GarPur, 1, 133
Select a line for its word-by-word analysis.
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥ (१।३)
caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ ||
महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् ॥ (४।२)
mahāvrataṃ mahāpuṇyaṃ śaṅkarādyairanuṣṭhitam ||
दुर्गे दुर्गे रक्षिणि स्वाहा मन्त्रो ऽयं पूजनादिषु । (६।१)
durge durge rakṣiṇi svāhā mantro 'yaṃ pūjanādiṣu |
दीर्घाकारादिमात्राभिर्नव देव्यो नमोऽन्तिकाः ॥ (६।२)
dīrghākārādimātrābhirnava devyo namo'ntikāḥ ||
अङ्गुष्ठादिकनिष्ठान्तं न्यस्य वै पूजयेच्छिवाम् ॥ (७।२)
aṅguṣṭhādikaniṣṭhāntaṃ nyasya vai pūjayecchivām ||
तस्मिन्देवी प्रकर्तव्या हैमी वा राजतापि वा ॥ (८।२)
tasmindevī prakartavyā haimī vā rājatāpi vā ||
शूले खड्गे पुस्तके वा पटे वा मण्डले यजेत् । (९।१)
śūle khaḍge pustake vā paṭe vā maṇḍale yajet |
कपालं खेटकं घण्टां दर्पणं तर्जनीं धनः ॥ (९।२)
kapālaṃ kheṭakaṃ ghaṇṭāṃ darpaṇaṃ tarjanīṃ dhanaḥ ||
शक्तिं च मुद्गरं शूलं वज्रं खड्गं तथाङ्कुशम् ॥ (१०।२)
śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaḍgaṃ tathāṅkuśam ||
शरं चक्रं शलाकां च दुर्गामायुधसंयुताम् । (११।१)
śaraṃ cakraṃ śalākāṃ ca durgāmāyudhasaṃyutām |
शेषाः षोडशहस्तां स्युरञ्जनं डमरुं विना ॥ (११।२)
śeṣāḥ ṣoḍaśahastāṃ syurañjanaṃ ḍamaruṃ vinā ||
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका । (१२।१)
rudracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā |
नवमी चोग्रचण्डा च मध्यमाग्निप्रभाकृतिः । (१३।१)
navamī cogracaṇḍā ca madhyamāgniprabhākṛtiḥ |
रोचना त्वरुणा कृष्णा नीलं धूम्रा च शुक्रका ॥ (१३।२)
rocanā tvaruṇā kṛṣṇā nīlaṃ dhūmrā ca śukrakā ||
पाता च पाण्डुरा प्रोक्ता आलीढं हरितं तथा । (१४।१)
pātā ca pāṇḍurā proktā ālīḍhaṃ haritaṃ tathā |
म हिषो ऽस्य स खड्गाग्रप्रकचग्रहमुष्टिकः ॥ (१४।२)
ma hiṣo 'sya sa khaḍgāgraprakacagrahamuṣṭikaḥ ||
जप्त्वा दशाक्षरीं विद्यां नासौ केनापि बध्यते । (१५।१)
japtvā daśākṣarīṃ vidyāṃ nāsau kenāpi badhyate |
पञ्चदशाङ्गुलं खड्गं त्रिशूलं च ततो यजेत् । (१५।२)
pañcadaśāṅgulaṃ khaḍgaṃ triśūlaṃ ca tato yajet |
लिङ्गस्यां पूजयेद्वापि पादुके ऽथ जले ऽपि वा ॥ (१५।३)
liṅgasyāṃ pūjayedvāpi pāduke 'tha jale 'pi vā ||
पञ्चाब्दं महिषं बस्तं रात्रिशेषे च घातयेत् ॥ (१६।२)
pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet ||
नैरृत्यां पूतनां चैव वायव्यां पापराक्षसीम् ॥ (१७।२)
nairṛtyāṃ pūtanāṃ caiva vāyavyāṃ pāparākṣasīm ||
दद्याच् चरक्यै चैशान्यामाग्नेय्यां च विदारिकाम् ॥ (१८।१)
dadyāc carakyai caiśānyāmāgneyyāṃ ca vidārikām ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महानवमीव्रतं नाम त्रयस्त्रिंशदुत्तरशततमो ऽध्यायः ॥ (१९।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamīvrataṃ nāma trayastriṃśaduttaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.