गरुडपुराणGaruḍapurāṇa

GarPur, 1, 28

28 of 166 · 29 verses

Select a line for its word-by-word analysis.

1.1१.१

सूत उवाच । (१।१)

sūta uvāca

1.2१.२

गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम् । (१।२)

gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm |

1.3१.३

द्वारे धाता विधाता च गङ्गायमुनया सह ॥ (१।३)

dvāre dhātā vidhātā ca gaṅgāyamunayā saha ||

2.1२.१

शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया । (२।१)

śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā |

2.2२.२

पूर्वे भद्रः सुभद्रो द्वौ दक्षे चण्डप्रचण्डकौ ॥ (२।२)

pūrve bhadraḥ subhadro dvau dakṣe caṇḍapracaṇḍakau ||

3.1३.१

पश्चिमे बलप्रबलौ जयश्च विजयो यजेत् । (३।१)

paścime balaprabalau jayaśca vijayo yajet |

3.2३.२

उत्तरे श्रीश्चतुर्द्वारे गणो दुर्गा सरस्वती ॥ (३।२)

uttare śrīścaturdvāre gaṇo durgā sarasvatī ||

4.1४.१

क्षेत्रस्याग्न्यादिकोणेषु दिक्षु नारदपूर्वकम् । (४।१)

kṣetrasyāgnyādikoṇeṣu dikṣu nāradapūrvakam |

4.2४.२

सिद्धो गुरुर्नलकूबरं कोणे भगवतं यजेत् ॥ (४।२)

siddho gururnalakūbaraṃ koṇe bhagavataṃ yajet ||

5.1५.१

पूर्वे विष्णुं विष्णुतपो विष्णुशक्तिं समर्चयेत् । (५।१)

pūrve viṣṇuṃ viṣṇutapo viṣṇuśaktiṃ samarcayet |

5.2५.२

ततो विष्णुपरीवारं मध्ये शक्तिं च कूर्मकम् ॥ (५।२)

tato viṣṇuparīvāraṃ madhye śaktiṃ ca kūrmakam ||

6.1६.१

अनन्तं पृथिवीं धर्मं ज्ञानं वैराग्यमग्नितः । (६।१)

anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ |

6.2६.२

ऐश्वर्यं वायुपूर्वं च प्रकाशात्मानमुत्तरे ॥ (६।२)

aiśvaryaṃ vāyupūrvaṃ ca prakāśātmānamuttare ||

7.1७.१

सत्त्वाय प्रकृतात्मने रजसे मोहरूपिणे । (७।१)

sattvāya prakṛtātmane rajase moharūpiṇe |

7.2७.२

तमसे कन्दपद्माय यजेत् कं काकतत्त्वकम् ॥ (७।२)

tamase kandapadmāya yajet kaṃ kākatattvakam ||

8.1८.१

विद्यातत्त्वं परं तत्त्वं सूर्येन्दुवह्निमण्डलम् । (८।१)

vidyātattvaṃ paraṃ tattvaṃ sūryenduvahnimaṇḍalam |

8.2८.२

विमलाद्या आसनं च प्राच्यां श्रीं ह्रीं प्रपूजयेत् ॥ (८।२)

vimalādyā āsanaṃ ca prācyāṃ śrīṃ hrīṃ prapūjayet ||

9.1९.१

गोपीजनवल्लभाय स्वाहान्तो मनुरुच्यते । (९।१)

gopījanavallabhāya svāhānto manurucyate |

9.2९.२

अङ्गानि यथा चक्रं च सुचक्रं च विचक्रं च तथैच ॥ (९।२)

aṅgāni yathā cakraṃ ca sucakraṃ ca vicakraṃ ca tathaica ||

10.1१०.१

त्रैलोक्यरक्षकं चक्रम् असुरारिसुदर्शनम् । (१०।१)

trailokyarakṣakaṃ cakram asurārisudarśanam |

10.2१०.२

हृदादिपूर्वकोणेषु अस्त्रं शक्तिं च पूर्वतः ॥ (१०।२)

hṛdādipūrvakoṇeṣu astraṃ śaktiṃ ca pūrvataḥ ||

11.1११.१

रुक्मिणी सत्यभामा च सुनन्दा नाग्नजित्यपि । (११।१)

rukmiṇī satyabhāmā ca sunandā nāgnajityapi |

11.2११.२

लक्ष्मणा मित्रविन्दा च जाम्बवत्या सुशीलया ॥ (११।२)

lakṣmaṇā mitravindā ca jāmbavatyā suśīlayā ||

12.1१२.१

शङ्खचक्रगदापद्मं मुसलं शार्ङ्गमर्चयेत् । (१२।१)

śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet |

12.2१२.२

खड्गं पाशाङ्कुशं प्राच्यां श्रीवत्सं कौस्तुभं यजेत् ॥ (१२।२)

khaḍgaṃ pāśāṅkuśaṃ prācyāṃ śrīvatsaṃ kaustubhaṃ yajet ||

13.1१३.१

मुकुटं वलमालां च ऐन्द्राद्यान्ध्वजमुख्यकान् । (१३।१)

mukuṭaṃ valamālāṃ ca aindrādyāndhvajamukhyakān |

13.2१३.२

कुमुदाद्यान्विष्वक्सेनं श्रिया कृष्णं सहार्चयेत् । (१३।२)

kumudādyānviṣvaksenaṃ śriyā kṛṣṇaṃ sahārcayet |

13.3१३.३

जप्याद्ध्यानात्पूजनाच्च सर्वान्कामान् अवाप्नुयात् । (१३।३)

japyāddhyānātpūjanācca sarvānkāmān avāpnuyāt |

13.4१३.४

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगोपालपूजानिरूपणं नामाष्टाविंशो ऽध्यायः ॥ (१३।४)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgopālapūjānirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 28

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit