गरुडपुराणGaruḍapurāṇa

GarPur, 1, 43

43 of 166 · 88 verses

Select a line for its word-by-word analysis.

1.1१.१

हरिरुवाच । (१।१)

hariruvāca |

1.2१.२

पवित्रारोपणं वक्ष्ये भुक्तिमुक्तिप्रदं हरेः । (१।२)

pavitrāropaṇaṃ vakṣye bhuktimuktipradaṃ hareḥ |

1.3१.३

पुरा देवासुरे युद्धे ब्रह्माद्याः शरणं ययुः ॥ (१।३)

purā devāsure yuddhe brahmādyāḥ śaraṇaṃ yayuḥ ||

2.1२.१

विष्णुश्च तेषां देवानां ध्वजं ग्रैवेयकं ददौ । (२।१)

viṣṇuśca teṣāṃ devānāṃ dhvajaṃ graiveyakaṃ dadau |

2.2२.२

एतौ दृष्ट्वा विनङ्क्ष्यन्ति दानवानब्रवीद्धरिः ॥ (२।२)

etau dṛṣṭvā vinaṅkṣyanti dānavānabravīddhariḥ ||

3.1३.१

विष्णूक्ते ह्यब्रवीन्नागो वासुकेरनुजस्तदा । (३।१)

viṣṇūkte hyabravīnnāgo vāsukeranujastadā |

3.2३.२

वृणीत च पवित्राख्यं वरं चेदं वृषध्वज ॥ (३।२)

vṛṇīta ca pavitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja ||

4.1४.१

ग्रैवेयं हरिदत्तं तु मन्नाम्ना ख्यातिमेष्यति । (४।१)

graiveyaṃ haridattaṃ tu mannāmnā khyātimeṣyati |

4.2४.२

इत्युक्ते तेन ते देवास्तन्नाम्ना तद्वरं विदुः ॥ (४।२)

ityukte tena te devāstannāmnā tadvaraṃ viduḥ ||

5.1५.१

प्रावृट्काले तु ये मर्त्या नार्चिष्यन्ति पवित्रकैः । (५।१)

prāvṛṭkāle tu ye martyā nārciṣyanti pavitrakaiḥ |

5.2५.२

तेषां सांवत्सरी पूजा विफला च भविष्यति ॥ (५।२)

teṣāṃ sāṃvatsarī pūjā viphalā ca bhaviṣyati ||

6.1६.१

तस्मात्सर्वेषु देवेषु पवित्रारोपणं क्रमात् । (६।१)

tasmātsarveṣu deveṣu pavitrāropaṇaṃ kramāt |

6.2६.२

प्रतिपत्पौर्णमास्यान्ता यस्य या तिथिरुच्यते ॥ (६।२)

pratipatpaurṇamāsyāntā yasya yā tithirucyate ||

7.1७.१

द्वादश्यां विष्णवे कार्यं शुक्ले कृष्णे ऽथवा हर । (७।१)

dvādaśyāṃ viṣṇave kāryaṃ śukle kṛṣṇe 'thavā hara |

7.2७.२

व्यतीपाते ऽयने चैव चन्द्रसूर्यग्रहे शिव ॥ (७।२)

vyatīpāte 'yane caiva candrasūryagrahe śiva ||

8.1८.१

विष्णवे वृद्धिकार्ये च गुरोरागमने तथा । (८।१)

viṣṇave vṛddhikārye ca gurorāgamane tathā |

8.2८.२

नित्यं पवित्रमुद्दिष्टं प्रावृट्काले त्ववश्यकम् ॥ (८।२)

nityaṃ pavitramuddiṣṭaṃ prāvṛṭkāle tvavaśyakam ||

9.1९.१

कौशेयं पट्टसूत्रं वा कार्पासं क्षौममेव वा । (९।१)

kauśeyaṃ paṭṭasūtraṃ vā kārpāsaṃ kṣaumameva vā |

9.2९.२

कुशसूत्रं द्विजानां स्याद् राज्ञा कौशेयपट्टकम् ॥ (९।२)

kuśasūtraṃ dvijānāṃ syād rājñā kauśeyapaṭṭakam ||

10.1१०.१

वैश्यानां चीरणं क्षौमं शूद्राणां शणवल्कजम् । (१०।१)

vaiśyānāṃ cīraṇaṃ kṣaumaṃ śūdrāṇāṃ śaṇavalkajam |

10.2१०.२

कार्पासं पद्मजं चैव सर्वेषां शस्तमीश्वर ॥ (१०।२)

kārpāsaṃ padmajaṃ caiva sarveṣāṃ śastamīśvara ||

11.1११.१

ब्राह्मण्या कर्तितं सूत्रं त्रिगुणं त्रिगुणीकृतम् । (११।१)

brāhmaṇyā kartitaṃ sūtraṃ triguṇaṃ triguṇīkṛtam |

11.2११.२

ॐकारो ऽथ शिवः सोमो ह्यग्निर् ब्रह्मा फणी रविः ॥ (११।२)

oṃkāro 'tha śivaḥ somo hyagnir brahmā phaṇī raviḥ ||

12.1१२.१

विघ्नेशो विष्णुरित्येते स्थितास्तन्तुषु देवताः । (१२।१)

vighneśo viṣṇurityete sthitāstantuṣu devatāḥ |

12.2१२.२

ब्रह्मा विष्णुश्च रुद्रश्च त्रिसूत्रे देवताः स्मृताः ॥ (१२।२)

brahmā viṣṇuśca rudraśca trisūtre devatāḥ smṛtāḥ ||

13.1१३.१

सौवर्णे राजते ताम्रे वैणवे मृन्मये न्यसेत् । (१३।१)

sauvarṇe rājate tāmre vaiṇave mṛnmaye nyaset |

13.2१३.२

अङ्गुष्ठेन चतुःषष्टिः श्रेष्ठं मध्यं तदर्धतः ॥ (१३।२)

aṅguṣṭhena catuḥṣaṣṭiḥ śreṣṭhaṃ madhyaṃ tadardhataḥ ||

14.1१४.१

तदर्धा तु कनिष्ठा स्यात् सूत्रम् अष्टोत्तरं शतम् । (१४।१)

tadardhā tu kaniṣṭhā syāt sūtram aṣṭottaraṃ śatam |

14.2१४.२

उत्तमं मध्यमं चैव कन्यसं पूर्ववत्क्रमात् ॥ (१४।२)

uttamaṃ madhyamaṃ caiva kanyasaṃ pūrvavatkramāt ||

15.1१५.१

उत्तमो ऽङ्गुष्ठमानेन मध्यमो मध्यमेन तु । (१५।१)

uttamo 'ṅguṣṭhamānena madhyamo madhyamena tu |

15.2१५.२

कन्यसे च कनिष्ठेन अङ्गुल्या ग्रन्थयः स्मृताः ॥ (१५।२)

kanyase ca kaniṣṭhena aṅgulyā granthayaḥ smṛtāḥ ||

16.1१६.१

विमाने स्थण्डिले चैव एतत्सामान्यलक्षणम् । (१६।१)

vimāne sthaṇḍile caiva etatsāmānyalakṣaṇam |

16.2१६.२

शिवोद्धृतं पवित्रं तु प्रतिमायां च कारयेत् ॥ (१६।२)

śivoddhṛtaṃ pavitraṃ tu pratimāyāṃ ca kārayet ||

17.1१७.१

हृन्नाभिरूरुमाने च जानुभ्यामवलम्बिनी । (१७।१)

hṛnnābhirūrumāne ca jānubhyāmavalambinī |

17.2१७.२

अष्टोत्तरसहस्रेण चत्वारो ग्रन्थयः स्मृताः ॥ (१७।२)

aṣṭottarasahasreṇa catvāro granthayaḥ smṛtāḥ ||

18.1१८.१

षट्त्रिंशच्च चतुर्विंशद् द्वादश ग्रन्थयो ऽथवा । (१८।१)

ṣaṭtriṃśacca caturviṃśad dvādaśa granthayo 'thavā |

18.2१८.२

उत्तमादिषु विज्ञेयाः पर्वभिर्वा पवित्रकम् ॥ (१८।२)

uttamādiṣu vijñeyāḥ parvabhirvā pavitrakam ||

19.1१९.१

चर्चितं कुङ्कुमेनैव हरिद्राचन्दनेन वा । (१९।१)

carcitaṃ kuṅkumenaiva haridrācandanena vā |

19.2१९.२

सोपवासः पवित्रं तु पात्रस्थमधिवासयेत् ॥ (१९।२)

sopavāsaḥ pavitraṃ tu pātrasthamadhivāsayet ||

20.1२०.१

अश्वत्थपत्रपुटके अष्टदिक्षु निवेशितम् । (२०।१)

aśvatthapatrapuṭake aṣṭadikṣu niveśitam |

20.2२०.२

दण्डकाष्ठं कुशाग्रं च पूर्वे सङ्कर्षणेन तु ॥ (२०।२)

daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu ||

21.1२१.१

रोचनाकुङ्कुमेनव प्रद्युम्नेन तु दक्षिणे । (२१।१)

rocanākuṅkumenava pradyumnena tu dakṣiṇe |

21.2२१.२

युद्धार्थो फलसिद्ध्यर्थमनिरुद्धेन पश्चिमे ॥ (२१।२)

yuddhārtho phalasiddhyarthamaniruddhena paścime ||

22.1२२.१

चन्दनं नीलयुक्तं च तिलभस्माक्षतं तथा । (२२।१)

candanaṃ nīlayuktaṃ ca tilabhasmākṣataṃ tathā |

22.2२२.२

आग्नेयादिषु कोणेषु र्श्यादीनां तु क्रमान्न्यसेत् ॥ (२२।२)

āgneyādiṣu koṇeṣu rśyādīnāṃ tu kramānnyaset ||

23.1२३.१

पवित्रं वासुदेवेन अभिमन्त्र्य सकृत्सकृत् । (२३।१)

pavitraṃ vāsudevena abhimantrya sakṛtsakṛt |

23.2२३.२

दृष्ट्वा पुनः प्रपूज्याथ वस्त्रेणाच्छाद्य यत्नतः ॥ (२३।२)

dṛṣṭvā punaḥ prapūjyātha vastreṇācchādya yatnataḥ ||

24.1२४.१

देवस्य पुरतः स्थाप्यं प्रतिमामण्डलस्य वा । (२४।१)

devasya purataḥ sthāpyaṃ pratimāmaṇḍalasya vā |

24.2२४.२

पश्चिमे दक्षिणे चैव उत्तरे पूर्ववत्क्रमात् ॥ (२४।२)

paścime dakṣiṇe caiva uttare pūrvavatkramāt ||

25.1२५.१

ब्राह्मादींश्चापि संस्थाप्य कलशं चापि पूजयेत् । (२५।१)

brāhmādīṃścāpi saṃsthāpya kalaśaṃ cāpi pūjayet |

25.2२५.२

अस्त्रेण मण्डलं कृत्वा नैवेद्यं च समर्पयेत् ॥ (२५।२)

astreṇa maṇḍalaṃ kṛtvā naivedyaṃ ca samarpayet ||

26.1२६.१

अधिवास्य पवित्रं तु त्रिसूत्रेण नवेन वा । (२६।१)

adhivāsya pavitraṃ tu trisūtreṇa navena vā |

26.2२६.२

वेदिकां वेष्टयित्वा तु आत्मानं कलशं घृतम् ॥ (२६।२)

vedikāṃ veṣṭayitvā tu ātmānaṃ kalaśaṃ ghṛtam ||

27.1२७.१

अग्निकुण्डं विमानं च मण्डपं गृहमेव च । (२७।१)

agnikuṇḍaṃ vimānaṃ ca maṇḍapaṃ gṛhameva ca |

27.2२७.२

सूत्रमेकं तु संगृह्य दद्याद्देवस्य मृर्धानि ॥ (२७।२)

sūtramekaṃ tu saṃgṛhya dadyāddevasya mṛrdhāni ||

28.1२८.१

दत्त्वा पठेदिमं मन्त्रं पूजयित्वा महेश्वरम् । (२८।१)

dattvā paṭhedimaṃ mantraṃ pūjayitvā maheśvaram |

28.2२८.२

आवाहितो ऽसि देवेश पूजार्थं परमेश्वर ॥ (२८।२)

āvāhito 'si deveśa pūjārthaṃ parameśvara ||

29.1२९.१

तत्प्रभाते ऽर्चयिष्यामि सामग्याः सन्निधौ भव । (२९।१)

tatprabhāte 'rcayiṣyāmi sāmagyāḥ sannidhau bhava |

29.2२९.२

एकरात्रं त्रिरात्रं वा अधिवास्य पवित्रकम् ॥ (२९।२)

ekarātraṃ trirātraṃ vā adhivāsya pavitrakam ||

30.1३०.१

रात्रौ जागरणं कृत्वा प्रातः सम्पूज्य केशवम् । (३०।१)

rātrau jāgaraṇaṃ kṛtvā prātaḥ sampūjya keśavam |

30.2३०.२

आरोपयेत्क्रमेणैव ज्येष्ठमध्यकनीयसम् ॥ (३०।२)

āropayetkrameṇaiva jyeṣṭhamadhyakanīyasam ||

31.1३१.१

धूपयित्वा पवित्रं तु मन्त्रेणैवाभिमन्त्रयेत् । (३१।१)

dhūpayitvā pavitraṃ tu mantreṇaivābhimantrayet |

31.2३१.२

प्रजप्तग्रन्थिकं चैव पूजयेत्कुसुमादिभिः ॥ (३१।२)

prajaptagranthikaṃ caiva pūjayetkusumādibhiḥ ||

32.1३२.१

गायत्त्र्या चार्चितं तेन देवं सम्पूज्य दापयेत् । (३२।१)

gāyattryā cārcitaṃ tena devaṃ sampūjya dāpayet |

32.2३२.२

समं पुत्रकलत्राद्यैः सूत्रपुच्छं तु धारयेत् ॥ (३२।२)

samaṃ putrakalatrādyaiḥ sūtrapucchaṃ tu dhārayet ||

33.1३३.१

विशुद्धग्रन्थिकं रम्यं महापातकनाशनम् । (३३।१)

viśuddhagranthikaṃ ramyaṃ mahāpātakanāśanam |

33.2३३.२

सर्वपापक्षयं देव तवाग्रे धारयाम्यहम् ॥ (३३।२)

sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham ||

34.1३४.१

एवं धूपादिनाभ्यर्च्य मध्यमादीन् समर्पयेत् । (३४।१)

evaṃ dhūpādinābhyarcya madhyamādīn samarpayet |

34.2३४.२

पवित्रं वैष्णवं तेजः सर्वपातकनाशनम् ॥ (३४।२)

pavitraṃ vaiṣṇavaṃ tejaḥ sarvapātakanāśanam ||

35.1३५.१

धर्मकामार्थसिद्ध्यर्थं स्वकण्ठे धारयाम्यहम् । (३५।१)

dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham |

35.2३५.२

वनमालां समभ्यर्च्य स्वेन मन्त्रेण दापयेत् ॥ (३५।२)

vanamālāṃ samabhyarcya svena mantreṇa dāpayet ||

36.1३६.१

नैवेद्यं विविधं दत्त्वा कुसुमादेर्बलिं हरेत् । (३६।१)

naivedyaṃ vividhaṃ dattvā kusumāderbaliṃ haret |

36.2३६.२

अग्निं संतर्प्य तत्रापि द्वादशाङ्गुलमानतः ॥ (३६।२)

agniṃ saṃtarpya tatrāpi dvādaśāṅgulamānataḥ ||

37.1३७.१

अष्टोत्तरशतेनैव दद्यादेकपवित्रकम् । (३७।१)

aṣṭottaraśatenaiva dadyādekapavitrakam |

37.2३७.२

आदौ दत्त्वार्घ्यमादित्ये तत्र चैकं पवित्रकम् ॥ (३७।२)

ādau dattvārghyamāditye tatra caikaṃ pavitrakam ||

38.1३८.१

विष्वक्सेनं ततः प्रार्च्य सुरुम् अर्घ्यादिभिर् हर । (३८।१)

viṣvaksenaṃ tataḥ prārcya surum arghyādibhir hara |

38.2३८.२

देवस्याग्रे पठेन्मन्त्रं कृताञ्जलिपुटः स्थितः ॥ (३८।२)

devasyāgre paṭhenmantraṃ kṛtāñjalipuṭaḥ sthitaḥ ||

39.1३९.१

ज्ञानतो ऽज्ञानतो वापि पूजनादि कृतं मया । (३९।१)

jñānato 'jñānato vāpi pūjanādi kṛtaṃ mayā |

39.2३९.२

तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादात्सुरेश्वर ॥ (३९।२)

tatsarvaṃ pūrṇamevāstu tvatprasādātsureśvara ||

40.1४०.१

मणिविद्रुममालाभिर् मन्दारकुसुमादिभिः । (४०।१)

maṇividrumamālābhir mandārakusumādibhiḥ |

40.2४०.२

इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ॥ (४०।२)

iyaṃ sāṃvatsarī pūjā tavāstu garuḍadhvaja ||

41.1४१.१

वनमाला यथा देव कौस्तुभं सततं हृदि । (४१।१)

vanamālā yathā deva kaustubhaṃ satataṃ hṛdi |

41.2४१.२

तद्वत्पवित्रं तन्तूनां मालां त्वं हृदये धर ॥ (४१।२)

tadvatpavitraṃ tantūnāṃ mālāṃ tvaṃ hṛdaye dhara ||

42.1४२.१

एवं प्रार्थ्य द्विजान् भोज्य दत्त्वा तेभ्यश्च दक्षिणाम् । (४२।१)

evaṃ prārthya dvijān bhojya dattvā tebhyaśca dakṣiṇām |

42.2४२.२

विसर्जयेत्तु तेनैव सायाह्ने त्वपरे ऽहनि ॥ (४२।२)

visarjayettu tenaiva sāyāhne tvapare 'hani ||

43.1४३.१

सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मया । (४३।१)

sāṃvatsarīmimāṃ pūjāṃ sampādya vidhivanmayā |

43.2४३.२

व्रजेः पवित्रकेदानीं विष्णुलोकं विसर्जितः ॥ (४३।२)

vrajeḥ pavitrakedānīṃ viṣṇulokaṃ visarjitaḥ ||

44.1४४.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपवित्रारोपणं नाम त्रिचत्वारिंशो ऽध्यायः ॥ (४४।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupavitrāropaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 43

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit