GarPur, 1, 19
Select a line for its word-by-word analysis.
प्राणेश्वरं गारुडं च शिवोक्तं प्रवदाम्यहम् । (१।२)
prāṇeśvaraṃ gāruḍaṃ ca śivoktaṃ pravadāmyaham |
स्थानान्यादौ प्रवक्ष्यामि नागदष्टो न जीवति ॥ (१।३)
sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati ||
दंशे रेखात्रयं यस्य प्रच्छन्नं स न जीवति ॥ (२।२)
daṃśe rekhātrayaṃ yasya pracchannaṃ sa na jīvati ||
दण्डी शस्त्रधरो भिक्षुर् नग्नादिः कालदूतकः । (४।१)
daṇḍī śastradharo bhikṣur nagnādiḥ kāladūtakaḥ |
बाहौ च वक्त्रे ग्रीवायां दष्टायां न हि जीवति ॥ (४।२)
bāhau ca vaktre grīvāyāṃ daṣṭāyāṃ na hi jīvati ||
पूर्वं दिनपतिर्भुङ्क्ते अर्धयामं ततो ऽपरे । (५।१)
pūrvaṃ dinapatirbhuṅkte ardhayāmaṃ tato 'pare |
शेषा ग्रहाः प्रतिदिनं षट्संख्यापरिवर्तनैः ॥ (५।२)
śeṣā grahāḥ pratidinaṃ ṣaṭsaṃkhyāparivartanaiḥ ||
नागभोगः क्रमाज्ज्ञेयो रात्रौ बाणविवर्तनैः । (६।१)
nāgabhogaḥ kramājjñeyo rātrau bāṇavivartanaiḥ |
शेषो ऽर्कः फणिपश् चन्द्रस् तक्षको भौम ईरितः ॥ (६।२)
śeṣo 'rkaḥ phaṇipaś candras takṣako bhauma īritaḥ ||
कर्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः । (७।१)
karkoṭo jño guruḥ padmo mahāpadmaśca bhārgavaḥ |
शङ्खः शनैश्चरो राहुः कुलिकश्चाहयो ग्रहाः ॥ (७।२)
śaṅkhaḥ śanaiścaro rāhuḥ kulikaścāhayo grahāḥ ||
पङ्गोः काले दिवा राहुः कुलिकेन सह स्थितः ॥ (८।२)
paṅgoḥ kāle divā rāhuḥ kulikena saha sthitaḥ ||
यामार्धसन्धिसंस्थां च वेलां कालवतीं चरेत् । (९।१)
yāmārdhasandhisaṃsthāṃ ca velāṃ kālavatīṃ caret |
पादाङ्गुष्ठे पादपृष्ठे पादपृष्ठे गुल्फे जानुनि लिङ्गके ॥ (१०।२)
pādāṅguṣṭhe pādapṛṣṭhe pādapṛṣṭhe gulphe jānuni liṅgake ||
नाभौ हृदि स्तनतटे कण्ठे नासापुटे ऽक्षिणि । (११।१)
nābhau hṛdi stanataṭe kaṇṭhe nāsāpuṭe 'kṣiṇi |
कर्णयोश्च भ्रुवोः शङ्खे मस्तके प्रतिपत्क्रमात् ॥ (११।२)
karṇayośca bhruvoḥ śaṅkhe mastake pratipatkramāt ||
तिष्ठच्चन्द्रश्च जीवेच्च पुंसो दक्षिणभागके । (१२।१)
tiṣṭhaccandraśca jīvecca puṃso dakṣiṇabhāgake |
कायस्य वामभागे तु स्त्रिया वायुवहात्करात् ॥ (१२।२)
kāyasya vāmabhāge tu striyā vāyuvahātkarāt ||
आत्मनः परमं बीजं हंसाख्यं स्फटिकामलम् ॥ (१३।२)
ātmanaḥ paramaṃ bījaṃ haṃsākhyaṃ sphaṭikāmalam ||
दातव्यं विषपापघ्नं बीजं तस्य चतुर्विधम् । (१४।१)
dātavyaṃ viṣapāpaghnaṃ bījaṃ tasya caturvidham |
बिन्दुपञ्चस्वरयुतम् आद्यम् उक्तं द्वितीयकम् । (१४।२)
bindupañcasvarayutam ādyam uktaṃ dvitīyakam |
षष्ठारूढं तृतीयं स्यात्सविसर्गं चतुर्थकम् । (१४।३)
ṣaṣṭhārūḍhaṃ tṛtīyaṃ syātsavisargaṃ caturthakam |
विद्या त्रैलोक्यरक्षार्थं गरुडेन धृता पुरा । (१५।१)
vidyā trailokyarakṣārthaṃ garuḍena dhṛtā purā |
वधेप्सुर्नागनागानां मुखे ऽथ प्रणवं न्यसेत् ॥ (१५।२)
vadhepsurnāganāgānāṃ mukhe 'tha praṇavaṃ nyaset ||
गले कुरु न्यसेद्धीमान्कुले च गुल्फयोः स्मृतः । (१६।१)
gale kuru nyaseddhīmānkule ca gulphayoḥ smṛtaḥ |
गृहे विविखिता यत्र तन्नागाः संत्यजन्ति च । (१७।१)
gṛhe vivikhitā yatra tannāgāḥ saṃtyajanti ca |
सहस्रमन्त्रं जप्त्वा तु कर्णे सूत्रं धृतं तथा ॥ (१७।२)
sahasramantraṃ japtvā tu karṇe sūtraṃ dhṛtaṃ tathā ||
यद्गृहे शर्करा जप्ता क्षिप्ता नागास्त्यजन्ति तत् । (१८।१)
yadgṛhe śarkarā japtā kṣiptā nāgāstyajanti tat |
सप्तलक्षस्य जप्याद्धि सिद्धिः प्राप्ता सुरासुरैः ॥ (१८।२)
saptalakṣasya japyāddhi siddhiḥ prāptā surāsuraiḥ ||
ॐ सुवर्णरेखे कुक्कुटविग्रहरूपिणि स्वाहा । (१९।१)
oṃ suvarṇarekhe kukkuṭavigraharūpiṇi svāhā |
नामैतद्वारिधाराभिः स्नातो दष्टो विषं त्यजेत् । (२०।१)
nāmaitadvāridhārābhiḥ snāto daṣṭo viṣaṃ tyajet |
अङ्गुष्ठादि कनिष्ठान्तं करे न्यस्याथ देहके । (२१।१)
aṅguṣṭhādi kaniṣṭhāntaṃ kare nyasyātha dehake |
के वक्त्रे हृदि लिङ्गे च पादयोर्गरुडस्य हि ॥ (२१।२)
ke vaktre hṛdi liṅge ca pādayorgaruḍasya hi ||
नाक्रामन्ति च तच्छायां स्वप्ने ऽपि विषपन्नगाः । (२२।१)
nākrāmanti ca tacchāyāṃ svapne 'pi viṣapannagāḥ |
यस्तु लक्षं जपेच्चास्याः स दृष्ट्वा नाशयेद्विषम् ॥ (२२।२)
yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā nāśayedviṣam ||
कर्णे जप्ता त्वियं विद्या दष्टकस्य विषं हरेत् ॥ (२३।२)
karṇe japtā tviyaṃ vidyā daṣṭakasya viṣaṃ haret ||
अ आ न्यसेत्तु पादाग्रे इ ई गुल्फे ऽथ जानुनि । (२४।१)
a ā nyasettu pādāgre i ī gulphe 'tha jānuni |
वक्त्रे अमुत्तमाङ्गे अः न्यसेद्वै हंससंयुताः । (२५।१)
vaktre amuttamāṅge aḥ nyasedvai haṃsasaṃyutāḥ |
हंसो विषादि च हरेज्जप्तो ध्यातो ऽथ पूजितः ॥ (२५।२)
haṃso viṣādi ca harejjapto dhyāto 'tha pūjitaḥ ||
गरुडो ऽहमिति ध्यात्वा कुर्याद्विषहरां क्रियाम् । (२६।१)
garuḍo 'hamiti dhyātvā kuryādviṣaharāṃ kriyām |
हंमन्त्रं गात्रविन्यस्तं विषादिहरमीरितम् ॥ (२६।२)
haṃmantraṃ gātravinyastaṃ viṣādiharamīritam ||
मन्त्रो हरेद्दष्टकस्य त्वङ्मांसादिगतं विषम् ॥ (२७।२)
mantro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam ||
तनौ न्यसेद्दष्टकस्य नीलकण्ठादि संस्मरेत् ॥ (२८।२)
tanau nyaseddaṣṭakasya nīlakaṇṭhādi saṃsmaret ||
पीतं प्रत्यङ्गिरामूलं तण्डुलद्भिर् विषापहम् । (२९।१)
pītaṃ pratyaṅgirāmūlaṃ taṇḍuladbhir viṣāpaham |
पुनर्नवाफलिनीनां मूलं वक्क्रजम् ईदृशम् ॥ (२९।२)
punarnavāphalinīnāṃ mūlaṃ vakkrajam īdṛśam ||
मूलं शुक्लबृहत्यास्तु कर्कोट्या गैरिकर्णिकम् । (३०।१)
mūlaṃ śuklabṛhatyāstu karkoṭyā gairikarṇikam |
अद्भिर्घृष्टघृतोपेतलेपो ऽयं विषमर्दनः ॥ (३०।२)
adbhirghṛṣṭaghṛtopetalepo 'yaṃ viṣamardanaḥ ||
विषमृद्धिं न व्रजेच्च उष्णं पिबति यो घृतम् । (३१।१)
viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam |
पञ्चाङ्गं तु शिरीषस्य मूलं गृञ्जनजं तथा ॥ (३१।२)
pañcāṅgaṃ tu śirīṣasya mūlaṃ gṛñjanajaṃ tathā ||
सर्वाङ्गलेपतश् चापि पानाद्वा विषहृद्भवेत् । (३२।१)
sarvāṅgalepataś cāpi pānādvā viṣahṛdbhavet |
हृल्ललाटविसर्गान्तं ध्यातं वश्यादिकृद् भवेत् । (३३।१)
hṛllalāṭavisargāntaṃ dhyātaṃ vaśyādikṛd bhavet |
न्यस्तं योनौ वशेत् कन्यां कुर्यान्मदजलाविलम् ॥ (३३।२)
nyastaṃ yonau vaśet kanyāṃ kuryānmadajalāvilam ||
जप्त्वा सप्ताष्टसाहस्रं गरुत्मानिव सर्वगः । (३४।१)
japtvā saptāṣṭasāhasraṃ garutmāniva sarvagaḥ |
कविः स्याच्छ्रुतिधरी च वश्याः स्त्रीश्चायुराप्नुयात् । (३४।२)
kaviḥ syācchrutidharī ca vaśyāḥ strīścāyurāpnuyāt |
विषहृत्स्यात्कथा तद्वन्मणिर्व्यासः स्मृतो ध्रुवम् ॥ (३४।३)
viṣahṛtsyātkathā tadvanmaṇirvyāsaḥ smṛto dhruvam ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सर्पविषहरोपायनिरूपणं नामैकोनविंशो ऽध्यायः ॥ (३५।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarpaviṣaharopāyanirūpaṇaṃ nāmaikonaviṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.