GarPur, 1, 137
Select a line for its word-by-word analysis.
चतुर्दश्यां तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः । (२।१)
caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ |
यो ऽब्दमेकं न भुञ्जीत मुक्तिभाक् शिवपूजनात् ॥ (२।२)
yo 'bdamekaṃ na bhuñjīta muktibhāk śivapūjanāt ||
त्रिरात्रोपोषितो दद्यात्कार्तिक्यां भवनं शुभम् । (३।१)
trirātropoṣito dadyātkārtikyāṃ bhavanaṃ śubham |
अमावस्यां पितॄणां च दत्तं जलादि तद् अक्षयम् । (४।१)
amāvasyāṃ pitṝṇāṃ ca dattaṃ jalādi tad akṣayam |
नक्ताभ्याशी वारनाम्ना यजन्वाराणि सर्वभाक् ॥ (४।२)
naktābhyāśī vāranāmnā yajanvārāṇi sarvabhāk ||
द्वादशर्क्षाणि विप्रर्षे प्रतिमासं तु यानि वै । (५।१)
dvādaśarkṣāṇi viprarṣe pratimāsaṃ tu yāni vai |
तन्नाम्नान्ते ऽतच्युतं तेषु सम्यक् सम्पूजयेन्नरः ॥ (५।२)
tannāmnānte 'tacyutaṃ teṣu samyak sampūjayennaraḥ ||
अर्वाग्विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते । (८।१)
arvāgvisarjanāddravyaṃ naivedyaṃ sarvamucyate |
विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात् ॥ (८।२)
visarjite jagannāthe nirmālyaṃ bhavati kṣaṇāt ||
पाञ्चरात्रविदो मुख्या नैवेद्यं भुञ्जते स्वयम् । (९।१)
pāñcarātravido mukhyā naivedyaṃ bhuñjate svayam |
नमोनमस्ते ऽच्युत संक्षयो ऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम् । (१०।१)
namonamaste 'cyuta saṃkṣayo 'stu pāpasya vṛddhiṃ samupaitu puṇyam |
ऐश्वर्यवित्तादि सदाक्षयं मे तथास्तु मे सन्ततिरक्षयैव ॥ (१०।२)
aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva ||
यथाच्युत त्वं परतः परस्मात्स ब्रह्मभूतः परतः परस्मात् । (११।१)
yathācyuta tvaṃ parataḥ parasmātsa brahmabhūtaḥ parataḥ parasmāt |
तथाच्युतं मे कुरु वाञ्छितं सदा मया कृतं पापहराप्रमेय ॥ (११।२)
tathācyutaṃ me kuru vāñchitaṃ sadā mayā kṛtaṃ pāpaharāprameya ||
कुर्याद्वै सप्त वर्षाणि आयुः श्रीसद्गतीर्नरः । (१३।१)
kuryādvai sapta varṣāṇi āyuḥ śrīsadgatīrnaraḥ |
सप्तमीं पूजयेद्विष्णुं दुर्गां शम्भुं रविं क्रमात् । (१४।१)
saptamīṃ pūjayedviṣṇuṃ durgāṃ śambhuṃ raviṃ kramāt |
तेषां लोकं समाप्नोति सर्वकामांश्च निर्मलः ॥ (१४।२)
teṣāṃ lokaṃ samāpnoti sarvakāmāṃśca nirmalaḥ ||
सर्वः सर्वासु तिथिषु भुक्तिं मुक्तिमवाप्नुयात् । (१६।१)
sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt |
धनदो ऽग्निः प्रतिपदि नासत्यो दस्त्र अर्चितः ॥ (१६।२)
dhanado 'gniḥ pratipadi nāsatyo dastra arcitaḥ ||
श्रीर्यमश्च द्वितीयायां पञ्चम्या पार्वती श्रिया । (१७।१)
śrīryamaśca dvitīyāyāṃ pañcamyā pārvatī śriyā |
नागाः षष्ठ्यां कार्तिकेयः सप्तम्यां भास्करो ऽर्थदः ॥ (१७।२)
nāgāḥ ṣaṣṭhyāṃ kārtikeyaḥ saptamyāṃ bhāskaro 'rthadaḥ ||
दुर्गाष्टम्यां मातरश्च नवम्यामथ तक्षकः । (१८।१)
durgāṣṭamyāṃ mātaraśca navamyāmatha takṣakaḥ |
इन्द्रो दशम्यां धनद एकादश्यां मुनीश्वराः ॥ (१८।२)
indro daśamyāṃ dhanada ekādaśyāṃ munīśvarāḥ ||
द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः । (१९।१)
dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ |
चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरो ऽपरे ॥ (१९।२)
caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'pare ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे तिथिवारनक्षत्रादिव्रतनिरूपणं नाम सप्तत्रिंशदुत्तरशततमो ऽध्यायः ॥ (२०।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithivāranakṣatrādivratanirūpaṇaṃ nāma saptatriṃśaduttaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.