GarPur, 1, 83
Select a line for its word-by-word analysis.
मुण्डपृष्ठं तु पूर्वस्मिन्पश्चिमे दक्षिणोत्तरे । (२।१)
muṇḍapṛṣṭhaṃ tu pūrvasminpaścime dakṣiṇottare |
सार्धक्रोशद्वयं मानं गयायां परिकीर्तितम् ॥ (२।२)
sārdhakrośadvayaṃ mānaṃ gayāyāṃ parikīrtitam ||
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः । (३।१)
pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ |
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ॥ (४।२)
etadgayāśiraḥ proktaṃ phalgutīrthaṃ taducyate ||
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् ॥ (६।२)
taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate vai ṛṇatrayāt ||
दृष्ट्वा पितामहं देवं सर्वपापैः प्रमुच्यते । (८।१)
dṛṣṭvā pitāmahaṃ devaṃ sarvapāpaiḥ pramucyate |
लोकं त्वनामयं याति दृष्ट्वा च प्रपितामहम् ॥ (८।२)
lokaṃ tvanāmayaṃ yāti dṛṣṭvā ca prapitāmaham ||
दृष्ट्वा मौनेन विप्रर्षे पितॄणामनृणो भवेत् ॥ (१०।२)
dṛṣṭvā maunena viprarṣe pitṝṇāmanṛṇo bhavet ||
ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात् । (११।१)
brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt |
गायत्त्रीं प्रातरुत्थाय यस्तु पश्यति मानवः ॥ (११।२)
gāyattrīṃ prātarutthāya yastu paśyati mānavaḥ ||
सन्ध्यां कृत्वा प्रयत्नेन सर्ववेदफलं लभेत् । (१२।१)
sandhyāṃ kṛtvā prayatnena sarvavedaphalaṃ labhet |
सावित्रीं चैव मध्याह्ने दृष्ट्वा यज्ञफलं लभेत् ॥ (१२।२)
sāvitrīṃ caiva madhyāhne dṛṣṭvā yajñaphalaṃ labhet ||
सरस्वतीं च सायाह्ने दृष्ट्वा दानफलं लभेत् । (१३।१)
sarasvatīṃ ca sāyāhne dṛṣṭvā dānaphalaṃ labhet |
नगस्थमीश्वरं दृष्ट्वा पितॄणामनृणो भवेत् ॥ (१३।२)
nagasthamīśvaraṃ dṛṣṭvā pitṝṇāmanṛṇo bhavet ||
धर्मारण्यं धर्ममीशं दृष्ट्वा स्यादृणनाशनम् । (१४।१)
dharmāraṇyaṃ dharmamīśaṃ dṛṣṭvā syādṛṇanāśanam |
देवं गृध्रेश्वरं दृष्ट्वा को न मुच्येत बन्धनात् ॥ (१४।२)
devaṃ gṛdhreśvaraṃ dṛṣṭvā ko na mucyeta bandhanāt ||
धेनुं दृष्ट्वा धेनुवने ब्रह्मलोकं नयेत्पितॄन् । (१५।१)
dhenuṃ dṛṣṭvā dhenuvane brahmalokaṃ nayetpitṝn |
प्रभासेशं प्रभासे च दृष्ट्वा याति परां गतिम् ॥ (१५।२)
prabhāseśaṃ prabhāse ca dṛṣṭvā yāti parāṃ gatim ||
कोटीश्वरं चाश्वमेधं दृष्ट्वा स्यादृणनाशनम् । (१६।१)
koṭīśvaraṃ cāśvamedhaṃ dṛṣṭvā syādṛṇanāśanam |
स्वर्गद्वारेश्वरं दृष्ट्वा मुच्यते भवबन्धनात् ॥ (१६।२)
