गरुडपुराणGaruḍapurāṇa

GarPur, 1, 32

32 of 166 · 135 verses

Select a line for its word-by-word analysis.

1.1१.१

महेश्वर उवाच । (१।१)

maheśvara uvāca

1.2१.२

पञ्चतत्त्वार्चनं ब्रूहि शङ्खचक्रगदाधर । (१।२)

pañcatattvārcanaṃ brūhi śaṅkhacakragadādhara |

1.3१.३

येन विज्ञानमात्रेण नरो याति परं पदम् ॥ (१।३)

yena vijñānamātreṇa naro yāti paraṃ padam ||

2.1२.१

हरिरुवाच । (२।१)

hariruvāca |

2.2२.२

पञ्चतत्त्वार्चनं वक्ष्ये तव शङ्कर सुव्रत । (२।२)

pañcatattvārcanaṃ vakṣye tava śaṅkara suvrata |

2.3२.३

मङ्गल्यं मङ्गलं दिव्यं रहस्यं कामदं परम् ॥ (२।३)

maṅgalyaṃ maṅgalaṃ divyaṃ rahasyaṃ kāmadaṃ param ||

3.1३.१

तच्छृणुष्व महादेव पवित्रं कलिनाशनम् । (३।१)

tacchṛṇuṣva mahādeva pavitraṃ kalināśanam |

3.2३.२

एक एवाव्ययः शान्तः परमात्मा सनातनः ॥ (३।२)

eka evāvyayaḥ śāntaḥ paramātmā sanātanaḥ ||

4.1४.१

वासुदेवो ध्रुवः शुद्धः सर्वव्यापी निरञ्जनः । (४।१)

vāsudevo dhruvaḥ śuddhaḥ sarvavyāpī nirañjanaḥ |

4.2४.२

स एव मायाया देव पञ्चधा संस्थितो हरिः ॥ (४।२)

sa eva māyāyā deva pañcadhā saṃsthito hariḥ ||

5.1५.१

लोकानुग्रहकृद्विष्णुः सर्वदुष्टविनाशनः । (५।१)

lokānugrahakṛdviṣṇuḥ sarvaduṣṭavināśanaḥ |

5.2५.२

वासुदेवस्वरूपेण तथा सङ्कर्षणेन च ॥ (५।२)

vāsudevasvarūpeṇa tathā saṅkarṣaṇena ca ||

6.1६.१

तथा प्रद्युम्नरूपेणानिरुद्धाख्येन च स्थितः । (६।१)

tathā pradyumnarūpeṇāniruddhākhyena ca sthitaḥ |

6.2६.२

नारायणस्वरूपेण पञ्चधा ह्यद्वयः स्थितः ॥ (६।२)

nārāyaṇasvarūpeṇa pañcadhā hyadvayaḥ sthitaḥ ||

7.1७.१

एतेषां वाचकान्मन्त्रान् एताञ्छृणु वृषध्वज । (७।१)

eteṣāṃ vācakānmantrān etāñchṛṇu vṛṣadhvaja |

7.2७.२

ॐ अं वासुदेवाय नमः । (७।२)

oṃ aṃ vāsudevāya namaḥ |

7.3७.३

ॐ आं संकर्षणाय नमः । (७।३)

oṃ āṃ saṃkarṣaṇāya namaḥ |

7.4७.४

ॐ अं प्रद्युम्नाय नमः । (७।४)

oṃ aṃ pradyumnāya namaḥ |

7.5७.५

ॐ अनिरुद्धाय नमः । (७।५)

oṃ aniruddhāya namaḥ |

7.6७.६

ॐ ॐ नारायणाय नमः ॥ (७।६)

oṃ oṃ nārāyaṇāya namaḥ ||

8.1८.१

पञ्च मन्त्राः समाख्याता देवानां वाचकास्तव । (८।१)

pañca mantrāḥ samākhyātā devānāṃ vācakāstava |

8.2८.२

सर्वपापहराः पुण्याः सर्वरोगविनाशनाः ॥ (८।२)

sarvapāpaharāḥ puṇyāḥ sarvarogavināśanāḥ ||

9.1९.१

अधुना सम्प्रवक्ष्यामि पञ्चतत्त्वार्चनं शुभम् । (९।१)

adhunā sampravakṣyāmi pañcatattvārcanaṃ śubham |

9.2९.२

विधिना येन कर्तव्यं यैर्वा मन्त्रैश्च शङ्कर ॥ (९।२)

vidhinā yena kartavyaṃ yairvā mantraiśca śaṅkara ||

10.1१०.१

आदौ स्नानं प्रकुर्वीत स्नात्वा सन्ध्यां समाचरेत् । (१०।१)

ādau snānaṃ prakurvīta snātvā sandhyāṃ samācaret |

10.2१०.२

अर्चनागारमासाद्य प्रक्षाल्यार्घ्यादिकं तथा ॥ (१०।२)

arcanāgāramāsādya prakṣālyārghyādikaṃ tathā ||

11.1११.१

आचम्योपविशेत्प्राज्ञो बद्धासनमभीप्सितम् । (११।१)

ācamyopaviśetprājño baddhāsanamabhīpsitam |

11.2११.२

शोषणादि ततः कुर्याद् अं क्षैं रमिति मन्त्रकैः ॥ (११।२)

śoṣaṇādi tataḥ kuryād aṃ kṣaiṃ ramiti mantrakaiḥ ||

12.1१२.१

सामान्यं कठिनीकृत्य चाण्डमुत्पादयेत्ततः । (१२।१)

sāmānyaṃ kaṭhinīkṛtya cāṇḍamutpādayettataḥ |

12.2१२.२

विभिद्याण्डं ततो ह्यण्डे भावयेत् परमेश्वरम् ॥ (१२।२)

vibhidyāṇḍaṃ tato hyaṇḍe bhāvayet parameśvaram ||

13.1१३.१

वासुदेवं जगन्नाथं पीतकौशेयवाससम् । (१३।१)

vāsudevaṃ jagannāthaṃ pītakauśeyavāsasam |

13.2१३.२

सहस्रादित्यसङ्काशं स्फुरन्मकरकुण्डलम् ॥ (१३।२)

sahasrādityasaṅkāśaṃ sphuranmakarakuṇḍalam ||

14.1१४.१

आत्मनो हृदि पद्मे तु ध्यायेत्तु परमेश्वरम् । (१४।१)

ātmano hṛdi padme tu dhyāyettu parameśvaram |

14.2१४.२

ततः संकर्षणं देवमात्मानं चिन्तयेत्प्रभुम् ॥ (१४।२)

tataḥ saṃkarṣaṇaṃ devamātmānaṃ cintayetprabhum ||

15.1१५.१

प्रद्युम्नमनिरुद्धं च श्रीमन्नारायणं ततः । (१५।१)

pradyumnamaniruddhaṃ ca śrīmannārāyaṇaṃ tataḥ |

15.2१५.२

इन्द्रादींश्च सुरांस्तस्माद्देवदेवात्समुत्थितान् ॥ (१५।२)

indrādīṃśca surāṃstasmāddevadevātsamutthitān ||

16.1१६.१

चिन्तयेच्च ततो न्यासं कय्यान्द्वै कारयोर्द्वयोः । (१६।१)

cintayecca tato nyāsaṃ kayyāndvai kārayordvayoḥ |

16.2१६.२

व्यापकं मूलमन्त्रेण चाङ्गन्यासं ततः परम् ॥ (१६।२)

vyāpakaṃ mūlamantreṇa cāṅganyāsaṃ tataḥ param ||

17.1१७.१

अङ्गमन्त्रैर्महादेव तान्मन्त्राञ्शृणु सुव्रत । (१७।१)

aṅgamantrairmahādeva tānmantrāñśṛṇu suvrata |

17.2१७.२

ॐ आं हृदयाय नमः । (१७।२)

oṃ āṃ hṛdayāya namaḥ |

17.3१७.३

ॐ ईं शिरसे नमः । (१७।३)

oṃ īṃ śirase namaḥ |

17.4१७.४

ॐ ऊं शिखायै नमः । (१७।४)

oṃ ūṃ śikhāyai namaḥ |

17.5१७.५

ॐ ऐं कवचाय नमः । (१७।५)

oṃ aiṃ kavacāya namaḥ |

17.6१७.६

ॐ औं नेत्रत्रयाय नमः । (१७।६)

