GarPur, 1, 107
Select a line for its word-by-word analysis.
पराशरो ऽब्रवीद्व्यासं धर्मं वर्णाश्रमादिकम् । (१।२)
parāśaro 'bravīdvyāsaṃ dharmaṃ varṇāśramādikam |
कल्पे कल्पे क्षयोत्पत्त्या क्षीयन्ते नु प्रजादयः ॥ (१।३)
kalpe kalpe kṣayotpattyā kṣīyante nu prajādayaḥ ||
श्रुतिः स्मृतिः सदाचारो यः कश्चिद् वेदकर्तृकः । (२।१)
śrutiḥ smṛtiḥ sadācāro yaḥ kaścid vedakartṛkaḥ |
वेदाः स्मृता ब्राह्मणादौ धर्मा मन्वादिभिः सदा ॥ (२।२)
vedāḥ smṛtā brāhmaṇādau dharmā manvādibhiḥ sadā ||
दानं कलियुगे धर्मः कर्तारं च कलौ त्यजेत् । (३।१)
dānaṃ kaliyuge dharmaḥ kartāraṃ ca kalau tyajet |
आचारात्प्राप्नुयात्सर्वं षट् कर्माणि दिने दिने । (४।१)
ācārātprāpnuyātsarvaṃ ṣaṭ karmāṇi dine dine |
सन्ध्या स्नानं जपो होमो देवातिथ्यादिपूजनम् ॥ (४।२)
sandhyā snānaṃ japo homo devātithyādipūjanam ||
क्षत्त्रियः परसैन्यानि जित्वा पृथ्वीं प्रपालयेत् ॥ (५।२)
kṣattriyaḥ parasainyāni jitvā pṛthvīṃ prapālayet ||
वणिक्कृष्यादि वैश्ये स्याद्द्विजभक्तिश्च शूद्रके । (६।१)
vaṇikkṛṣyādi vaiśye syāddvijabhaktiśca śūdrake |
अभक्ष्यभक्षणाच्चौर्याद् अगम्यागमनात् पतेत् ॥ (६।२)
abhakṣyabhakṣaṇāccauryād agamyāgamanāt patet ||
कृषिं कुर्वन्द्विजः श्रान्तं बलीवर्दं न वाहयेत् । (७।१)
kṛṣiṃ kurvandvijaḥ śrāntaṃ balīvardaṃ na vāhayet |
दिनार्धं स्नानयोगादिकारी विप्रांश्च भोजयेत् ॥ (७।२)
dinārdhaṃ snānayogādikārī viprāṃśca bhojayet ||
निर्वपेत्पञ्च यज्ञानि क्रूरे निन्दां च कारयेत् । (८।१)
nirvapetpañca yajñāni krūre nindāṃ ca kārayet |
राज्ञो दत्त्वा तु षड्भागं देवतानां च विंशतिम् । (९।१)
rājño dattvā tu ṣaḍbhāgaṃ devatānāṃ ca viṃśatim |
त्रयस्त्रिंशच्च विप्राणां कृषिकर्ता न लिप्यते ॥ (९।२)
trayastriṃśacca viprāṇāṃ kṛṣikartā na lipyate ||
कर्षकाः क्षत्रविट्छूद्राः खले ऽदत्त्वा तु चौरकः । (१०।१)
karṣakāḥ kṣatraviṭchūdrāḥ khale 'dattvā tu caurakaḥ |
दिनत्रयेण शुध्येत ब्राह्मणः प्रेतसूतके ॥ (१०।२)
dinatrayeṇa śudhyeta brāhmaṇaḥ pretasūtake ||
क्षत्रो दशाहाद्वैश्यास्तु द्वादशाहान्मासि शूद्रकः । (११।१)
kṣatro daśāhādvaiśyāstu dvādaśāhānmāsi śūdrakaḥ |
याति विप्रो दशाहात्तु क्षत्रो द्वादशकाद्दिनात् ॥ (११।२)
yāti vipro daśāhāttu kṣatro dvādaśakāddināt ||
पञ्चदशाहाद्वैश्यस्तु शूद्रो मासेन शुध्यति । (१२।१)
pañcadaśāhādvaiśyastu śūdro māsena śudhyati |
जन्मना च विपत्तौ च भवेत्तेषां च सूतकम् । (१३।१)
janmanā ca vipattau ca bhavetteṣāṃ ca sūtakam |
चतुर्थे दशरात्रं स्यात् षण्निशाः पुंसि पञ्चमे ॥ (१३।२)
caturthe daśarātraṃ syāt ṣaṇniśāḥ puṃsi pañcame ||
षष्ठे चतुरहाच्छुद्धिः सप्तमे च दिनत्रयम् । (१४।१)
ṣaṣṭhe caturahācchuddhiḥ saptame ca dinatrayam |
देशान्तरे मृते बाले सद्यः शुद्धिर्यतो मृते ॥ (१४।२)
deśāntare mṛte bāle sadyaḥ śuddhiryato mṛte ||
अजातदन्ता ये बाला ये च गर्भाद् विनिःसृताः । (१५।१)
ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ |
न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया ॥ (१५।२)
na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā ||
यावन्मासं स्थितो गर्भस्तावद्दिनानि सूतकम् ॥ (१६।२)
yāvanmāsaṃ sthito garbhastāvaddināni sūtakam ||
आ व्रतात्तु त्रिरात्रेण तदूर्ध्वं दशभिर् दिनैः ॥ (१७।२)
ā vratāttu trirātreṇa tadūrdhvaṃ daśabhir dinaiḥ ||
आ चतुर्थाद् भवेत् स्त्रवः पातः पञ्चमषष्ठयोः । (१८।१)
ā caturthād bhavet stravaḥ pātaḥ pañcamaṣaṣṭhayoḥ |
ब्रह्मचर्याद् अग्निहोत्रान्नाशुद्धिः सङ्गवर्जनात् ॥ (१८।२)
brahmacaryād agnihotrānnāśuddhiḥ saṅgavarjanāt ||
शिल्पिनः कारवो वैद्या दासीदासाश्च भृत्यकाः । (१९।१)
śilpinaḥ kāravo vaidyā dāsīdāsāśca bhṛtyakāḥ |
अग्निमाञ्छ्रोत्रियो राजा सद्यः शौचाः प्रकीर्तिताः ॥ (१९।२)
agnimāñchrotriyo rājā sadyaḥ śaucāḥ prakīrtitāḥ ||
दशाहाच्छुध्यते माता स्नानात्सूते पिता शुचिः । (२०।१)
daśāhācchudhyate mātā snānātsūte pitā śuciḥ |
सङ्गात्सूतौ सूतकं स्यादुपस्पृश्य पिता शुचिः ॥ (२०।२)
saṅgātsūtau sūtakaṃ syādupaspṛśya pitā śuciḥ ||
प्रेतशूद्रस्य वहनान् त्रिरात्रमशुचिर् भवेत् ॥ (२३।२)
pretaśūdrasya vahanān trirātramaśucir bhavet ||
आत्मघातिविषोद्बन्धकृमिदष्टे न संस्कृतिः । (२४।१)
ātmaghātiviṣodbandhakṛmidaṣṭe na saṃskṛtiḥ |
गोहतं कृमिदष्टं च स्पृष्ट्वा कृच्छ्रेण शुध्यति ॥ (२४।२)
gohataṃ kṛmidaṣṭaṃ ca spṛṣṭvā kṛcchreṇa śudhyati ||
अदुष्टापतितं भार्या यौवने या परित्यजेत् । (२५।१)
aduṣṭāpatitaṃ bhāryā yauvane yā parityajet |
सप्तजन्म भवेत्स्त्रीत्वं वैधव्यं च पुनः पुनः ॥ (२५।२)
saptajanma bhavetstrītvaṃ vaidhavyaṃ ca punaḥ punaḥ ||
बालहत्या त्वगमनाद् ऋतौ च स्त्री तु सूकरि । (२६।१)
bālahatyā tvagamanād ṛtau ca strī tu sūkari |
अगम्या व्रतकारिण्यो भ्रष्टपानोदकक्रियाः ॥ (२६।२)
agamyā vratakāriṇyo bhraṣṭapānodakakriyāḥ ||
औरसः क्षेत्रजः पुत्रः पितृजौ पिण्डदौ पितुः । (२७।१)
aurasaḥ kṣetrajaḥ putraḥ pitṛjau piṇḍadau pituḥ |
परिवित्तेस्तु कृच्छ्रं स्यात्कन्यायाः कृच्छ्रमेव च ॥ (२७।२)
parivittestu kṛcchraṃ syātkanyāyāḥ kṛcchrameva ca ||
अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणं चरेत् । (२८।१)
atikṛcchraṃ careddātā hotā cāndrāyaṇaṃ caret |
नष्टे मृते प्रव्रजिते क्लीबे वा पतिते पतौ ॥ (२९।२)
naṣṭe mṛte pravrajite klībe vā patite patau ||
भर्त्रा सहमृता नारी रोमाब्दानि वसेद्दिवि ॥ (३०।२)
bhartrā sahamṛtā nārī romābdāni vaseddivi ||
श्वादिदष्टस्तु गायत्त्र्या जपाच्छुद्धो भवेन्नरः । (३१।१)
śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ |
दाह्यो लोकाग्निना विप्रश्चाण्डालाद्यैर्हतो ऽग्निमान् ॥ (३१।२)
dāhyo lokāgninā vipraścāṇḍālādyairhato 'gnimān ||
क्षीरैः प्रक्षाल्य तस्यास्थि स्वाग्निना मन्त्रतो दहेत् । (३२।१)
kṣīraiḥ prakṣālya tasyāsthi svāgninā mantrato dahet |
प्रवासे तु मृते भूयः कृत्वा कुशमयं दहेत् ॥ (३२।२)
pravāse tu mṛte bhūyaḥ kṛtvā kuśamayaṃ dahet ||
कृष्णाजिने समास्तीर्य षट् शतानि पलाशजान् । (३३।१)
kṛṣṇājine samāstīrya ṣaṭ śatāni palāśajān |
शमीं शिश्रे विनिःक्षिप्य अरणिं वृषणे क्षिपेत् ॥ (३३।२)
śamīṃ śiśre viniḥkṣipya araṇiṃ vṛṣaṇe kṣipet ||
कण्डं दक्षिणहस्ते तु वामहस्ते तथोपभृत् । (३४।१)
kaṇḍaṃ dakṣiṇahaste tu vāmahaste tathopabhṛt |
पार्श्वे तूलूखलं दद्यात्पृष्ठे तु मुसलं ददेत् ॥ (३४।२)
pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet ||
उरे निःक्षिप्य दृषदं तण्डुलाज्यतिलान्मुखे । (३५।१)
ure niḥkṣipya dṛṣadaṃ taṇḍulājyatilānmukhe |
श्रोत्रे च प्रोक्षणीं दद्याद् आज्यस्थालीं च चक्षुषोः ॥ (३५।२)
śrotre ca prokṣaṇīṃ dadyād ājyasthālīṃ ca cakṣuṣoḥ ||
कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलान् क्षिपेत् । (३६।१)
karṇe netre mukhe ghrāṇe hiraṇyaśakalān kṣipet |
असौ स्वर्गाय लोकाय स्वाहेत्याज्याहुतिः सकृत् । (३७।१)
asau svargāya lokāya svāhetyājyāhutiḥ sakṛt |
हंससारसक्रौञ्चानां चक्रवाकं च कुक्कुटम् ॥ (३७।२)
haṃsasārasakrauñcānāṃ cakravākaṃ ca kukkuṭam ||
सर्वांश्चतुष्पदान्हत्वा अहोरात्रोषितो जपेत् । (३९।१)
sarvāṃścatuṣpadānhatvā ahorātroṣito japet |
शूद्रं हत्वा चरेत्कृच्छ्रमतिकृच्छ्रं तु वैश्यहा । (३९।२)
śūdraṃ hatvā caretkṛcchramatikṛcchraṃ tu vaiśyahā |
क्षत्रं चान्द्रायणं विप्रं द्वाविंशात्रिंशम् आहरेत् ॥ (३९।३)
kṣatraṃ cāndrāyaṇaṃ vipraṃ dvāviṃśātriṃśam āharet ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पराशरोक्तधर्मनिरूपणं नाम सप्तोत्तरशततमो ऽध्यायः ॥ (४०।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe parāśaroktadharmanirūpaṇaṃ nāma saptottaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.