svargadvāreśvaraṃ dṛṣṭvā mucyate bhavabandhanāt ||
रामेश्वरं गयालोलं दृष्ट्वा स्वर्गमवाप्नुयात् । (१७।१)
rāmeśvaraṃ gayālolaṃ dṛṣṭvā svargamavāpnuyāt |
ब्रह्मेश्वरं तथा दृष्ट्वा मुच्यते ब्रह्महत्यया ॥ (१७।२)
brahmeśvaraṃ tathā dṛṣṭvā mucyate brahmahatyayā ||
मुण्डपृष्ठे महाचण्डीं दृष्ट्वा कामानवाप्नुयात् । (१८।१)
muṇḍapṛṣṭhe mahācaṇḍīṃ dṛṣṭvā kāmānavāpnuyāt |
फल्ग्वीशं फल्गुचण्डीं च गौरीं दृष्ट्वा च मङ्गलाम् ॥ (१८।२)
phalgvīśaṃ phalgucaṇḍīṃ ca gaurīṃ dṛṣṭvā ca maṅgalām ||
अङ्गारेशं च सिद्धेशं गयादित्यं गजं तथा ॥ (१९।२)
aṅgāreśaṃ ca siddheśaṃ gayādityaṃ gajaṃ tathā ||
मार्कण्डेयेश्वरं दृष्ट्वा पितॄणामनृणो भवेत् । (२०।१)
mārkaṇḍeyeśvaraṃ dṛṣṭvā pitṝṇāmanṛṇo bhavet |
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ॥ (२०।२)
phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam ||
एतेन किं न पर्याप्तं नॄणां सुकृतकारिणाम् । (२१।१)
etena kiṃ na paryāptaṃ nṝṇāṃ sukṛtakāriṇām |
पृथिव्यां यानि तीर्थानि ये समुद्राः सरांसि च । (२२।१)
pṛthivyāṃ yāni tīrthāni ye samudrāḥ sarāṃsi ca |
फल्गुतीर्थं गमिष्यन्ति वारमेकं दिने दिने ॥ (२२।२)
phalgutīrthaṃ gamiṣyanti vāramekaṃ dine dine ||
पृथिव्यां च गया पुण्या गयायां च गयाशिरः । (२३।१)
pṛthivyāṃ ca gayā puṇyā gayāyāṃ ca gayāśiraḥ |
श्रेष्ठं तथा फल्गुतीर्थं तन्मुखं च सुरस्य हि ॥ (२३।२)
śreṣṭhaṃ tathā phalgutīrthaṃ tanmukhaṃ ca surasya hi ||
पुण्यं ब्रह्मसदस्तीर्थं स्नानात्स्याद्ब्रह्मलोकदम् ॥ (२४।२)
puṇyaṃ brahmasadastīrthaṃ snānātsyādbrahmalokadam ||
कूपे पिण्डादिकं कृत्वा पितॄणामनृणो भवेत् । (२५।१)
kūpe piṇḍādikaṃ kṛtvā pitṝṇāmanṛṇo bhavet |
तथाक्षयवटे श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ॥ (२५।२)
tathākṣayavaṭe śrāddhī brahmalokaṃ nayetpitṝn ||
हंसतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते । (२६।१)
haṃsatīrthe naraḥ snātvā sarvapāpaiḥ pramucyate |
ब्रह्मलोकं नयेच्छ्राद्धी पुरुषानेकविंशतिम् । (२७।१)
brahmalokaṃ nayecchrāddhī puruṣānekaviṃśatim |
ब्रह्मतीर्थे रामतीर्थे आग्नेये सोमतीर्थके ॥ (२७।२)
brahmatīrthe rāmatīrthe āgneye somatīrthake ||
श्राद्धी रामह्रदे ब्रह्मलोकं पितृकुलं नयेत् । (२८।१)
śrāddhī rāmahrade brahmalokaṃ pitṛkulaṃ nayet |
उत्तरे मानसे श्राद्धी न भूयो जायते नरः ॥ (२८।२)
uttare mānase śrāddhī na bhūyo jāyate naraḥ ||
दक्षिणे मानसे श्राद्धी ब्रह्मलोकं पितॄन्नयेत् । (२९।१)
dakṣiṇe mānase śrāddhī brahmalokaṃ pitṝnnayet |
स्वर्गद्वारे नरः श्राद्धी ब्रह्मलोकं नयेत्पितॄन् । (२९।२)
svargadvāre naraḥ śrāddhī brahmalokaṃ nayetpitṝn |
गृध्रेश्वरे तथा श्राद्धी पितॄणामनृणो भवेत् ॥ (२९।४)
gṛdhreśvare tathā śrāddhī pitṝṇāmanṛṇo bhavet ||
श्राद्धी च धेनुकारण्ये ब्रह्मलोकं पितॄन्नयेत् । (३०।१)
śrāddhī ca dhenukāraṇye brahmalokaṃ pitṝnnayet |
तिलधेनुप्रदः स्नात्वा दृष्ट्वा धेनुं न संशयः ॥ (३०।२)
tiladhenupradaḥ snātvā dṛṣṭvā dhenuṃ na saṃśayaḥ ||
ऐन्द्रे वा नरतीर्थे च वासवे वैष्णवे तथा । (३१।१)
aindre vā naratīrthe ca vāsave vaiṣṇave tathā |
महानद्यां कृतश्राद्धो ब्रह्मलोकं नयेत्पितॄन् ॥ (३१।२)
mahānadyāṃ kṛtaśrāddho brahmalokaṃ nayetpitṝn ||
गायत्रे चैव सावित्रे तीर्थे सारस्वते तथा । (३२।१)
gāyatre caiva sāvitre tīrthe sārasvate tathā |
स्नानसन्ध्यातर्पणकृच्छ्राद्धी चैकोत्तरं शतम् ॥ (३२।२)
snānasandhyātarpaṇakṛcchrāddhī caikottaraṃ śatam ||
ब्रह्मयोनिं विनिर्गच्छेत्प्रयतः पितृमानसः ॥ (३३।२)
brahmayoniṃ vinirgacchetprayataḥ pitṛmānasaḥ ||
तर्पयित्वा पितॄन्देवान्न विशेद्योनिसङ्कटे । (३४।१)
tarpayitvā pitṝndevānna viśedyonisaṅkaṭe |
तर्पणे काकजङ्घार्या पितॄणां तृप्तिरक्षया ॥ (३४।२)
tarpaṇe kākajaṅghāryā pitṝṇāṃ tṛptirakṣayā ||
धर्मारण्ये मतङ्गस्य वाप्यां श्राद्धाद्दिवं व्रजेत् । (३५।१)
dharmāraṇye mataṅgasya vāpyāṃ śrāddhāddivaṃ vrajet |
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः । (३६।१)
pramāṇaṃ devatāḥ santu lokapālāśca sākṣiṇaḥ |
मयागत्य मतंगे ऽस्मिन्पितॄणां निष्कृतिः कृता ॥ (३६।२)
mayāgatya mataṃge 'sminpitṝṇāṃ niṣkṛtiḥ kṛtā ||
रामतीर्थे नराः स्नात्वा श्राद्धं कृत्वा प्रभासके । (३७।१)
rāmatīrthe narāḥ snātvā śrāddhaṃ kṛtvā prabhāsake |
शिलायां प्रेतभावात्स्युर्मुक्ताः पितृगणाः किल ॥ (३७।२)
śilāyāṃ pretabhāvātsyurmuktāḥ pitṛgaṇāḥ kila ||
श्राद्धकृच्च स्वपुष्टायां त्रिः सफ्त कुलम् उद्धरेत् । (३८।१)
śrāddhakṛcca svapuṣṭāyāṃ triḥ saphta kulam uddharet |
श्राद्धकृन्मुण्डपृष्ठादौ ब्रह्मलोकं नयेत्पितॄन् ॥ (३८।२)
śrāddhakṛnmuṇḍapṛṣṭhādau brahmalokaṃ nayetpitṝn ||
गयायां न हि तत्स्थानं यत्र तीर्थं न विद्यते । (३९।१)
gayāyāṃ na hi tatsthānaṃ yatra tīrthaṃ na vidyate |
पञ्चक्रोशे गयाक्षेत्रे यत्र तत्र तु पिण्डदः ॥ (३९।२)
pañcakrośe gayākṣetre yatra tatra tu piṇḍadaḥ ||
अक्षयं फलमाप्नोति ब्रह्मलोकं नयेत्पितॄन् । (४०।१)
akṣayaṃ phalamāpnoti brahmalokaṃ nayetpitṝn |
जनार्दनस्य हस्ते तु पिण्डं दद्यात्स्वकं नरः ॥ (४०।२)
janārdanasya haste tu piṇḍaṃ dadyātsvakaṃ naraḥ ||
ब्रह्मलोकमवाप्नोति पितृभिः सह निश्चितम् । (४२।१)
brahmalokamavāpnoti pitṛbhiḥ saha niścitam |
गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा ॥ (४२।२)
gayāyāṃ dharmapṛṣṭhe ca sarasi brahmaṇastathā ||
धर्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च ॥ (४३।२)
dharmāraṇyaṃ dharmapṛṣṭhaṃ dhenukāraṇyameva ca ||
दृष्ट्वैतानि पितॄंश्चार्यवंश्यान्विंशतिमुद्धरेत् । (४४।१)
dṛṣṭvaitāni pitṝṃścāryavaṃśyānviṃśatimuddharet |
ब्रह्मारण्यं महानद्याः पश्चिमो भाग उच्यते ॥ (४४।२)
brahmāraṇyaṃ mahānadyāḥ paścimo bhāga ucyate ||
पूर्वो ब्रह्मसदो भागो नागाद्रिर्भरताश्रमः । (४५।१)
pūrvo brahmasado bhāgo nāgādrirbharatāśramaḥ |
भरतस्याश्रमे श्राद्धी मतङ्गस्य पदे भवेत् ॥ (४५।२)
bharatasyāśrame śrāddhī mataṅgasya pade bhavet ||
तत्स्मृतं चम्पकवनं तत्र पाण्डुशिलास्ति हि ॥ (४६।२)
tatsmṛtaṃ campakavanaṃ tatra pāṇḍuśilāsti hi ||
श्राद्धी तत्र तृतीयायां निश्चिरायाश्च मण्डले । (४७।१)
śrāddhī tatra tṛtīyāyāṃ niścirāyāśca maṇḍale |
महाह्रदे च कौशिक्यामक्षयं फलमाप्नुयात् ॥ (४७।२)
mahāhrade ca kauśikyāmakṣayaṃ phalamāpnuyāt ||
वैतरण्याश् चोत्तरतस् तृतीयाख्यो जलाशयः । (४८।१)
vaitaraṇyāś cottaratas tṛtīyākhyo jalāśayaḥ |
पदानि तत्र क्रौञ्चस्य श्राद्धी स्वर्गं नयेत्पितॄन् ॥ (४८।२)
padāni tatra krauñcasya śrāddhī svargaṃ nayetpitṝn ||
क्रौञ्चपादादुत्तरतो निश्चिराख्यो जलाशयः । (४९।१)
krauñcapādāduttarato niścirākhyo jalāśayaḥ |
दुर्लभं किं पुनर्नित्यम् अस्मिन् एव व्यवस्थितिः । (५०।१)
durlabhaṃ kiṃ punarnityam asmin eva vyavasthitiḥ |
अक्षयान्प्राप्नुयाल्लोकान्कुलं चापि समुद्धरेत् । (५१।१)
akṣayānprāpnuyāllokānkulaṃ cāpi samuddharet |
सावित्रे पठ्यते सन्ध्या कृता स्याद् द्वादशाब्दिकी ॥ (५१।२)
sāvitre paṭhyate sandhyā kṛtā syād dvādaśābdikī ||
शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नरः । (५२।१)
śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ |
पुनात्य् आ सप्तमं चैव कुलं नास्त्यत्र संशयः ॥ (५२।२)
punāty ā saptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ ||
गयायां मुण्डपृष्ठं च अरविन्दं च पर्वतम् । (५३।१)
gayāyāṃ muṇḍapṛṣṭhaṃ ca aravindaṃ ca parvatam |
तृतीयं क्रौञ्चपादं च दृष्ट्वा पापैः प्रमुच्यते ॥ (५३।२)
tṛtīyaṃ krauñcapādaṃ ca dṛṣṭvā pāpaiḥ pramucyate ||
दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥ (५४।२)
durlabhaṃ triṣu lokeṣu gayāyāṃ piṇḍapātanam ||
महाह्रदे च कौशिक्यां मूलक्षेत्रे विशेषतः । (५५।१)
mahāhrade ca kauśikyāṃ mūlakṣetre viśeṣataḥ |
गुहायां गृध्रकूटस्य श्राद्धं दत्तं महाफलम् ॥ (५५।२)
guhāyāṃ gṛdhrakūṭasya śrāddhaṃ dattaṃ mahāphalam ||
यत्र माहेश्वरी धारा श्राद्धी तत्रानृणो भवेत् । (५६।१)
yatra māheśvarī dhārā śrāddhī tatrānṛṇo bhavet |
पुण्यां विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् ॥ (५६।२)
puṇyāṃ viśālāmāsādya nadīṃ trailokyaviśrutām ||
अग्निष्टोममवाप्नोति श्राद्धी प्रायाद्दिवं नरः । (५७।१)
agniṣṭomamavāpnoti śrāddhī prāyāddivaṃ naraḥ |
श्राद्धी मासपदे स्नात्वा वाजपेयफलं लभेत् ॥ (५७।२)
śrāddhī māsapade snātvā vājapeyaphalaṃ labhet ||
गयास्थो यो ददात्यन्नं पितरस्तेन पुत्रिणः ॥ (५८।२)
gayāstho yo dadātyannaṃ pitarastena putriṇaḥ ||
काङ्क्षन्ते पितरः पुत्रान्नरकाद्भयभीरवः । (५९।१)
kāṅkṣante pitaraḥ putrānnarakādbhayabhīravaḥ |
गयां यास्यति यः कश्चित्सो ऽस्मान् संतरयिष्यति ॥ (५९।२)
gayāṃ yāsyati yaḥ kaścitso 'smān saṃtarayiṣyati ||
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् । (६०।१)
gayāprāptaṃ sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet |
पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किल दास्यति ॥ (६०।२)
padbhyāmapi jalaṃ spṛṣṭvā asmabhyaṃ kila dāsyati ||
यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥ (६१।२)
yannāmnā pātayetpiṇḍaṃ taṃ nayedbrahma śāśvatam ||
पुण्डरीकं विष्णुलोकं प्राप्नुयात्कोटितीर्थगः । (६२।१)
puṇḍarīkaṃ viṣṇulokaṃ prāpnuyātkoṭitīrthagaḥ |
या सा वैतरणी नाम त्रिषु लोकेषु विश्रुता ॥ (६२।२)
yā sā vaitaraṇī nāma triṣu lokeṣu viśrutā ||
श्राद्धदः पिण्डदस्तत्र गोप्रदानं करोति यः ॥ (६३।२)
śrāddhadaḥ piṇḍadastatra gopradānaṃ karoti yaḥ ||
यदि पुत्रो गयां गच्छेत्कदाचित्कालपर्यये ॥ (६४।२)
yadi putro gayāṃ gacchetkadācitkālaparyaye ||
तानेव भोजयेद्विप्रान्ब्रह्मणा ये प्रकल्पिताः । (६५।१)
tāneva bhojayedviprānbrahmaṇā ye prakalpitāḥ |
तेषां ब्रह्मसदः स्थानं सोमपानं तथैव च ॥ (६५।२)
teṣāṃ brahmasadaḥ sthānaṃ somapānaṃ tathaiva ca ||
ब्रह्मप्रकल्पितं स्थानं विप्रा ब्रह्मप्रकल्पिताः । (६६।१)
brahmaprakalpitaṃ sthānaṃ viprā brahmaprakalpitāḥ |
पूजितैः पूजिताः सर्वे पितृभिः सह देवताः ॥ (६६।२)
pūjitaiḥ pūjitāḥ sarve pitṛbhiḥ saha devatāḥ ||
तर्पयेत्तु गयाविप्रान्हव्यकव्यैर्विधानतः । (६७।१)
tarpayettu gayāviprānhavyakavyairvidhānataḥ |
यः करोति वृषोत्सर्गं गयाक्षेत्रे ह्यनुत्तमे । (६८।१)
yaḥ karoti vṛṣotsargaṃ gayākṣetre hyanuttame |
अग्निष्टोमशतं पुण्यं लभते नात्र संशयः ॥ (६८।२)
agniṣṭomaśataṃ puṇyaṃ labhate nātra saṃśayaḥ ||
आत्मनो ऽपि महाबुद्धिर्गयायां तु तिलैर्विना । (६९।१)
ātmano 'pi mahābuddhirgayāyāṃ tu tilairvinā |
यावन्तो ज्ञातयः पित्र्या बान्धवाः सुहृदस्तथा । (७०।१)
yāvanto jñātayaḥ pitryā bāndhavāḥ suhṛdastathā |
तेभ्यो व्यासगयाभूमौ पिण्डो देयो विधानतः ॥ (७०।२)
tebhyo vyāsagayābhūmau piṇḍo deyo vidhānataḥ ||
रामतीर्थे नरः स्नात्वा गोशतस्याप्नुयात्फलम् । (७१।१)
rāmatīrthe naraḥ snātvā gośatasyāpnuyātphalam |
मतङ्गवाप्यां स्नात्वा च गोसहस्रफलं लभेत् ॥ (७१।२)
mataṅgavāpyāṃ snātvā ca gosahasraphalaṃ labhet ||
निश्चिरासंगमे स्नात्वा ब्रह्मलोकं नयेत्पितॄन् । (७२।१)
niścirāsaṃgame snātvā brahmalokaṃ nayetpitṝn |
वसिष्ठस्याश्रमे स्नात्वा वाजपेयं च विन्दति ॥ (७२।२)
vasiṣṭhasyāśrame snātvā vājapeyaṃ ca vindati ||
समीपे त्वग्निधारेति विश्रुता कपिला हि सा । (७४।१)
samīpe tvagnidhāreti viśrutā kapilā hi sā |
अग्निष्टोमफलं श्राद्धी स्नात्वात्र कृतकृत्यता ॥ (७४।२)
agniṣṭomaphalaṃ śrāddhī snātvātra kṛtakṛtyatā ||
सोमकुण्डे नरः स्नात्वा सोमलोकं च गच्छति । (७६।१)
somakuṇḍe naraḥ snātvā somalokaṃ ca gacchati |
संवर्तस्य नरो वाप्यां सुभगः स्यात्तु पिण्डदः ॥ (७६।२)
saṃvartasya naro vāpyāṃ subhagaḥ syāttu piṇḍadaḥ ||
धौतपापो नरो याति प्रेतकुण्डे च पिण्डदः । (७७।१)
dhautapāpo naro yāti pretakuṇḍe ca piṇḍadaḥ |
नत्वा देवान्वसिष्ठेशप्रभृतीनृणसंक्षयम् ॥ (७८।२)
natvā devānvasiṣṭheśaprabhṛtīnṛṇasaṃkṣayam ||
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम त्र्यशीतितमो ऽध्यायः ॥ (७९।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma tryaśītitamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.