GarPur, 1, 53
Select a line for its word-by-word analysis.
एवं ब्रह्माब्रवीच्छ्रुत्वा हरेरष्टनिधींस्तथा । (१।२)
evaṃ brahmābravīcchrutvā hareraṣṭanidhīṃstathā |
मुकुन्दकुन्दौ नीलश्च शङ्खश्चैवापरो निधिः । (२।१)
mukundakundau nīlaśca śaṅkhaścaivāparo nidhiḥ |
सत्यामृद्धौ भवन्त्येते स्वरूपं कथयाम्यहम् ॥ (२।२)
satyāmṛddhau bhavantyete svarūpaṃ kathayāmyaham ||
रूप्यादि कुर्याद्दद्यात्तु यतिदैवादियज्वनाम् । (४।१)
rūpyādi kuryāddadyāttu yatidaivādiyajvanām |
महापद्माङ्कितो दद्याद्धनाद्यं धार्मिकाय च ॥ (४।२)
mahāpadmāṅkito dadyāddhanādyaṃ dhārmikāya ca ||
निधी पद्ममहापद्मौ सात्त्विकौ पुरुषौ स्मृती । (५।१)
nidhī padmamahāpadmau sāttvikau puruṣau smṛtī |
दद्याच्छ्रुताय मैत्रीं च याति नित्यं च राजभिः । (६।१)
dadyācchrutāya maitrīṃ ca yāti nityaṃ ca rājabhiḥ |
द्रव्यार्थं शत्रुणा नाशं संग्रामे चापि संव्रजेत् ॥ (६।२)
dravyārthaṃ śatruṇā nāśaṃ saṃgrāme cāpi saṃvrajet ||
निधानमुर्व्यां कुरुते निधिः सो ऽप्येकपूरुषः । (८।१)
nidhānamurvyāṃ kurute nidhiḥ so 'pyekapūruṣaḥ |
भुक्तभोगो गायनेभ्यो दद्याद्वेश्यादिकासु च । (९।१)
bhuktabhogo gāyanebhyo dadyādveśyādikāsu ca |
स्तुतः प्रीतो भवति वै बहुभार्या भवन्ति च । (१०।१)
stutaḥ prīto bhavati vai bahubhāryā bhavanti ca |
पूर्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च ॥ (१०।२)
pūrvamitreṣu śaithilyaṃ prītimanyaiḥ karoti ca ||
नीलेन चाङ्कितः सत्त्वतेजसा संयुतो भवेत् । (११।१)
nīlena cāṅkitaḥ sattvatejasā saṃyuto bhavet |
एकस्य स्यान्निधिः शङ्खः स्वयं भुङ्क्ते धनादिकम् ॥ (१२।२)
ekasya syānnidhiḥ śaṅkhaḥ svayaṃ bhuṅkte dhanādikam ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवनिधिवर्णनं नाम त्रिपञ्चाशत्तमो ऽध्यायः ॥ (१५।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navanidhivarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.