गरुडपुराणGaruḍapurāṇa

GarPur, 1, 169

166 of 166 · 61 verses

Select a line for its word-by-word analysis.

1.1१.१

धन्वन्तरिरुवाच । (१।१)

dhanvantariruvāca |

1.2१.२

हिताहितविवेकाय अनुपानविधिं ब्रुवे । (१।२)

hitāhitavivekāya anupānavidhiṃ bruve |

1.3१.३

रक्तशालि त्रिदोषघ्नं तृष्णामेदोनिवारकम् ॥ (१।३)

raktaśāli tridoṣaghnaṃ tṛṣṇāmedonivārakam ||

2.1२.१

महाशालि परं वृष्यं कलमः श्लेष्मपित्तहा । (२।१)

mahāśāli paraṃ vṛṣyaṃ kalamaḥ śleṣmapittahā |

2.2२.२

शीतो गुरुस्त्रिदोषघ्नः प्रायशो गौरषष्टिकः ॥ (२।२)

śīto gurustridoṣaghnaḥ prāyaśo gauraṣaṣṭikaḥ ||

3.1३.१

श्यामाकः शोषणो रूक्षो वातलः श्लेष्मपित्तहा । (३।१)

śyāmākaḥ śoṣaṇo rūkṣo vātalaḥ śleṣmapittahā |

3.2३.२

तद्वत् प्रियङ्गुनीवारकोरदूषाः प्रकीर्तिताः ॥ (३।२)

tadvat priyaṅgunīvārakoradūṣāḥ prakīrtitāḥ ||

4.1४.१

बहुवारः सकृच्छीतः श्लेष्मपित्तहरो यवः । (४।१)

bahuvāraḥ sakṛcchītaḥ śleṣmapittaharo yavaḥ |

4.2४.२

वृष्यः शीतो गुरुः स्वादुर्गोधूमो वातनाशनः ॥ (४।२)

vṛṣyaḥ śīto guruḥ svādurgodhūmo vātanāśanaḥ ||

5.1५.१

कफपित्तास्रजिन् मुद्गः कषायो मधुरो लघुः । (५।१)

kaphapittāsrajin mudgaḥ kaṣāyo madhuro laghuḥ |

5.2५.२

माषो बहुबलो वृष्यः पित्तश्लेष्महरो गुरुः ॥ (५।२)

māṣo bahubalo vṛṣyaḥ pittaśleṣmaharo guruḥ ||

6.1६.१

अवृष्यः श्लेष्मपित्तघ्नो राजमाषो ऽनिलार्तिनुत् । (६।१)

avṛṣyaḥ śleṣmapittaghno rājamāṣo 'nilārtinut |

6.2६.२

कुलत्थः श्वासहिक्काहृत् कफगुल्मानिलापहः ॥ (६।२)

kulatthaḥ śvāsahikkāhṛt kaphagulmānilāpahaḥ ||

7.1७.१

रक्तपित्तज्वरोन्माथी शीतो ग्राही मकुष्ठकः । (७।१)

raktapittajvaronmāthī śīto grāhī makuṣṭhakaḥ |

7.2७.२

पुंस्त्वासृक्कफपित्तघ्नश्चणको वातलः स्मृतः ॥ (७।२)

puṃstvāsṛkkaphapittaghnaścaṇako vātalaḥ smṛtaḥ ||

8.1८.१

मसूरो मधुरः शीव संग्रही कफपित्तहा । (८।१)

masūro madhuraḥ śīva saṃgrahī kaphapittahā |

8.2८.२

तद्वत्सर्वगुणाढ्यश्च कलायश्चातिवातलः ॥ (८।२)

tadvatsarvaguṇāḍhyaśca kalāyaścātivātalaḥ ||

9.1९.१

आग्की कफपित्तघ्नी शुक्रला च तथा स्मृता । (९।१)

āgkī kaphapittaghnī śukralā ca tathā smṛtā |

9.2९.२

अतसी पित्तला ज्ञेया सिद्धार्थः कफवातजित् ॥ (९।२)

atasī pittalā jñeyā siddhārthaḥ kaphavātajit ||

10.1१०.१

सक्षारमधुरस्निग्धो बलोष्णपित्तकृत्तिलः । (१०।१)

sakṣāramadhurasnigdho baloṣṇapittakṛttilaḥ |

10.2१०.२

बलघ्ना रूक्षलाः शीता विविधाः सस्यजातयः ॥ (१०।२)

balaghnā rūkṣalāḥ śītā vividhāḥ sasyajātayaḥ ||

11.1११.१

चित्रकेङ्गुदिनालीकाः पिप्पलीमधुशिग्रवः । (११।१)

citrakeṅgudinālīkāḥ pippalīmadhuśigravaḥ |

11.2११.२

चव्याचरणनिर्गुण्डीतर्कारीकाशमर्दकाः ॥ (११।२)

cavyācaraṇanirguṇḍītarkārīkāśamardakāḥ ||

12.1१२.१

सबिल्वाः कफपित्तघ्नाः क्रिमिघ्ना लघुदीपकाः । (१२।१)

sabilvāḥ kaphapittaghnāḥ krimighnā laghudīpakāḥ |

12.2१२.२

वर्षाभूमार्कवौ वातकफघ्नौ दोषनाशनौ ॥ (१२।२)

varṣābhūmārkavau vātakaphaghnau doṣanāśanau ||

13.1१३.१

तिक्तरसः स्यादेरण्डः काकमाची त्रिदोषहृत् । (१३।१)

tiktarasaḥ syāderaṇḍaḥ kākamācī tridoṣahṛt |

13.2१३.२

चाङ्गेरी कफवातघ्नी सर्षपः सर्वदोषदम् ॥ (१३।२)

cāṅgerī kaphavātaghnī sarṣapaḥ sarvadoṣadam ||

14.1१४.१

तद्वदेव च कौसुम्भं राजिका वातपित्तला । (१४।१)

tadvadeva ca kausumbhaṃ rājikā vātapittalā |

14.2१४.२

नाडीचः कफपित्तघ्नः चुञ्चुर् मधुरशीतलः ॥ (१४।२)

nāḍīcaḥ kaphapittaghnaḥ cuñcur madhuraśītalaḥ ||

15.1१५.१

दोषघ्नं पद्मपत्रं च त्रिपुटं वातकृत्परम् । (१५।१)

doṣaghnaṃ padmapatraṃ ca tripuṭaṃ vātakṛtparam |

15.2१५.२

सक्षारः सर्वदोषघ्नो वास्तुको रोचनः परः ॥ (१५।२)

sakṣāraḥ sarvadoṣaghno vāstuko rocanaḥ paraḥ ||

16.1१६.१

तण्डुलीयो विषहरः पालङ्क्याश्च तथापरे । (१६।१)

taṇḍulīyo viṣaharaḥ pālaṅkyāśca tathāpare |

16.2१६.२

मूलकं दोषकृच्छामं स्विन्नं वातकफापदम् ॥ (१६।२)

mūlakaṃ doṣakṛcchāmaṃ svinnaṃ vātakaphāpadam ||

17.1१७.१

सर्वदोषहरं ह्यद्यं कण्ठ्यं तत्पक्वमिष्यते । (१७।१)

sarvadoṣaharaṃ hyadyaṃ kaṇṭhyaṃ tatpakvamiṣyate |

17.2१७.२

कर्कोटकं सवार्ताकं पदोलं कारवेल्लकम् ॥ (१७।२)

karkoṭakaṃ savārtākaṃ padolaṃ kāravellakam ||

18.1१८.१

कुष्ठमेहज्वरश्वासकासपित्तकफापहम् । (१८।१)

kuṣṭhamehajvaraśvāsakāsapittakaphāpaham |

18.2१८.२

सर्वदोषहरं हृद्यं कूष्माण्डं बस्तिशोधनम् ॥ (१८।२)

sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam ||

19.1१९.१

कलिङ्गालाबुनी पित्तनाशिनी वातकारिणी । (१९।१)

kaliṅgālābunī pittanāśinī vātakāriṇī |

19.2१९.२

त्रपुषोर्वारुके वातश्लेष्मले पित्तवारणे ॥ (१९।२)

trapuṣorvāruke vātaśleṣmale pittavāraṇe ||

20.1२०.१

वृक्षाम्लं कफवातघ्नं जम्बीरं कफवातनुत् । (२०।१)

vṛkṣāmlaṃ kaphavātaghnaṃ jambīraṃ kaphavātanut |

20.2२०.२

वातघ्नं दाडिमं ग्राहि नागरङ्गफलं गुरु ॥ (२०।२)

vātaghnaṃ dāḍimaṃ grāhi nāgaraṅgaphalaṃ guru ||

21.1२१.१

केशरं मातुलुङ्गं च दीपनं कफवातनुत् । (२१।१)

keśaraṃ mātuluṅgaṃ ca dīpanaṃ kaphavātanut |

21.2२१.२

वातपित्तहरो माषस्त्वक्स्निग्धोष्णानिलापहः ॥ (२१।२)

vātapittaharo māṣastvaksnigdhoṣṇānilāpahaḥ ||

22.1२२.१

सरमामलकं वृष्यं मधुरं हृद्यमम्लकृत् । (२२।१)

saramāmalakaṃ vṛṣyaṃ madhuraṃ hṛdyamamlakṛt |

22.2२२.२

भुक्तप्ररोचका पुण्या हरीतक्यमृतोपमा ॥ (२२।२)

bhuktaprarocakā puṇyā harītakyamṛtopamā ||

23.1२३.१

स्रंसनी कफवातघ्नी ह्यक्षस्तद्वत्त्रिदोषजित् । (२३।१)

sraṃsanī kaphavātaghnī hyakṣastadvattridoṣajit |

23.2२३.२

वातश्लेष्महरं त्वम्लं स्रंसनं तिन्तिडीफलम् ॥ (२३।२)

vātaśleṣmaharaṃ tvamlaṃ sraṃsanaṃ tintiḍīphalam ||

24.1२४.१

दोषलं लकुचं स्वादु बकुलं कफवातजित् । (२४।१)

doṣalaṃ lakucaṃ svādu bakulaṃ kaphavātajit |

24.2२४.२

गुल्मवातकफश्वासकासघ्नं बीजपूरकम् ॥ (२४।२)

gulmavātakaphaśvāsakāsaghnaṃ bījapūrakam ||

25.1२५.१

कपित्थं ग्राहि दोषघ्नं पक्वं गुरु विषापहम् । (२५।१)

kapitthaṃ grāhi doṣaghnaṃ pakvaṃ guru viṣāpaham |

25.2२५.२

कफपित्तकरं बालमापूर्णं पित्तवर्धनम् ॥ (२५।२)

kaphapittakaraṃ bālamāpūrṇaṃ pittavardhanam ||

26.1२६.१

पक्वाम्रं वातकृन्मांसशुक्रवर्णबलप्रदम् । (२६।१)

pakvāmraṃ vātakṛnmāṃsaśukravarṇabalapradam |

26.2२६.२

वातघ्नं कफपित्तघ्नं ग्राहि विष्टम्भि जाम्बवम् ॥ (२६।२)

vātaghnaṃ kaphapittaghnaṃ grāhi viṣṭambhi jāmbavam ||

27.1२७.१

तिन्दुकं कफवातघ्नं बदरं वातपित्तहृत् । (२७।१)

tindukaṃ kaphavātaghnaṃ badaraṃ vātapittahṛt |

27.2२७.२

विष्टम्भि वातलं बिल्वं प्रियालं पवनापहम् ॥ (२७।२)

viṣṭambhi vātalaṃ bilvaṃ priyālaṃ pavanāpaham ||

28.1२८.१

राजादनफलं मोचं पनसं नारिकेलजम् । (२८।१)

rājādanaphalaṃ mocaṃ panasaṃ nārikelajam |

28.2२८.२

शुक्रमांसकराण्याहुः स्वादुस्निग्धगुरूणि च ॥ (२८।२)

śukramāṃsakarāṇyāhuḥ svādusnigdhagurūṇi ca ||

29.1२९.१

द्राक्षामधूकखर्जूरं कुङ्कुमं वातरक्तजित् । (२९।१)

drākṣāmadhūkakharjūraṃ kuṅkumaṃ vātaraktajit |

29.2२९.२

मागधी मधुरा पक्वा श्वासपित्तहरा परा ॥ (२९।२)

māgadhī madhurā pakvā śvāsapittaharā parā ||

30.1३०.१

आर्द्रकं रोचकं वृष्यं दीपनं कफवातहृत् । (३०।१)

ārdrakaṃ rocakaṃ vṛṣyaṃ dīpanaṃ kaphavātahṛt |

30.2३०.२

शुण्ठीमरिचपिप्पल्यः कफवातजितो मताः ॥ (३०।२)

śuṇṭhīmaricapippalyaḥ kaphavātajito matāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 169

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit