GarPur, 1, 48
Select a line for its word-by-word analysis.
प्रतिष्ठां सर्वदेवानां संक्षेपेण वदाम्यहम् । (१।२)
pratiṣṭhāṃ sarvadevānāṃ saṃkṣepeṇa vadāmyaham |
सुतिथ्यादौ सुरम्यां च प्रतिष्ठां कारयेद्गुरुः ॥ (१।३)
sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ ||
पञ्चभिर्बहुभिर्वाथ कुर्यात्पाद्यार्घ्यमेव च । (३।१)
pañcabhirbahubhirvātha kuryātpādyārghyameva ca |
मुद्रिकाभिस्तथा वस्त्रैर्गन्धमाल्यानुलेपनैः ॥ (३।२)
mudrikābhistathā vastrairgandhamālyānulepanaiḥ ||
मन्त्रन्यासं गुरुः कृत्वा ततः कर्म समारभेत् । (४।१)
mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet |
प्रासादस्याग्रतः कुर्यान्मण्डपं दशहस्तकम् ॥ (४।२)
prāsādasyāgrataḥ kuryānmaṇḍapaṃ daśahastakam ||
कुर्याद्द्वादशहस्तं वा स्तम्भैः षोडशभिर्युतम् । (५।१)
kuryāddvādaśahastaṃ vā stambhaiḥ ṣoḍaśabhiryutam |
ध्वजाष्टकैश् चतुर्हस्तां मध्ये वेदिं च कारयेत् ॥ (५।२)
dhvajāṣṭakaiś caturhastāṃ madhye vediṃ ca kārayet ||
पूर्वादितः समारभ्य कर्तव्यं कुण्डपञ्चकम् । (७।१)
pūrvāditaḥ samārabhya kartavyaṃ kuṇḍapañcakam |
ऐशान्यां केचिदिच्छन्ति उपलिप्यावनिं शुभाम् । (९।१)
aiśānyāṃ kecidicchanti upalipyāvaniṃ śubhām |
द्वाराणि चैव चत्वारि कृत्वा वै तोरणान्तिके ॥ (९।२)
dvārāṇi caiva catvāri kṛtvā vai toraṇāntike ||
न्यग्रोधोदुम्बराश्वत्थबैल्वपालाशखादिराः । (१०।१)
nyagrodhodumbarāśvatthabailvapālāśakhādirāḥ |
तोरणाः पञ्चहस्ताश्च वस्त्रपुष्पाद्यलंकृताः ॥ (१०।२)
toraṇāḥ pañcahastāśca vastrapuṣpādyalaṃkṛtāḥ ||
पूर्वद्वारे मृगेन्द्रं तु हयराजं तु दक्षिणे ॥ (११।२)
pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe ||
अग्निम् ईलेति हि मन्त्रेण प्रथमं पूर्वतो न्यसेत् ॥ (१२।२)
agnim īleti hi mantreṇa prathamaṃ pūrvato nyaset ||
ईषेत्वेतिहि मन्त्रेण दक्षिणस्यां द्वितीयकम् । (१३।१)
īṣetvetihi mantreṇa dakṣiṇasyāṃ dvitīyakam |
शं नो देवीति मन्त्रेण उत्तरस्यां चतुर्थकम् । (१४।१)
śaṃ no devīti mantreṇa uttarasyāṃ caturthakam |
पूर्वे अम्बुदवत्कार्या आग्नेय्यां धूमरूपिणी ॥ (१४।२)
pūrve ambudavatkāryā āgneyyāṃ dhūmarūpiṇī ||
याम्यां वै कृष्णरूपा तु नैरृत्या श्यामला भवेत् । (१५।१)
yāmyāṃ vai kṛṣṇarūpā tu nairṛtyā śyāmalā bhavet |
वारुण्यां पाण्डुरा ज्ञेया वायव्यां पीतवर्णिका ॥ (१५।२)
vāruṇyāṃ pāṇḍurā jñeyā vāyavyāṃ pītavarṇikā ||
बहुरूपा तथा मध्ये इन्द्रविद्येति पूर्वके ॥ (१६।२)
bahurūpā tathā madhye indravidyeti pūrvake ||
आग्निं संसुप्तिमन्त्रेण यमोनागेति दक्षिणे । (१७।१)
āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe |
पूज्या रक्षोहनोवेति पश्चिमे उत्तरे ऽपि च ॥ (१७।२)
pūjyā rakṣohanoveti paścime uttare 'pi ca ||
कलशौ तु ततो द्वौ द्वौ निवेश्यौ तोरणान्तिके । (१९।१)
kalaśau tu tato dvau dvau niveśyau toraṇāntike |
वस्त्रयुग्मसमायुक्ताश् चन्दनाद्यैः स्वलंकृताः ॥ (१९।२)
vastrayugmasamāyuktāś candanādyaiḥ svalaṃkṛtāḥ ||
पुष्पैर् वितानैर् बहुलैर् आदिवर्णाभिमन्त्रिताः । (२०।१)
puṣpair vitānair bahulair ādivarṇābhimantritāḥ |
दिक्पालाश्च ततः पूज्याः शास्त्रदृष्टेन कर्मणा ॥ (२०।२)
dikpālāśca tataḥ pūjyāḥ śāstradṛṣṭena karmaṇā ||
त्रातारम् इन्द्रमन्त्रेण अग्निर्मूर्धेति चापरे । (२१।१)
trātāram indramantreṇa agnirmūrdheti cāpare |
अस्मिन् वृक्ष इतं चैव प्रचारीति परा स्मृता ॥ (२१।२)
asmin vṛkṣa itaṃ caiva pracārīti parā smṛtā ||
इमा रुद्रेति दिक्पालान् पूजयित्वा विचक्षणः ॥ (२२।२)
imā rudreti dikpālān pūjayitvā vicakṣaṇaḥ ||
होमद्रव्याणि वायव्ये कुर्यात्सोपस्कराणि च । (२३।१)
homadravyāṇi vāyavye kuryātsopaskarāṇi ca |
शङ्खाञ्छास्त्रोदिताञ्छ्वेतान् नेत्राभ्यां विन्यसेद्गुरुः ॥ (२३।२)
śaṅkhāñchāstroditāñchvetān netrābhyāṃ vinyasedguruḥ ||
आलोकनेन द्रव्याणि शुद्धिं यान्ति न संशयः । (२४।१)
ālokanena dravyāṇi śuddhiṃ yānti na saṃśayaḥ |
अस्त्रं चैव समस्तानां न्यासो ऽयं सर्वकामिकः । (२५।१)
astraṃ caiva samastānāṃ nyāso 'yaṃ sarvakāmikaḥ |
अक्षतान्विष्टरं चैव अस्त्रेणैवाभिमन्त्रितान् ॥ (२५।२)
akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān ||
विष्टरेण स्पृशेद् दुव्यान्यागमण्डपसंभृतान् । (२६।१)
viṣṭareṇa spṛśed duvyānyāgamaṇḍapasaṃbhṛtān |
अक्षतान् विकिरेत् पश्चाद् अस्त्रपूतान् समन्ततः ॥ (२६।२)
akṣatān vikiret paścād astrapūtān samantataḥ ||
अवकीर्याक्षतान् सर्वांल्लेपयेन् मण्डपं ततः ॥ (२७।२)
avakīryākṣatān sarvāṃllepayen maṇḍapaṃ tataḥ ||
गन्धाद्यैरर्घ्यपात्रे च मन्त्रग्रामं न्यसेद्गुरुः । (२८।१)
gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ |
तेनार्घ्यपात्रतोयेन प्रोक्षयेद्यागमण्डपम् ॥ (२८।२)
tenārghyapātratoyena prokṣayedyāgamaṇḍapam ||
प्रतिष्ठा यस्य देवस्य तदाख्यं कलशं न्यसेत् । (२९।१)
pratiṣṭhā yasya devasya tadākhyaṃ kalaśaṃ nyaset |
ऐशान्यां पूजयेद्याम्ये अस्त्रेणैव च वर्धनीम् ॥ (२९।२)
aiśānyāṃ pūjayedyāmye astreṇaiva ca vardhanīm ||
कलशं वर्धनीं चैव ग्रहान् वास्तोष्पतिं तथा । (३०।१)
kalaśaṃ vardhanīṃ caiva grahān vāstoṣpatiṃ tathā |
सूत्रग्रीवं रत्नगर्भं वस्त्रयुग्मेन वेष्टितम् । (३१।१)
sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam |
सर्वौषधीगन्धलिप्तं पूजयेत्कलशं गुरुः ॥ (३१।२)
sarvauṣadhīgandhaliptaṃ pūjayetkalaśaṃ guruḥ ||
देवस्तु कलशे पूज्यो वर्धन्या वस्त्रमुत्तमम् । (३२।१)
devastu kalaśe pūjyo vardhanyā vastramuttamam |
वर्धन्या तु समायुक्तं कलशं भ्रामयेदनु ॥ (३२।२)
vardhanyā tu samāyuktaṃ kalaśaṃ bhrāmayedanu ||
अभ्यर्च्य वर्धनीकुम्भं स्थण्डिले देवमर्चयेत् ॥ (३३।२)
abhyarcya vardhanīkumbhaṃ sthaṇḍile devamarcayet ||
घटं चावाह्य वायव्यां गणानां त्वेति सद्गणम् । (३४।१)
ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam |
वास्तोष्पतीति मन्त्रेण वास्तुदोषोपशान्तये । (३५।१)
vāstoṣpatīti mantreṇa vāstudoṣopaśāntaye |
कुम्भस्य पूर्वतो भूतं गणदेवं बलिं हरेत् ॥ (३५।२)
kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret ||
पठेदिति च विद्याश्च कुर्यादालम्भनं बुधः । (३६।१)
paṭhediti ca vidyāśca kuryādālambhanaṃ budhaḥ |
योगे योगेति मन्त्रेणास्तरणं शाद्वलैः कुशैः ॥ (३६।२)
yoge yogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ ||
ऋत्विग्भिः सार्धमाचार्यः स्नानपीठे गुरुस्तदा । (३७।१)
ṛtvigbhiḥ sārdhamācāryaḥ snānapīṭhe gurustadā |
विविधैर्ब्रह्मघोषैश्च पुण्याहजयमङ्गलैः ॥ (३७।२)
vividhairbrahmaghoṣaiśca puṇyāhajayamaṅgalaiḥ ||
कृत्वा ब्रह्मरथे देवं प्रतिष्ठन्ति ततो द्विजाः । (३८।१)
kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ |
ऐशान्याम् आनयेत् पीठमण्डपे विन्यसेद्गुरुः ॥ (३८।२)
aiśānyām ānayet pīṭhamaṇḍape vinyasedguruḥ ||
भद्रंकर्णेत्यथ स्नात्वा सूत्रवल्कलजेन तु । (३९।१)
bhadraṃkarṇetyatha snātvā sūtravalkalajena tu |
संस्नाप्य लक्षणोद्धारं कुर्यात् तूर्यादिवादनैः ॥ (३९।२)
saṃsnāpya lakṣaṇoddhāraṃ kuryāt tūryādivādanaiḥ ||
मधुसर्पिःसमायुक्तं कांस्ये वा ताम्रभाजने । (४०।१)
madhusarpiḥsamāyuktaṃ kāṃsye vā tāmrabhājane |
अग्निर्ज्योतीति मन्त्रेण नेत्रोद्वाटं तु कारयेत् । (४१।१)
agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet |
लक्षणे क्रियमाणे तु नामैकं स्थापको वदेत् ॥ (४१।२)
lakṣaṇe kriyamāṇe tu nāmaikaṃ sthāpako vadet ||
इमं मे गङ्गे मन्त्रेण नेत्रयोः शीतलक्रिया । (४२।१)
imaṃ me gaṅge mantreṇa netrayoḥ śītalakriyā |
अग्निर्मूर्धेति मन्त्रेण दद्याद्वल्मीकमृत्तिकाम् ॥ (४२।२)
agnirmūrdheti mantreṇa dadyādvalmīkamṛttikām ||
यज्ञा यज्ञेति मन्त्रेण दद्यात्पञ्चकषायकम् ॥ (४३।२)
