गरुडपुराणGaruḍapurāṇa

GarPur, 1, 124

122 of 166 · 48 verses

Select a line for its word-by-word analysis.

1.1१.१

ब्रह्मोवाच । (१।१)

brahmovāca |

1.2१.२

शिवरात्रिव्रतं वक्ष्ये कथां वै सर्वकामदाम् । (१।२)

śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām |

1.3१.३

यथा च गौरी भूतेशं पृच्छति स्म परं व्रतम् ॥ (१।३)

yathā ca gaurī bhūteśaṃ pṛcchati sma paraṃ vratam ||

2.1२.१

ईश्वर उवाच । (२।१)

īśvara uvāca

2.2२.२

माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी । (२।२)

māghaphālgunayormadhye kṛṣṇā yā tu caturdaśī |

2.3२.३

तस्यां जागरणाद्रुद्रः पूजितो भुक्तिमुक्तिदः ॥ (२।३)

tasyāṃ jāgaraṇādrudraḥ pūjito bhuktimuktidaḥ ||

3.1३.१

कामयुक्तो हरः पूज्यो द्वादश्यामि केशवः । (३।१)

kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ |

3.2३.२

उपोषितैः पूजितः सन्नरकात् तरयेत् तथा ॥ (३।२)

upoṣitaiḥ pūjitaḥ sannarakāt tarayet tathā ||

4.1४.१

निषादश् चर्बुदे राजा पापी सुन्दरसेनकः । (४।१)

niṣādaś carbude rājā pāpī sundarasenakaḥ |

4.2४.२

स कुक्कुरैः समायुक्तो मृगान्हन्तुं वनं गतः ॥ (४।२)

sa kukkuraiḥ samāyukto mṛgānhantuṃ vanaṃ gataḥ ||

5.1५.१

मृगादिकम् असंप्राप्य क्षुत्पिपासार्दितो गिरौ । (५।१)

mṛgādikam asaṃprāpya kṣutpipāsārdito girau |

5.2५.२

रात्रौ तडागतीरेषु निकुञ्जे जाग्रदास्थितः ॥ (५।२)

rātrau taḍāgatīreṣu nikuñje jāgradāsthitaḥ ||

6.1६.१

तत्रास्ति लिङ्गं स्वं रक्षञ्छरीरं चाक्षिपत्ततः । (६।१)

tatrāsti liṅgaṃ svaṃ rakṣañcharīraṃ cākṣipattataḥ |

6.2६.२

पर्णानि चापतन्मूर्ध्नि लिङ्गस्यैव न जानतः ॥ (६।२)

parṇāni cāpatanmūrdhni liṅgasyaiva na jānataḥ ||

7.1७.१

तेन धूलिनिरोधाय क्षिप्तं नीरं च लिङ्गके । (७।१)

tena dhūlinirodhāya kṣiptaṃ nīraṃ ca liṅgake |

7.2७.२

शरः प्रमादेनैकस्तु प्रच्युतः करपल्लवात् ॥ (७।२)

śaraḥ pramādenaikastu pracyutaḥ karapallavāt ||

8.1८.१

जानुभ्यामवनीं गत्वा लिङ्गं स्पृष्ट्वा गृहीतवान् । (८।१)

jānubhyāmavanīṃ gatvā liṅgaṃ spṛṣṭvā gṛhītavān |

8.2८.२

एवं स्नानं स्पर्शनं च पूजनं जागरो ऽभवत् ॥ (८।२)

evaṃ snānaṃ sparśanaṃ ca pūjanaṃ jāgaro 'bhavat ||

9.1९.१

प्रातर्गृहागतो भार्यादत्तान्नं भुक्तवान्स च । (९।१)

prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca |

9.2९.२

काले मृतो यमभटैः पाशैर्बद्ध्वा तु नीयते ॥ (९।२)

kāle mṛto yamabhaṭaiḥ pāśairbaddhvā tu nīyate ||

10.1१०.१

तदा मम गणैर्युद्धे जित्वा मुक्तीकृतः स च । (१०।१)

tadā mama gaṇairyuddhe jitvā muktīkṛtaḥ sa ca |

10.2१०.२

कुक्कुरेण सहैवाभूद्गणो मत्पार्श्वगो ऽमलः ॥ (१०।२)

kukkureṇa sahaivābhūdgaṇo matpārśvago 'malaḥ ||

11.1११.१

एवमज्ञानतः पुण्यं ज्ञानात् पुण्यम् अथाक्षयम् । (११।१)

evamajñānataḥ puṇyaṃ jñānāt puṇyam athākṣayam |

11.2११.२

त्रयोदश्यां शिवं पूज्य कुर्यात्त नियमं व्रती ॥ (११।२)

trayodaśyāṃ śivaṃ pūjya kuryātta niyamaṃ vratī ||

12.1१२.१

प्रातर्देव चतुर्दश्यां जागरिष्याम्यहं निशि । (१२।१)

prātardeva caturdaśyāṃ jāgariṣyāmyahaṃ niśi |

12.2१२.२

पूजां दानं तपो होमं करिष्याम्यात्मशक्तितः ॥ (१२।२)

pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ ||

13.1१३.१

चतुर्दश्यां निराहारो भूत्वा शम्भो परे ऽहनि । (१३।१)

caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani |

13.2१३.२

भोक्ष्ये ऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥ (१३।२)

bhokṣye 'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara ||

14.1१४.१

पञ्चगव्यामृतैः स्नाप्य तत्काले गुरुं श्रितः । (१४।१)

pañcagavyāmṛtaiḥ snāpya tatkāle guruṃ śritaḥ |

14.2१४.२

ॐ नमो नमः शिवाय गन्धाद्यः पूजयेद्धरम् ॥ (१४।२)

oṃ namo namaḥ śivāya gandhādyaḥ pūjayeddharam ||

15.1१५.१

तिलतण्डुलव्रीहींश्च जुहुयात्सघृतं चरुम् । (१५।१)

tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum |

15.2१५.२

हुत्वा पूर्णाहुतिं दत्त्वा शृणुयाद्गीतसत्कथाम् ॥ (१५।२)

hutvā pūrṇāhutiṃ dattvā śṛṇuyādgītasatkathām ||

16.1१६.१

अर्धरात्रे त्रियामे च चतुर्थे च पुनयर्जत् । (१६।१)

ardharātre triyāme ca caturthe ca punayarjat |

16.2१६.२

मूलमन्त्रं तथा जप्त्वा प्रभाते तु क्षमापयेत् ॥ (१६।२)

mūlamantraṃ tathā japtvā prabhāte tu kṣamāpayet ||

17.1१७.१

अविघ्नेन व्रतं देव त्वत्प्रसादान् मयार्चितम् । (१७।१)

avighnena vrataṃ deva tvatprasādān mayārcitam |

17.2१७.२

क्षमस्व जगतां नाथ त्रैलोक्याधिपते हर ॥ (१७।२)

kṣamasva jagatāṃ nātha trailokyādhipate hara ||

18.1१८.१

यन्मयाद्य कृतं पुण्यं यद्रुद्रस्य निवेदितम् । (१८।१)

yanmayādya kṛtaṃ puṇyaṃ yadrudrasya niveditam |

18.2१८.२

त्वत्प्रसादान्मया देव व्रतमद्य समापितम् ॥ (१८।२)

tvatprasādānmayā deva vratamadya samāpitam ||

19.1१९.१

प्रसन्नो भव मे श्रीमन् गृहं प्रति च गम्यताम् । (१९।१)

prasanno bhava me śrīman gṛhaṃ prati ca gamyatām |

19.2१९.२

त्वदालोकनमात्रेण पवित्रो ऽस्मि न संशयः ॥ (१९।२)

tvadālokanamātreṇa pavitro 'smi na saṃśayaḥ ||

20.1२०.१

भोजयेद्ध्याननिष्ठांश्च वस्त्रच्छत्रादिकं ददेत् । (२०।१)

bhojayeddhyānaniṣṭhāṃśca vastracchatrādikaṃ dadet |

20.2२०.२

देवादिदेव भूतेश लोकानुग्रहकारक ॥ (२०।२)

devādideva bhūteśa lokānugrahakāraka ||

21.1२१.१

यन्मया श्रद्धया दत्तं प्रीयतां तेन मे प्रभुः । (२१।१)

yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ |

21.2२१.२

इति क्षमाप्य च व्रती कुर्याद्वादशवार्षिकम् ॥ (२१।२)

iti kṣamāpya ca vratī kuryādvādaśavārṣikam ||

22.1२२.१

कीर्तिश्रीपुत्रराज्यादि प्राप्य शैवं पुरं व्रजेत् । (२२।१)

kīrtiśrīputrarājyādi prāpya śaivaṃ puraṃ vrajet |

22.2२२.२

द्वादशेष्वपि मासेषु प्रकुर्यादिह जागरम् ॥ (२२।२)

dvādaśeṣvapi māseṣu prakuryādiha jāgaram ||

23.1२३.१

व्रती द्वादश संभोज्य दीपदः स्वर्गम् आप्नुयात् ॥ (२३।१)

vratī dvādaśa saṃbhojya dīpadaḥ svargam āpnuyāt ||

24.1२४.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवरात्रिव्रतं नाम चतुर्विंशत्युत्तरशततमो ऽध्यायः ॥ (२४।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivarātrivrataṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 124

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit