GarPur, 1, 123
Select a line for its word-by-word analysis.
व्रतानि कार्तिके वक्ष्ये स्नात्वा विष्णुं प्रपूजयेत् । (१।२)
vratāni kārtike vakṣye snātvā viṣṇuṃ prapūjayet |
सर्वपापविनिर्मुक्तः प्राप्तकामो हरिं व्रजेत् ॥ (२।२)
sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet ||
सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने । (३।१)
sadā harervrataṃ śreṣṭhaṃ tataḥ syāddakṣiṇāyane |
चातुर्मास्ये ततस्तस्मात्कार्तिके भीष्मपञ्चकम् ॥ (३।२)
cāturmāsye tatastasmātkārtike bhīṣmapañcakam ||
ततः श्रेष्ठव्रतं शुक्लस्यैकादश्यां समाचरेत् । (४।१)
tataḥ śreṣṭhavrataṃ śuklasyaikādaśyāṃ samācaret |
स्नात्वा त्रिकालं पित्रादीन्यवाद्यैरर्चयेद्धरिम् ॥ (४।२)
snātvā trikālaṃ pitrādīnyavādyairarcayeddharim ||
यजेन्मौनी घृताद्यैश्च पञ्चगव्येन वारिभिः । (५।१)
yajenmaunī ghṛtādyaiśca pañcagavyena vāribhiḥ |
घृताक्तगुग्गुलैर्धूपं द्विजः पञ्चदिनं दहेत् । (६।१)
ghṛtāktaguggulairdhūpaṃ dvijaḥ pañcadinaṃ dahet |
नैवेद्यं परमान्नं तु जपेदष्टोत्तरं शतम् ॥ (६।२)
naivedyaṃ paramānnaṃ tu japedaṣṭottaraṃ śatam ||
अष्टाक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत् ॥ (७।२)
aṣṭākṣareṇa mantreṇa svāhāntena tu homayet ||
प्रथमे ऽह्नि हरेः पादौ यजेत् पद्मैर् द्वितयिक । (८।१)
prathame 'hni hareḥ pādau yajet padmair dvitayika |
बिल्वपत्रैर्जानुदेशं नाभिं गन्धेन चापरे ॥ (८।२)
bilvapatrairjānudeśaṃ nābhiṃ gandhena cāpare ||
स्कन्धा बिल्वजवाभिश्च पञ्चमे ऽह्नि शिरो ऽर्चयत् । (९।१)
skandhā bilvajavābhiśca pañcame 'hni śiro 'rcayat |
मालत्या भूमिशायी स्याद्गोमयं प्राशयेत्क्रमात् ॥ (९।२)
mālatyā bhūmiśāyī syādgomayaṃ prāśayetkramāt ||
गोमूत्रं च दधि क्षीरं पञ्चमे पञ्चगव्यकम् । (१०।१)
gomūtraṃ ca dadhi kṣīraṃ pañcame pañcagavyakam |
नक्तं कुर्यात्पञ्चदश्यां व्रती स्याद्भुक्तिमुक्तिभाक् ॥ (१०।२)
naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk ||
एकादशीव्रतं नित्यं तत्कुर्यात्पक्षयोर्द्वयोः । (११।१)
ekādaśīvrataṃ nityaṃ tatkuryātpakṣayordvayoḥ |
द्वादश्यां पारणं कुर्यात्सूतके मृतके चरेत् ॥ (१३।२)
dvādaśyāṃ pāraṇaṃ kuryātsūtake mṛtake caret ||
चतुर्दशीं प्रतिपदं पूर्वमिश्राम् उपावसेत् । (१४।१)
caturdaśīṃ pratipadaṃ pūrvamiśrām upāvaset |
पौर्णमास्याम् अमावास्यां प्रतिपन्मिश्रितां मुने ॥ (१४।२)
paurṇamāsyām amāvāsyāṃ pratipanmiśritāṃ mune ||
द्वितीयां तृतीयामिश्रां तृतीयां चाप्युपावसेत् । (१५।१)
dvitīyāṃ tṛtīyāmiśrāṃ tṛtīyāṃ cāpyupāvaset |
चतुर्थ्या संगतां नित्यं चतुर्थोञ्चनया युताम् । (१५।२)
caturthyā saṃgatāṃ nityaṃ caturthoñcanayā yutām |
पञ्चमीं षष्ठ्यसंयुक्तां षष्ठ्या युक्तां च सप्तमीम् ॥ (१५।३)
pañcamīṃ ṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāṃ ca saptamīm ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भीष्मपञ्चकादिव्रतं नाम त्रयोविंशत्युत्तरशततमो ऽध्यायः ॥ (१६।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhīṣmapañcakādivrataṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.