GarPur, 1, 99
Select a line for its word-by-word analysis.
अथ श्राद्धविधिं वक्ष्ये सर्वपापप्रणाशनम् । (१।२)
atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam |
द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसंक्रमः । (२।१)
dravyaṃ brāhmaṇasampattirviṣuvatsūryasaṃkramaḥ |
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ॥ (२।२)
vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ ||
श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्तिताः । (३।१)
śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrtitāḥ |
वेदार्थविज् ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णिकः । (४।१)
vedārthavij jyeṣṭhasāmā trimadhustrisuparṇikaḥ |
कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निब्रह्मचारिणः ॥ (५।२)
karmaniṣṭhāstaponiṣṭhāḥ pañcāgnibrahmacāriṇaḥ ||
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धदेवताः । (६।१)
pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ |
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ॥ (६।२)
rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā ||
अवैष्णवाश्च ते सर्वे न श्राद्धार्हाः कदाचन ॥ (७।२)
avaiṣṇavāśca te sarve na śrāddhārhāḥ kadācana ||
निमन्त्रयेच्च पूर्वेद्युर्द्विजैर्भाव्यं च संयतैः । (८।१)
nimantrayecca pūrvedyurdvijairbhāvyaṃ ca saṃyataiḥ |
आजान्तांश्चैव पूर्वाह्ने ह्यासनेषूपवेशयेत् ॥ (८।२)
ājāntāṃścaiva pūrvāhne hyāsaneṣūpaveśayet ||
युग्मान्देवे तथा पित्र्ये स्वप्रदेशेषु शक्तितः । (९।१)
yugmāndeve tathā pitrye svapradeśeṣu śaktitaḥ |
द्वौ दैव प्रागुदक् पित्र्ये त्रीण्येकं चोभयोः पृथक् ॥ (९।२)
dvau daiva prāgudak pitrye trīṇyekaṃ cobhayoḥ pṛthak ||
मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् । (१०।१)
mātāmahānāmapyevaṃ tantraṃ vā vaiśvadevikam |
हस्तप्रक्षालनं दत्त्वा विष्टरार्थे कुशानपि ॥ (१०।२)
hastaprakṣālanaṃ dattvā viṣṭarārthe kuśānapi ||
शं नो देव्या पयः क्षिप्त्वा यवो ऽसीति यवांस्तथा । (१२।१)
śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃstathā |
या दिव्या इति मन्त्रेण हस्तेष्वेव विनिष्क्षिपेत् ॥ (१२।२)
yā divyā iti mantreṇa hasteṣveva viniṣkṣipet ||
द्विगुणांस्तु कुशान्दत्त्वा उशन्तस्त्वेत्यृचा पितॄन् । (१४।१)
dviguṇāṃstu kuśāndattvā uśantastvetyṛcā pitṝn |
आवाह्य तदनुज्ञातो जपेद् आयन् तु नस् ततः ॥ (१४।२)
āvāhya tadanujñāto japed āyan tu nas tataḥ ||
यवार्थस्तु तिलैः कार्यः कुर्यादर्घ्यादि पूर्ववत् । (१५।१)
yavārthastu tilaiḥ kāryaḥ kuryādarghyādi pūrvavat |
दत्त्वार्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः ॥ (१५।२)
dattvārghyaṃ saṃsravāṃsteṣāṃ pātre kṛtvā vidhānataḥ ||
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः । (१६।१)
pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ |
अग्नौ करिष्य आदाय पृच्छत्यन्नं घृप्लुतम् ॥ (१६।२)
agnau kariṣya ādāya pṛcchatyannaṃ ghṛplutam ||
कुरुष्वेति तथोक्तो ऽसौ हुत्वाग्नौ पितृयज्ञवत् । (१७।१)
kuruṣveti tathokto 'sau hutvāgnau pitṛyajñavat |
दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् ॥ (१८।२)
dattvānnaṃ pṛthivīpātramiti pātrābhimantraṇam ||
कृत्वेदं विष्णुर् इत्येवं द्विजाङ्गुष्ठं निवेशयेत् । (१९।१)
kṛtvedaṃ viṣṇur ityevaṃ dvijāṅguṣṭhaṃ niveśayet |
सव्याहृतिं च गायत्त्रीं मधुवातेत्य् ऋचस्तथा ॥ (१९।२)
savyāhṛtiṃ ca gāyattrīṃ madhuvātety ṛcastathā ||
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्ते ऽपि वाग्यताः । (२०।१)
japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ |
अन्नमिष्टं हविष्यं च दद्याद् अक्रोधनोत्वरः ॥ (२०।२)
annamiṣṭaṃ haviṣyaṃ ca dadyād akrodhanotvaraḥ ||
आ तृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा । (२१।१)
ā tṛptestu pavitrāṇi japtvā pūrvajapaṃ tathā |
अन्नमादाय तृप्ताः स्थः शेषं चैवानुमन्त्र्य च ॥ (२१।२)
annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānumantrya ca ||
तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् । (२२।१)
tadannaṃ vikiredbhūmau dadyāccāpaḥ sakṛtsakṛt |
उच्छिष्टसन्निधौ पिण्डान्प्रदद्यात् पितृयज्ञवत् । (२३।१)
ucchiṣṭasannidhau piṇḍānpradadyāt pitṛyajñavat |
स्वस्ति वाच्यं ततो दद्यादक्षय्योदकमेव च । (२४।१)
svasti vācyaṃ tato dadyādakṣayyodakameva ca |
दत्त्वा च दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ॥ (२४।२)
dattvā ca dakṣiṇāṃ śaktyā svadhākāramudāharet ||
वाच्यतामिन्यनुज्ञातः पितृभ्यश्च स्वधोच्यताम् । (२५।१)
vācyatāminyanujñātaḥ pitṛbhyaśca svadhocyatām |
विप्रैरस्तु स्वधेत्युक्तो भूमौ सिञ्चेत्ततो जलम् ॥ (२५।२)
viprairastu svadhetyukto bhūmau siñcettato jalam ||
प्रीयन्तामिति चाहैवं विश्वेदेव्यं जलं ददत् । (२६।१)
prīyantāmiti cāhaivaṃ viśvedevyaṃ jalaṃ dadat |
दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥ (२६।२)
dātāro no 'bhivardhantāṃ vedāḥ santatireva ca ||
श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्विति । (२७।१)
śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti |
इत्य् उत्क्रोत्क्रा प्रिया वाचः प्रणिपत्य विसर्जयेत् ॥ (२७।२)
ity utkrotkrā priyā vācaḥ praṇipatya visarjayet ||
वाजे वाजे इति प्रीत्या पितृपूर्वं विसर्जनम् । (२८।१)
vāje vāje iti prītyā pitṛpūrvaṃ visarjanam |
यस्मिंस्ते संस्रवाः पूर्वमर्घ्यपात्रे निपातिताः ॥ (२८।२)
yasmiṃste saṃsravāḥ pūrvamarghyapātre nipātitāḥ ||
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् । (२९।१)
pitṛpātraṃ taduttānaṃ kṛtvā viprānvisarjayet |
ब्रह्मचारी भवेत्तां तु रजनीं भार्यया सह । (३०।१)
brahmacārī bhavettāṃ tu rajanīṃ bhāryayā saha |
एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखानपि ॥ (३०।२)
evaṃ pradakṣiṇaṃ kṛtvā vṛddhau nāndīmukhānapi ||
यजेत् तदधि कर्कन्धूमिश्राः पिण्डा यैवः श्रिताः । (३१।१)
yajet tadadhi karkandhūmiśrāḥ piṇḍā yaivaḥ śritāḥ |
उपतिष्ठतामित्यक्षय्यस्थाने विप्रान्विसर्जयेत् ॥ (३२।२)
upatiṣṭhatāmityakṣayyasthāne viprānvisarjayet ||
अभिरण्यतां प्रबूयाद् ब्रुयुस्तेभिरताः स्म ह । (३३।१)
abhiraṇyatāṃ prabūyād bruyustebhiratāḥ sma ha |
गन्धो दकतिलैर् मिश्रं कुर्यात्पात्रचतुष्टयम् ॥ (३३।२)
gandho dakatilair miśraṃ kuryātpātracatuṣṭayam ||
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् । (३४।१)
arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet |
येसमाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ॥ (३४।२)
yesamānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret ||
अर्वाक् सपिण्डीकरणं यस्य संवत्सराद्भवेत् ॥ (३५।२)
arvāk sapiṇḍīkaraṇaṃ yasya saṃvatsarādbhavet ||
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः । (३६।१)
tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ |
पिण्डांश्च गोज विप्रेभ्यो दद्यादग्नौ जले ऽपि वा ॥ (३६।२)
piṇḍāṃśca goja viprebhyo dadyādagnau jale 'pi vā ||
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । (३७।१)
haviṣyānnena vai māsaṃ pāyasena tu vatsaram |
मासवृद्ध्यापि तुष्यन्ति दत्तैरिह पितामहाः ॥ (३८।२)
māsavṛddhyāpi tuṣyanti dattairiha pitāmahāḥ ||
दद्याद्वर्षात्रयोदश्यां मघासु च न संशयः । (३९।१)
dadyādvarṣātrayodaśyāṃ maghāsu ca na saṃśayaḥ |
प्रतिपत्प्रभृतिष्वेवं कन्यादीञ्छ्राद्धदो लभेत् ॥ (३९।२)
pratipatprabhṛtiṣvevaṃ kanyādīñchrāddhado labhet ||
शस्त्रेण निहतानां तु चतुर्दश्यां प्रदीयते । (४०।१)
śastreṇa nihatānāṃ tu caturdaśyāṃ pradīyate |
स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा ॥ (४०।२)
svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā ||
पुत्रश्रैष्ठ्यं स सौभाग्यं समृद्धिं मुख्यतां शुभम् । (४१।१)
putraśraiṣṭhyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham |
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतींस्तथा ॥ (४१।२)
pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā ||
धनं विद्यां च वाक्सिद्धिं कुप्यं गोऽजाविकं तथा ॥ (४२।२)
dhanaṃ vidyāṃ ca vāksiddhiṃ kupyaṃ go'jāvikaṃ tathā ||
अश्वानायुश्च विधिवद्यः श्राद्धं सम्प्रयच्छति । (४३।१)
aśvānāyuśca vidhivadyaḥ śrāddhaṃ samprayacchati |
कृत्तिकादिभरण्यन्तं स कामान्प्राप्नुयादिमान् ॥ (४३।२)
kṛttikādibharaṇyantaṃ sa kāmānprāpnuyādimān ||
वस्त्राद्याः प्रीणयन्त्येव नरं श्राद्धकृतं द्विजाः । (४४।१)
vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ |
आयुः प्रजा धनं विद्यां स्वर्गमोक्षसुखानि च ॥ (४४।२)
āyuḥ prajā dhanaṃ vidyāṃ svargamokṣasukhāni ca ||
प्रयच्छति यथा राज्यं प्रीत्या नित्यं पितामहः ॥ (४५।१)
prayacchati yathā rājyaṃ prītyā nityaṃ pitāmahaḥ ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धविधिनिरूपणं नाम नवनवतितमो ऽध्यायः ॥ (४६।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhavidhinirūpaṇaṃ nāma navanavatitamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.