GarPur, 1, 161
Select a line for its word-by-word analysis.
रोगाः सर्वे ऽपि मन्दाग्नौ सुतरामुदराणि तु ॥ (१।३)
rogāḥ sarve 'pi mandāgnau sutarāmudarāṇi tu ||
ऊर्ध्वाधो वायवो रुद्ध्वा व्याकुलाविप्रवाहिणी ॥ (२।२)
ūrdhvādho vāyavo ruddhvā vyākulāvipravāhiṇī ||
प्राणानपानान्संदूष्य कुर्युस्तान्मांससन्धिगान् । (३।१)
prāṇānapānānsaṃdūṣya kuryustānmāṃsasandhigān |
पृथग्दोषैः समस्तैश्च प्लीहवङ्क्षक्षतोदकैः । (४।१)
pṛthagdoṣaiḥ samastaiśca plīhavaṅkṣakṣatodakaiḥ |
तेनार्ताः शुष्कताल्वोष्ठाः सर्वपादकरोदराः ॥ (४।२)
tenārtāḥ śuṣkatālvoṣṭhāḥ sarvapādakarodarāḥ ||
पुरुषाः स्युः प्रेतरूपा भाविनस्तस्य लक्षणम् ॥ (५।२)
puruṣāḥ syuḥ pretarūpā bhāvinastasya lakṣaṇam ||
क्षुन्नाशो ऽरुचिवत्सर्वं सविदाहं च पच्यते । (६।१)
kṣunnāśo 'rucivatsarvaṃ savidāhaṃ ca pacyate |
जीर्णान्नं यो न जानाति सो ऽपथ्यं सेवते नरः ॥ (६।२)
jīrṇānnaṃ yo na jānāti so 'pathyaṃ sevate naraḥ ||
क्षीयते बलमङ्गस्य श्वसित्यल्पो ऽविचेष्टितः । (७।१)
kṣīyate balamaṅgasya śvasityalpo 'viceṣṭitaḥ |
सर्वत्र तोये मरणं शोचनं तत्र निष्फलम् । (१०।१)
sarvatra toye maraṇaṃ śocanaṃ tatra niṣphalam |
नाभिमन्त्रश्च विष्टभ्य वेगं कृत्वा प्रणश्यति । (११।१)
nābhimantraśca viṣṭabhya vegaṃ kṛtvā praṇaśyati |
सशब्दो निःसरेद् वायुर् वहते मूत्रमल्पकम् । (१२।१)
saśabdo niḥsared vāyur vahate mūtramalpakam |
नातिमात्रं भवेल्लौल्यं नरस्य विरसं मुखम् ॥ (१२।२)
nātimātraṃ bhavellaulyaṃ narasya virasaṃ mukham ||
वायुश्चात्र सरुक्शब्दं विधत्ते सर्वथा गतिम् । (१६।१)
vāyuścātra sarukśabdaṃ vidhatte sarvathā gatim |
पित्तोदरे ज्वरो मूर्छा दाहित्वं कटुकास्यता ॥ (१६।२)
pittodare jvaro mūrchā dāhitvaṃ kaṭukāsyatā ||
भ्रमो ऽतिसारः पीतत्वं त्वगादावुदरं हरित् । (१७।१)
bhramo 'tisāraḥ pītatvaṃ tvagādāvudaraṃ harit |
पीतताम्रशिरादित्वं सस्वेदं सोष्म दह्यते ॥ (१७।२)
pītatāmraśirāditvaṃ sasvedaṃ soṣma dahyate ||
धूमायते मृदुस्पर्शं क्षैप्रपाकं प्रदूयते । (१८।१)
dhūmāyate mṛdusparśaṃ kṣaiprapākaṃ pradūyate |
निद्रा क्लेशो ऽरुचिः श्वासः काशः शुक्लत्वगादिता । (१९।१)
nidrā kleśo 'ruciḥ śvāsaḥ kāśaḥ śuklatvagāditā |
उदरं तिमिरं स्निग्धं शुक्लकृष्णशिरावृतम् ॥ (१९।२)
udaraṃ timiraṃ snigdhaṃ śuklakṛṣṇaśirāvṛtam ||
नीरातिवृद्धौ कठिनं शीतस्पर्शं गुरु स्थिरम् । (२०।१)
nīrātivṛddhau kaṭhinaṃ śītasparśaṃ guru sthiram |
त्रिदोषकोपने तैस्तैस् त्रिदोषजीनैतर् मलैः ॥ (२०।२)
tridoṣakopane taistais tridoṣajīnaitar malaiḥ ||
कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्छाभ्रमान्वितम् ॥ (२१।२)
koṣṭhaṃ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam ||
कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम् । (२२।१)
kuryustriliṅgamudaraṃ śīghrapākaṃ sudāruṇam |
अत्यशनाच्च संक्षोभाद् यानपानादिचेष्टितैः । (२३।१)
atyaśanācca saṃkṣobhād yānapānādiceṣṭitaiḥ |
वामपार्श्वास्थितः प्लीहा त्युतस्थानो विवर्धते । (२४।१)
vāmapārśvāsthitaḥ plīhā tyutasthāno vivardhate |
शोणिताद्वा रसादिभ्यो विवृद्धो जनयेद्व्यथाम् ॥ (२४।२)
śoṇitādvā rasādibhyo vivṛddho janayedvyathām ||
सो ऽष्ठीला चातिकठिनः प्रोन्नतः कूर्मपृष्ठवत् । (२५।१)
so 'ṣṭhīlā cātikaṭhinaḥ pronnataḥ kūrmapṛṣṭhavat |
क्रमेण वर्धमानश्च कुक्षौ व्याततिम् आहरेत् ॥ (२५।२)
krameṇa vardhamānaśca kukṣau vyātatim āharet ||
पाण्डुत्वमूर्छाछर्दित्वग्दाहमोहैश्च संयुतः ॥ (२६।२)
pāṇḍutvamūrchācharditvagdāhamohaiśca saṃyutaḥ ||
प्लीहवद्दक्षिणात्पार्श्वात्कुर्याद्यकृदपि च्युतम् ॥ (२८।२)
plīhavaddakṣiṇātpārśvātkuryādyakṛdapi cyutam ||
दुर्नामभिरुदावर्तैरन्यैर्वा पीडितो भवेत् ॥ (२९।२)
durnāmabhirudāvartairanyairvā pīḍito bhavet ||
वर्चःपित्तकफान्बद्धान्करोति कुपितो ऽनिलः । (३०।१)
varcaḥpittakaphānbaddhānkaroti kupito 'nilaḥ |
काशश्वासोरुसदनं शिरोरुङ् नाभिपार्श्वरुक् । (३१।१)
kāśaśvāsorusadanaṃ śiroruṅ nābhipārśvaruk |
अस्थ्यादिशल्यैर् अन्यैश्च विद्धे चैवोदरे तथा । (३३।१)
asthyādiśalyair anyaiśca viddhe caivodare tathā |
पच्यते यकृतादिश्च तच्छिद्रैश्च सरन्बहिः ॥ (३३।२)
pacyate yakṛtādiśca tacchidraiśca saranbahiḥ ||
स स्याद्विकृतगन्धो ऽपि पिच्छिलः पीतलोहितः ॥ (३४।२)
sa syādvikṛtagandho 'pi picchilaḥ pītalohitaḥ ||
उद्रिक्ते दोषरूपे च व्याप्ते च श्वासतृड्भ्रमैः । (३६।१)
udrikte doṣarūpe ca vyāpte ca śvāsatṛḍbhramaiḥ |
अत्यम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य च ॥ (३७।२)
atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ca ||
रुद्धः स्वमार्गादनिलः कफश्च जलमूर्छितः । (३८।१)
ruddhaḥ svamārgādanilaḥ kaphaśca jalamūrchitaḥ |
वर्धते तु तदेवाम्बु तन्मात्राद् बिन्दुराशितः ॥ (३८।२)
vardhate tu tadevāmbu tanmātrād bindurāśitaḥ ||
बकोदरं स्थिरं स्निग्धं नाडीमावृत्य जायते ॥ (४०।२)
bakodaraṃ sthiraṃ snigdhaṃ nāḍīmāvṛtya jāyate ||
उपेक्षायां च सर्वेषां स्वस्थानां परिचालिताः । (४१।१)
upekṣāyāṃ ca sarveṣāṃ svasthānāṃ paricālitāḥ |
पाका द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि ॥ (४१।२)
pākā dravā dravīkuryuḥ sandhisrotomukhānyapi ||
स्वेदे चैव तु संरुद्धे मूर्छिताश्चान्तरस्थिताः । (४२।१)
svede caiva tu saṃruddhe mūrchitāścāntarasthitāḥ |
गुरूदरं स्थितं वृत्तम् आहतं च न शब्दकृत् । (४३।१)
gurūdaraṃ sthitaṃ vṛttam āhataṃ ca na śabdakṛt |
हीनबलं तथा घोरं नाड्यां स्पृष्टं च सपति ॥ (४३।२)
hīnabalaṃ tathā ghoraṃ nāḍyāṃ spṛṣṭaṃ ca sapati ||
पक्षाच्च जातसलिलं विष्टम्भोपद्रवान्वितम् । (४५।१)
pakṣācca jātasalilaṃ viṣṭambhopadravānvitam |
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम् ॥ (४५।२)
janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकषष्ट्यधिकशततमो ऽध्यायः ॥ (४६।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekaṣaṣṭyadhikaśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.