GarPur, 1, 164
Select a line for its word-by-word analysis.
साधुनिन्दावधाद् युद्धहरणाद्यैश्च सेवितैः ॥ (१।३)
sādhunindāvadhād yuddhaharaṇādyaiśca sevitaiḥ ||
पाप्मभिः कर्मभिः सद्यः प्राक्तनैः प्रेरिता मलाः । (२।१)
pāpmabhiḥ karmabhiḥ sadyaḥ prāktanaiḥ preritā malāḥ |
शिराः प्रपद्य तैर्युक्तास्त्वग्वसारक्तमामिषम् ॥ (२।२)
śirāḥ prapadya tairyuktāstvagvasāraktamāmiṣam ||
त्वचः कुर्वन्ति वैवर्ण्यं शिष्टाः कुष्ठम् उशन्ति तम् ॥ (३।२)
tvacaḥ kurvanti vaivarṇyaṃ śiṣṭāḥ kuṣṭham uśanti tam ||
कालेनोपेक्षितं यत्स्यात्सर्वं कोष्ठानि तद्वपुः । (४।१)
kālenopekṣitaṃ yatsyātsarvaṃ koṣṭhāni tadvapuḥ |
प्रपद्य धातून्बाह्यान्तः सर्वान्संक्लेद्य चावहेत् ॥ (४।२)
prapadya dhātūnbāhyāntaḥ sarvānsaṃkledya cāvahet ||
सस्वेदक्लेदसङ्कोचान्कृमीन् सूक्ष्मांश्च दारुणान् । (५।१)
sasvedakledasaṅkocānkṛmīn sūkṣmāṃśca dāruṇān |
भस्माच्छादितवत्कुर्याद्बाह्यं कुष्ठमुदाहृतम् । (६।१)
bhasmācchāditavatkuryādbāhyaṃ kuṣṭhamudāhṛtam |
कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः ॥ (६।२)
kuṣṭhāni saptadhā doṣaiḥ pṛthagdvandvaiḥ samāgataiḥ ||
वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात् ॥ (७।२)
vātena kuṣṭhaṃ kāpālaṃ pittenaudumbaraṃ kaphāt ||
मण्डलाख्यं विचर्ची च ऋष्याख्यं वातपित्तजम् । (८।१)
maṇḍalākhyaṃ vicarcī ca ṛṣyākhyaṃ vātapittajam |
वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रूशतारुषी । (९।१)
vātaśleṣmodbhavāḥ śleṣmapittāddadrūśatāruṣī |
सर्वेभ्यः काकणं पूर्वत्रिकं दद्रु सकाकणम् । (१०।१)
sarvebhyaḥ kākaṇaṃ pūrvatrikaṃ dadru sakākaṇam |
पुण्डरीकर्क्षजिह्वे च महाकुष्ठानि सप्त तु ॥ (१०।२)
puṇḍarīkarkṣajihve ca mahākuṣṭhāni sapta tu ||
दाहः कण्डूस्त्वचि स्वापस्तोदः कोचोन्नतिस्तमः ॥ (११।२)
dāhaḥ kaṇḍūstvaci svāpastodaḥ koconnatistamaḥ ||
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः । (१२।१)
vraṇānāmadhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ |
रूढानामपि रूक्षत्वं निमित्ते ऽल्पे ऽतिकोपनम् ॥ (१२।२)
rūḍhānāmapi rūkṣatvaṃ nimitte 'lpe 'tikopanam ||
रोमहर्षो ऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् । (१३।१)
romaharṣo 'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam |
विस्तृताकृतिपर्यस्तं दूषितैर् लोमभिश्चितम् । (१४।१)
vistṛtākṛtiparyastaṃ dūṣitair lomabhiścitam |
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् ॥ (१४।२)
kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam ||
स्थिरं सत्यानं गुरु स्निग्धं श्वेतरक्तं मलान्वितम् ॥ (१६।२)
sthiraṃ satyānaṃ guru snigdhaṃ śvetaraktaṃ malānvitam ||
श्लक्ष्णपीताभासंयुक्तं मण्डलं परिकीर्तितम् ॥ (१७।२)
ślakṣṇapītābhāsaṃyuktaṃ maṇḍalaṃ parikīrtitam ||
परुषं तत्र रक्तान्तम् अन्तः श्यामं समुन्नतम् ॥ (१८।२)
paruṣaṃ tatra raktāntam antaḥ śyāmaṃ samunnatam ||
ऋष्यजिह्वाकृतिप्रोक्तं ऋष्यजिह्वं बहुक्रिमि । (१९।१)
ṛṣyajihvākṛtiproktaṃ ṛṣyajihvaṃ bahukrimi |
हस्तिचर्मखरस्पर्शं चर्माख्यं कुष्ठमुच्यते ॥ (१९।२)
hasticarmakharasparśaṃ carmākhyaṃ kuṣṭhamucyate ||
अस्वेदं च मत्स्यशल्कसन्निभं किटिमं पुनः । (२०।१)
asvedaṃ ca matsyaśalkasannibhaṃ kiṭimaṃ punaḥ |
रूक्षाग्निवर्णं दुःस्पर्शं कण्डूमत्परुषासितम् ॥ (२०।२)
rūkṣāgnivarṇaṃ duḥsparśaṃ kaṇḍūmatparuṣāsitam ||
अन्ता रूक्षं बहिः स्निग्धमन्तर्घृष्टं रजः किरेत् । (२१।१)
antā rūkṣaṃ bahiḥ snigdhamantarghṛṣṭaṃ rajaḥ kiret |
श्लक्ष्णस्पर्शं तनु स्निग्धं स्वच्छमस्वेदपुष्पवत् ॥ (२१।२)
ślakṣṇasparśaṃ tanu snigdhaṃ svacchamasvedapuṣpavat ||
प्रायेण चोर्ध्वकार्श्यं च कुण्डैः कण्डूपरैश्चितम् । (२२।१)
prāyeṇa cordhvakārśyaṃ ca kuṇḍaiḥ kaṇḍūparaiścitam |
तीव्रार्तिं गाढकण्डूं च सरागपिडिकाचितम् । (२३।१)
tīvrārtiṃ gāḍhakaṇḍūṃ ca sarāgapiḍikācitam |
स्थूलमूलं सदाहार्ति रक्तस्रावं बहुव्रणम् ॥ (२४।२)
sthūlamūlaṃ sadāhārti raktasrāvaṃ bahuvraṇam ||
रक्ताक्तमण्डलं पाण्डु कण्डूदाहरुजान्वितम् ॥ (२५।२)
raktāktamaṇḍalaṃ pāṇḍu kaṇḍūdāharujānvitam ||
सोत्सेधमाचितं रक्तैः कञ्जपर्णमिवाम्बुभिः । (२६।१)
sotsedhamācitaṃ raktaiḥ kañjaparṇamivāmbubhiḥ |
पुण्डरीकं भवेत्तद्धि चितं स्फोटैः सितारुणैः ॥ (२६।२)
puṇḍarīkaṃ bhavettaddhi citaṃ sphoṭaiḥ sitāruṇaiḥ ||
सूक्ष्मा श्यामारुणा रूक्षा प्रायः स्फिक्पाणिकूर्परे ॥ (२७।२)
sūkṣmā śyāmāruṇā rūkṣā prāyaḥ sphikpāṇikūrpare ||
पूर्वरक्तं च कृष्णं च काकणं त्रिफलोपमम् । (२९।१)
pūrvaraktaṃ ca kṛṣṇaṃ ca kākaṇaṃ triphalopamam |
कृष्णलिङ्गैर्युतैः सर्वैः स्वस्वकारणतो भवेत् ॥ (२९।२)
kṛṣṇaliṅgairyutaiḥ sarvaiḥ svasvakāraṇato bhavet ||
कुष्ठोक्तं यच्च यच्चास्थिमज्जाशुक्रसमाश्रयम् । (३१।१)
kuṣṭhoktaṃ yacca yaccāsthimajjāśukrasamāśrayam |
कृच्छ्रं मेदोमतं चैव याप्यं स्नाय्वास्थिमांसगम् ॥ (३१।२)
kṛcchraṃ medomataṃ caiva yāpyaṃ snāyvāsthimāṃsagam ||
अकृच्छ्रं कफवातोत्थं त्वग्गतं त्वमलं च यत् । (३२।१)
akṛcchraṃ kaphavātotthaṃ tvaggataṃ tvamalaṃ ca yat |
तत्र त्वचि स्थिते कुष्ठे काये वैवर्ण्यरूक्षता ॥ (३२।२)
tatra tvaci sthite kuṣṭhe kāye vaivarṇyarūkṣatā ||
पाणिपादाश्रिताः स्फोटाः क्लेशात्सन्धिषु चाधिकम् ॥ (३३।२)
pāṇipādāśritāḥ sphoṭāḥ kleśātsandhiṣu cādhikam ||
नातिसंज्ञास्ति मज्जास्थिनेत्रवेगस्वरक्षयः ॥ (३४।२)
nātisaṃjñāsti majjāsthinetravegasvarakṣayaḥ ||
क्षते च क्रिमिभिः शुक्रे स्वदारापत्यबाधनम् । (३५।१)
kṣate ca krimibhiḥ śukre svadārāpatyabādhanam |
यथापूर्वाणि सर्वाणि स्वलिङ्गानि मृगादिषु ॥ (३५।२)
yathāpūrvāṇi sarvāṇi svaliṅgāni mṛgādiṣu ||
कुष्ठैकसम्भवं श्वित्रं किलासं दारुणं भवेत् । (३६।१)
kuṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ bhavet |
निर्दिष्टम् अपरिस्रावि त्रिधातूद्भवसंश्रयम् ॥ (३६।२)
nirdiṣṭam aparisrāvi tridhātūdbhavasaṃśrayam ||
वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत् । (३७।१)
vātādrūkṣāruṇaṃ pittāttāmraṃ kamalapatravat |
सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु ॥ (३७।२)
sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru ||
सकण्डूरं क्रमाद्रक्तमांसमेदःसु चादिशेत् । (३८।१)
sakaṇḍūraṃ kramādraktamāṃsamedaḥsu cādiśet |
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥ (३८।२)
varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram ||
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतो ऽन्यथा ॥ (३९।२)
anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato 'nyathā ||
गुह्यपाणितलौष्ठेषु जातम् अप्य् अचिरन्तरम् । (४०।१)
guhyapāṇitalauṣṭheṣu jātam apy acirantaram |
वर्जनीयं विशेषेण किलासं सिद्धिम् इच्छता ॥ (४०।२)
varjanīyaṃ viśeṣeṇa kilāsaṃ siddhim icchatā ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कुष्ठरोगनिदानं नाम चतुःषष्ट्युत्तरशततमो ऽध्यायः ॥ (४२।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kuṣṭharoganidānaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.