yajñā yajñeti mantreṇa dadyātpañcakaṣāyakam ||
पञ्चगव्यं स्नापयेच्च सहदेव्यादिभिस्ततः । (४४।१)
pañcagavyaṃ snāpayecca sahadevyādibhistataḥ |
कुमारी च गुडूची च सिंही व्याघ्री तथैव च । (४५।१)
kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca |
या ओषधीति मन्त्रेण स्नानम् ओषधिमज्जलैः ॥ (४५।२)
yā oṣadhīti mantreṇa snānam oṣadhimajjalaiḥ ||
याः फलिनीति मन्त्रेण फलस्नानं विधीयते । (४६।१)
yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate |
द्रुपदादिवेति मन्त्रेण कार्यमुद्वर्तनं बुधैः ॥ (४६।२)
drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ ||
रत्नानि चैव धान्यानि ओषधीं शतपुष्पिकाम् ॥ (४७।२)
ratnāni caiva dhānyāni oṣadhīṃ śatapuṣpikām ||
समुद्रांश्चैव विन्यस्य चतुरश्चतुरो दिशः । (४८।१)
samudrāṃścaiva vinyasya caturaścaturo diśaḥ |
क्षीरं दधि क्षीरोदस्य घृतोदस्येति वा पुनः ॥ (४८।२)
kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ ||
तेजो ऽसीति च मन्त्रैश्च कुम्भं चैवाभिमन्त्रयेत् ॥ (४९।२)
tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet ||
समुद्राख्यैश्चतुर्भिश्च स्नापयेत्कलशैः पुनः । (५०।१)
samudrākhyaiścaturbhiśca snāpayetkalaśaiḥ punaḥ |
स्नातश्चैव सुवेषश्च धूपो देयश्च गुग्गुलुः ॥ (५०।२)
snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ ||
अभिषेकाय कुम्भेषु तत्तत्तीर्थानि विन्यसेत् । (५१।१)
abhiṣekāya kumbheṣu tattattīrthāni vinyaset |
पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा ॥ (५१।२)
pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā ||
या ओषधीति मन्त्रेण कुम्भं चैवाभिमन्त्रयेत् । (५२।१)
yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet |
तेन तोयेन यः स्नायात्स मुच्येत्सर्वपातकैः ॥ (५२।२)
tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ ||
अभिषिच्य समुद्रैश्च त्वर्घ्यं दद्यात्ततः पुनः । (५३।१)
abhiṣicya samudraiśca tvarghyaṃ dadyāttataḥ punaḥ |
गन्धद्वारेति गन्धं च न्यासं वै वेदमन्त्रकैः ॥ (५३।२)
gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ ||
स्वशास्त्रविहितैः प्राप्तैर् युवंवस्त्रेति वस्त्रकम् । (५४।१)
svaśāstravihitaiḥ prāptair yuvaṃvastreti vastrakam |
शम्भवायेति मन्त्रेण शय्यायां विनिवेशयेत् । (५५।१)
śambhavāyeti mantreṇa śayyāyāṃ viniveśayet |
विश्वतश्चक्षुर्मन्त्रेण कुर्यात्सकलनिष्कलम् ॥ (५५।२)
viśvataścakṣurmantreṇa kuryātsakalaniṣkalam ||
स्थित्वा चैव परे तत्त्वे मन्त्रन्यासं तु कारयेत् । (५६।१)
sthitvā caiva pare tattve mantranyāsaṃ tu kārayet |
स्वशास्त्रविहितो मन्त्रो न्यासस्तस्मिंस्तथोदितः ॥ (५६।२)
svaśāstravihito mantro nyāsastasmiṃstathoditaḥ ||
वस्त्रेणाच्छादयित्वा तु पूजनीयः स्वभावतः । (५७।१)
vastreṇācchādayitvā tu pūjanīyaḥ svabhāvataḥ |
यथाशास्त्रं निवेद्यानि पादमूले तु दापयेत् ॥ (५७।२)
yathāśāstraṃ nivedyāni pādamūle tu dāpayet ||
अथ प्रणवसंयुक्तं वस्त्रयुग्मेन वेष्टितम् । (५८।१)
atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam |
स्थित्वा कुण्डसमीपे ऽथ अग्नेः स्थापनमाचरेत् । (५९।१)
sthitvā kuṇḍasamīpe 'tha agneḥ sthāpanamācaret |
स्वशास्त्रविहितैर्मन्त्रैर् वेदोक्तैर्वाथ वा गुरुः ॥ (५९।२)
svaśāstravihitairmantrair vedoktairvātha vā guruḥ ||
श्रीसूक्तं पावमान्यं च वासदाम्यसवाजिनम् । (६०।१)
śrīsūktaṃ pāvamānyaṃ ca vāsadāmyasavājinam |
वृषाकपिं च मित्रं बह्वचः पूर्वतो जपेत् ॥ (६०।२)
vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet ||
रुद्रं पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् । (६१।१)
rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam |
ब्रह्माणं पितृमैत्रं च अध्वर्युर्दक्षिणे जपेत् ॥ (६१।२)
brahmāṇaṃ pitṛmaitraṃ ca adhvaryurdakṣiṇe japet ||
वेदव्रतं वामदेव्यं ज्येष्ठसाम रथन्तरम् । (६२।१)
vedavrataṃ vāmadevyaṃ jyeṣṭhasāma rathantaram |
भेरुण्डानि च सामानि छन्दोगः पश्चिमे जपेत् ॥ (६२।२)
bheruṇḍāni ca sāmāni chandogaḥ paścime japet ||
नीलरुद्रांश्च मैत्रं च अथर्वश्चोत्तरे जपेत् ॥ (६३।२)
nīlarudrāṃśca maitraṃ ca atharvaścottare japet ||
कुण्डं चास्त्रेण संप्रोक्ष्य आचार्यस्तु विशेषतः । (६४।१)
kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ |
अस्त्रेण ज्वालयेद्वह्निं कवचेन तु वेष्टयेत् ॥ (६५।२)
astreṇa jvālayedvahniṃ kavacena tu veṣṭayet ||
अमृतीकृत्य तं पश्चान्मन्त्रैः सर्वैश्च देशिकः । (६६।१)
amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ |
पात्रं गृह्य कराभ्यां च कुण्डं भ्राम्य ततः पुनः ॥ (६६।२)
pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ ||
वैष्णवेन तु योगेन परं तेजस्तु निःक्षिपेत् । (६७।१)
vaiṣṇavena tu yogena paraṃ tejastu niḥkṣipet |
दक्षिणे स्थापयेद्ब्रह्म प्रणीतांश् चोत्तरेण तु ॥ (६७।२)
dakṣiṇe sthāpayedbrahma praṇītāṃś cottareṇa tu ||
दिक्षु दिक्षु ततो दद्यात्परिधिं विष्टरैः सह ॥ (६८।२)
dikṣu dikṣu tato dadyātparidhiṃ viṣṭaraiḥ saha ||
ब्रह्मविष्णुहरेशानाः पूज्याः साधारणेन तु । (६९।१)
brahmaviṣṇuhareśānāḥ pūjyāḥ sādhāraṇena tu |
दर्भेषु स्थापयेद्वह्निं दर्भैश्च परिवेष्टितम् ॥ (६९।२)
darbheṣu sthāpayedvahniṃ darbhaiśca pariveṣṭitam ||
दर्भतोयेन संस्पृष्टो मन्त्रहीनो ऽपि शुध्यति । (७०।१)
darbhatoyena saṃspṛṣṭo mantrahīno 'pi śudhyati |
प्रागग्रैरुदगग्रैश्च प्रत्यगग्रैरखण्डितैः ॥ (७०।२)
prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ ||
विततैर्वेष्टितो वह्निः स्वयं सान्निध्यमाव्रजेत् । (७१।१)
vitatairveṣṭito vahniḥ svayaṃ sānnidhyamāvrajet |
अग्नेस्तु रक्षणार्थाय यदुक्तं कर्म न्त्रवित् ॥ (७१।२)
agnestu rakṣaṇārthāya yaduktaṃ karma ntravit ||
आचार्याः केचिदिच्छन्ति जातकर्माद्यनन्तरम् । (७२।१)
ācāryāḥ kecidicchanti jātakarmādyanantaram |
पवित्रं तु ततः कृत्वा कुर्यादाज्यस्य संस्कृतिम् ॥ (७२।२)
pavitraṃ tu tataḥ kṛtvā kuryādājyasya saṃskṛtim ||
आचार्यो ऽथ निरीक्ष्यापि नीराज्यमभिमन्त्रितम् । (७३।१)
ācāryo 'tha nirīkṣyāpi nīrājyamabhimantritam |
आज्यभागाभिघारान्तम् अवेक्षेताज्यसिद्धये ॥ (७३।२)
ājyabhāgābhighārāntam avekṣetājyasiddhaye ||
गर्भाधानादितस् तावद् यावद् गौदानिकं भवेत् ॥ (७४।२)
garbhādhānāditas tāvad yāvad gaudānikaṃ bhavet ||
स्वशास्त्रविहितैर्मन्त्रैः प्रणवेनाथ होमयेत् । (७५।१)
svaśāstravihitairmantraiḥ praṇavenātha homayet |
ततः पूर्णाहुतिं दत्त्वा पूर्णात् पूर्णम् अनारेथः ॥ (७५।२)
tataḥ pūrṇāhutiṃ dattvā pūrṇāt pūrṇam anārethaḥ ||
एवमुत्पादितो वह्निः सर्वकर्मसु सिद्धिदः । (७६।१)
evamutpādito vahniḥ sarvakarmasu siddhidaḥ |
पूजयित्वा ततो वह्निं कुण्डेषु विहरेत्तथा ॥ (७६।२)
pūjayitvā tato vahniṃ kuṇḍeṣu viharettathā ||
इन्द्रादीनां स्वमन्त्रैश्च तथाहुतिशतं शतम् । (७७।१)
indrādīnāṃ svamantraiśca tathāhutiśataṃ śatam |
पूर्णाहुतिं शतस्यान्ते सर्वेषां चैव होमयेत् ॥ (७७।२)
pūrṇāhutiṃ śatasyānte sarveṣāṃ caiva homayet ||
स्वामाहुतिमथाज्येषु होता तत्कलशे न्यसेत् । (७८।१)
svāmāhutimathājyeṣu hotā tatkalaśe nyaset |
देवताश्चैव मन्त्रांश्च तथैव जातवेदसम् ॥ (७८।२)
devatāścaiva mantrāṃśca tathaiva jātavedasam ||
आत्मानमेकतः कृत्वा ततः पूर्णां प्रदापयेत् । (७९।१)
ātmānamekataḥ kṛtvā tataḥ pūrṇāṃ pradāpayet |
निष्कृष्य बहिराचार्यो दिक्पालानां बलिं हरेत् ॥ (७९।२)
niṣkṛṣya bahirācāryo dikpālānāṃ baliṃ haret ||
भूतानां चैव देवानां नागानां च प्रयोगतः । (८०।१)
bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ |
तिलाश्च समिधश्चैव होमद्रव्यं द्वयं स्मृतम् ॥ (८०।२)
tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam ||
आज्यं तयोः सहकारि तत्प्रधानं यद् अङ्कयोः । (८१।१)
ājyaṃ tayoḥ sahakāri tatpradhānaṃ yad aṅkayoḥ |
परुषसुक्तं पूर्वेणैव रुद्रश् चैव तु दक्षिणे ॥ (८१।२)
paruṣasuktaṃ pūrveṇaiva rudraś caiva tu dakṣiṇe ||
ज्येष्ठसाम च भारुण्डं तन्नयामीति पश्चिमे । (८२।१)
jyeṣṭhasāma ca bhāruṇḍaṃ tannayāmīti paścime |
नीलरुद्रो महामन्त्रः कुम्भसूक्तम् अथर्वणः ॥ (८२।२)
nīlarudro mahāmantraḥ kumbhasūktam atharvaṇaḥ ||
हुत्वा सहस्रमेकैकं देवं शिरसि कल्पयेत् । (८३।१)
hutvā sahasramekaikaṃ devaṃ śirasi kalpayet |
एवं मध्ये तथा पादे पूर्णाहुत्या तथा पुनः ॥ (८३।२)
evaṃ madhye tathā pāde pūrṇāhutyā tathā punaḥ ||
शिरःस्थानेषु जुहुयादाविशेच्चाप्यनुक्रमात् । (८४।१)
śiraḥsthāneṣu juhuyādāviśeccāpyanukramāt |
वेदानाम् आदिमन्त्रैर्वा मन्त्रैर्वा देवनामभिः ॥ (८४।२)
vedānām ādimantrairvā mantrairvā devanāmabhiḥ ||
स्वशास्त्रविहितैर्वापि गायत्त्र्या वाथ ते द्विजाः । (८५।१)
svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ |
गायत्त्र्या वाथवाचार्यो व्याहृतिप्रणवेन तु ॥ (८५।२)
gāyattryā vāthavācāryo vyāhṛtipraṇavena tu ||
एवं होमविधिं कृत्वा न्यसेन्मन्त्रांस्तु देशिकः । (८६।१)
evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ |
चरणाव् अग्निम् ईडे तु इषे त्वो गुल्फयोः स्थिताः ॥ (८६।२)
caraṇāv agnim īḍe tu iṣe tvo gulphayoḥ sthitāḥ ||
अग्न आयाहि जङ्घे द्वे शं नो देवीति जानुनी । (८७।१)
agna āyāhi jaṅghe dve śaṃ no devīti jānunī |
बृहद्रथन्तरे ऊरू उदरेष्व् आतिलो स्वातिनो न्यसेत् ॥ (८७।२)
bṛhadrathantare ūrū udareṣv ātilo svātino nyaset ||
दीर्घायुष्ट्वाय हृदये श्रीश्चते गलके न्यसेत् । (८८।१)
dīrghāyuṣṭvāya hṛdaye śrīścate galake nyaset |
त्रातारमिन्द्रमुरसि नेत्राभ्यां तु त्रियम्बकम् ॥ (८८।२)
trātāramindramurasi netrābhyāṃ tu triyambakam ||
मूर्धाभव तथा मूर्ध्नि आलग्नाद्धोममाचरेत् । (८९।१)
mūrdhābhava tathā mūrdhni ālagnāddhomamācaret |
उत्थापयेत्ततो देवम् उत्तिष्ठ ब्रह्मणस्पते ॥ (८९।२)
utthāpayettato devam uttiṣṭha brahmaṇaspate ||
वेदपुण्याहशब्देन प्रासादानां प्रदक्षिणम् । (९०।१)
vedapuṇyāhaśabdena prāsādānāṃ pradakṣiṇam |
पिण्डिकालम्भनं कृत्वा देवस्य त्वेति मन्त्रवित् ॥ (९०।२)
piṇḍikālambhanaṃ kṛtvā devasya tveti mantravit ||
दिक्पालान् सह रत्नैश्च धातूनोषधयस्तथा । (९१।१)
dikpālān saha ratnaiśca dhātūnoṣadhayastathā |
लौहबीजानि सिद्धानि पश्चाद्देवं तु विन्यसेत् ॥ (९१।२)
lauhabījāni siddhāni paścāddevaṃ tu vinyaset ||
न गर्भे स्थापयेद्देवं न गर्भं तु परित्यजेत् । (९२।१)
na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet |
ईषन्मध्यं परित्यज्य ततो दोषापहं तु तत् ॥ (९२।२)
īṣanmadhyaṃ parityajya tato doṣāpahaṃ tu tat ||
तिलस्य तुषमात्रं तु उत्तरं किंचिद् आनयेत् । (९३।१)
tilasya tuṣamātraṃ tu uttaraṃ kiṃcid ānayet |
ॐ स्थिरो भव शिवो भव प्रजाभ्यश्च नमोनमः ॥ (९३।२)
oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ ||
देवस्य त्वा सवितुर्वः षड्भ्यो वै विन्यसेद्गुरुः । (९४।१)
devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ |
तत्त्ववर्णकलामात्रं प्रजानि भुवनात्मजे ॥ (९४।२)
tattvavarṇakalāmātraṃ prajāni bhuvanātmaje ||
षड्भ्यो विन्यस्य सिद्धार्थं ध्रुवार्थैरभिमन्त्रयेत् । (९५।१)
ṣaḍbhyo vinyasya siddhārthaṃ dhruvārthairabhimantrayet |
दीपधूपसुगन्धैश्च नैवेद्यैश्च प्रपूजयेत् । (९६।१)
dīpadhūpasugandhaiśca naivedyaiśca prapūjayet |
अर्घ्यं दत्त्वा नमस्कृत्य ततो देवं क्षमापयेत् ॥ (९६।२)
arghyaṃ dattvā namaskṛtya tato devaṃ kṣamāpayet ||
पात्रं वस्त्रयुगं छत्रं तथा दिव्याङ्गुलीयकम् । (९७।१)
pātraṃ vastrayugaṃ chatraṃ tathā divyāṅgulīyakam |
ऋत्विग्भ्यश्च प्रदातव्या दक्षिणा चैव शक्तितः ॥ (९७।२)
ṛtvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ ||
आहुतीनां शतं हुत्वा ततः पूर्णां प्रदापयेत् ॥ (९८।२)
āhutīnāṃ śataṃ hutvā tataḥ pūrṇāṃ pradāpayet ||
निष्क्रम्य बहिराचार्यो दिक्पालानां बलिं हरेत् । (९९।१)
niṣkramya bahirācāryo dikpālānāṃ baliṃ haret |
आचार्यः पुष्पहस्तस्तु क्षमस्वेति विसर्जयेत् ॥ (९९।२)
ācāryaḥ puṣpahastastu kṣamasveti visarjayet ||
यागान्ते कपिलां दद्यादाचार्याय च चामरम् । (१००।१)
yāgānte kapilāṃ dadyādācāryāya ca cāmaram |
मुकुटं कुण्डलं छत्रं केयूरं कटिसूत्रकम् ॥ (१००।२)
mukuṭaṃ kuṇḍalaṃ chatraṃ keyūraṃ kaṭisūtrakam ||
व्यजनं ग्रामवस्त्रादीन्सोपस्कारं सुमण्डपम् । (१०१।१)
vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam |
भोजनं च महात्कुर्यात्कृतकृत्यश्च जायते । (१०१।२)
bhojanaṃ ca mahātkuryātkṛtakṛtyaśca jāyate |
यजमानो विमुक्तः स्यात्स्थापकस्य प्रसादतः ॥ (१०१।३)
yajamāno vimuktaḥ syātsthāpakasya prasādataḥ ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे देवप्रतिष्ठादिनिरूपणं नामाष्टचत्वारिंशो ऽध्यायः ॥ (१०२।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe devapratiṣṭhādinirūpaṇaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.