
nyāsaṃ kṛtvā ca tatrasthaṃ cintayetparameśvaram |
इन्द्रादिलोकपालैश्च संयुक्तं विष्णुमव्ययम् । (३१।१)
indrādilokapālaiśca saṃyuktaṃ viṣṇumavyayam |
ध्यात्वा प्रदर्शयेन्मुद्राः शङ्खचक्रादिकाः शुभाः ॥ (३१।२)
dhyātvā pradarśayenmudrāḥ śaṅkhacakrādikāḥ śubhāḥ ||
पाद्यार्घ्याचमनीयानि ततो दद्याच्च विष्णवे । (३२।१)
pādyārghyācamanīyāni tato dadyācca viṣṇave |
देवं संस्थाप्य विधिवद्वस्त्रं दद्याद्वृषध्वज । (३३।१)
devaṃ saṃsthāpya vidhivadvastraṃ dadyādvṛṣadhvaja |
ततश्च मण्डले रुद्र ध्यायेद्देवं परेश्वरम् । (३४।१)
tataśca maṇḍale rudra dhyāyeddevaṃ pareśvaram |
ध्यात्वा पाद्यादिकं भूयो दद्याद्देवाय शङ्कर ॥ (३४।२)
dhyātvā pādyādikaṃ bhūyo dadyāddevāya śaṅkara ||
ॐ क्षीं शिरसे नमश्च शिरसः पूजनं भवेत् । (३६।१)
oṃ kṣīṃ śirase namaśca śirasaḥ pūjanaṃ bhavet |
ॐ क्षूं शिखायै नमश्च शिखामेतेन पूजयेत् ॥ (३६।२)
oṃ kṣūṃ śikhāyai namaśca śikhāmetena pūjayet ||
ॐ क्षैं नेत्राय नमश्च नेत्रं चानेन पूजयेत् ॥ (३७।२)
oṃ kṣaiṃ netrāya namaśca netraṃ cānena pūjayet ||
ॐ क्षः अस्त्राय नम इति अस्त्रं चानेन पूजयेत् । (३८।१)
oṃ kṣaḥ astrāya nama iti astraṃ cānena pūjayet |
पूर्वादिषु प्रदेशेषु ह्येतास्तु परिपूजयेत् । (३९।१)
pūrvādiṣu pradeśeṣu hyetāstu paripūjayet |
कोणेष्वस्त्रं यजेद्रुद्र नेत्रं मध्ये प्रपूजयेत् ॥ (३९।२)
koṇeṣvastraṃ yajedrudra netraṃ madhye prapūjayet ||
पूजयेत्परमां देवीं लक्ष्मीं लक्ष्मीप्रदां शुभाम् । (४०।१)
pūjayetparamāṃ devīṃ lakṣmīṃ lakṣmīpradāṃ śubhām |
शङ्खं पद्मं तथा चक्रं गदां पूर्वादितो ऽर्चयेत् ॥ (४०।२)
śaṅkhaṃ padmaṃ tathā cakraṃ gadāṃ pūrvādito 'rcayet ||
पूजयेत्पूर्वतो रुद्र एभिर्मन्त्रैः स्वनामकैः ॥ (४१।२)
pūjayetpūrvato rudra ebhirmantraiḥ svanāmakaiḥ ||
श्रीवत्सं कौस्तुभं मालां तथा पीताम्बरं शुभम् । (४२।१)
śrīvatsaṃ kaustubhaṃ mālāṃ tathā pītāmbaraṃ śubham |
ब्रह्माणं नारदं सिद्धं गुरुं परगुरुं तथा । (४३।१)
brahmāṇaṃ nāradaṃ siddhaṃ guruṃ paraguruṃ tathā |
पूर्वादिकोर्ध्वपर्यन्तं पूजयेद्वृषभध्वज ॥ (४५।२)
pūrvādikordhvaparyantaṃ pūjayedvṛṣabhadhvaja ||
वज्रं शक्तिं तथा दण्डं खड्गं पाशं ध्वजं गदाम् । (४६।१)
vajraṃ śaktiṃ tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām |
त्रिशूलं चक्रपद्मे च आयुधान्यथ पूजयेत् ॥ (४६।२)
triśūlaṃ cakrapadme ca āyudhānyatha pūjayet ||
विष्वक्सेनं ततो देवमैशान्यां दिशि पूजयेत् । (४७।१)
viṣvaksenaṃ tato devamaiśānyāṃ diśi pūjayet |
एभिर्मन्त्रैर् नमोऽन्तैश्च प्रणवाद्यैर्वृषध्वज ॥ (४७।२)
ebhirmantrair namo'ntaiśca praṇavādyairvṛṣadhvaja ||
देवस्य मूलमन्त्रेण पूजा कार्या वृषध्वज ॥ (४८।२)
devasya mūlamantreṇa pūjā kāryā vṛṣadhvaja ||
गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च । (४९।१)
gandhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca |
प्रदक्षिणं नमस्कारं जप्यं तस्मै समर्पयेत् ॥ (४९।२)
pradakṣiṇaṃ namaskāraṃ japyaṃ tasmai samarpayet ||
स्तुवीत चान्या स्तुत्या प्रणवाद्यैर्वृषध्वज । (५०।१)
stuvīta cānyā stutyā praṇavādyairvṛṣadhvaja |
कर्त्रे हर्त्रे सुरेशाय सर्वगाय नमोनमः ॥ (५४।२)
kartre hartre sureśāya sarvagāya namonamaḥ ||
इत्येवं संस्तवं कृत्वा देवदेवं विचिन्तयेत् । (५५।१)
ityevaṃ saṃstavaṃ kṛtvā devadevaṃ vicintayet |
हृत्पद्मे विमले रुद्र शङ्खचक्रगदाधरम् ॥ (५५।२)
hṛtpadme vimale rudra śaṅkhacakragadādharam ||
यः पठेत् परया भक्त्या स गच्छेत्परमं पदम् ॥ (५७।२)
yaḥ paṭhet parayā bhaktyā sa gacchetparamaṃ padam ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हयग्रीवपूजाविधिर् नाम चतुस्त्रिंशो ऽध्यायः ॥ (५८।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hayagrīvapūjāvidhir nāma catustriṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.