oṃ auṃ netratrayāya namaḥ |

17.7१७.७

ॐ अः अस्त्राय फट् ॥ (१७।७)

oṃ aḥ astrāya phaṭ ||

18.1१८.१

ॐ समस्तपरिवारायाच्युताय नमः । (१८।१)

oṃ samastaparivārāyācyutāya namaḥ |

18.2१८.२

ॐ धात्रे नमः । (१८।२)

oṃ dhātre namaḥ |

18.3१८.३

ॐ विधात्रे नमः । (१८।३)

oṃ vidhātre namaḥ |

18.4१८.४

ॐ आधारशक्त्यै नमः । (१८।४)

oṃ ādhāraśaktyai namaḥ |

18.5१८.५

ॐ कूर्माय नमः । (१८।५)

oṃ kūrmāya namaḥ |

18.6१८.६

ॐ अनन्ताय नमः । (१८।६)

oṃ anantāya namaḥ |

18.7१८.७

ॐ पृथिव्यै नमः । (१८।७)

oṃ pṛthivyai namaḥ |

18.8१८.८

ॐ धर्माय नमः । (१८।८)

oṃ dharmāya namaḥ |

18.9१८.९

ॐ धर्माय नमः । (१८।९)

oṃ dharmāya namaḥ |

18.10१८.१०

ॐ ज्ञानाय नमः । (१८।१०)

oṃ jñānāya namaḥ |

18.11१८.११

ॐ वैराग्याय नमः । (१८।११)

oṃ vairāgyāya namaḥ |

18.12१८.१२

ॐ ऐश्वर्याय नमः । (१८।१२)

oṃ aiśvaryāya namaḥ |

18.13१८.१३

ॐ अज्ञानाय नमः । (१८।१३)

oṃ ajñānāya namaḥ |

18.14१८.१४

ॐ अनैश्वर्याय नमः । (१८।१४)

oṃ anaiśvaryāya namaḥ |

18.15१८.१५

ॐ अं अर्कमण्डलाय नमः । (१८।१५)

oṃ aṃ arkamaṇḍalāya namaḥ |

18.16१८.१६

ॐ स्ॐ सोममण्डलाय नमः । (१८।१६)

oṃ soṃ somamaṇḍalāya namaḥ |

18.17१८.१७

ॐ वं वह्निमण्डलाय नमः । (१८।१७)

oṃ vaṃ vahnimaṇḍalāya namaḥ |

18.18१८.१८

ॐ वं वासुदेवाय परब्रह्मणे शिवाय तेजोरूपाय व्यापिने सर्वदेवाधिदेवाय नमः । (१८।१८)

oṃ vaṃ vāsudevāya parabrahmaṇe śivāya tejorūpāya vyāpine sarvadevādhidevāya namaḥ |

18.19१८.१९

ॐ पाञ्चजन्याय नमः । (१८।१९)

oṃ pāñcajanyāya namaḥ |

18.20१८.२०

ॐ सुदर्शनाय नमः । (१८।२०)

oṃ sudarśanāya namaḥ |

18.21१८.२१

ॐ गदायै नमः । (१८।२१)

oṃ gadāyai namaḥ |

18.22१८.२२

ॐ पद्माय नमः । (१८।२२)

oṃ padmāya namaḥ |

18.23१८.२३

ॐ श्रियै नमः । (१८।२३)

oṃ śriyai namaḥ |

18.24१८.२४

ॐ ह्रियै नमः । (१८।२४)

oṃ hriyai namaḥ |

18.25१८.२५

ॐ पुष्ट्यै नमः । (१८।२५)

oṃ puṣṭyai namaḥ |

18.26१८.२६

ॐ गीत्यै नमः । (१८।२६)

oṃ gītyai namaḥ |

18.27१८.२७

ॐ शक्त्यै नमः । (१८।२७)

oṃ śaktyai namaḥ |

18.28१८.२८

ॐ प्रीत्यै नमः । (१८।२८)

oṃ prītyai namaḥ |

18.29१८.२९

ॐ इन्द्राय नमः । (१८।२९)

oṃ indrāya namaḥ |

18.30१८.३०

ॐ अग्नये नमः । (१८।३०)

oṃ agnaye namaḥ |

18.31१८.३१

ॐ यमाय नमः । (१८।३१)

oṃ yamāya namaḥ |

18.32१८.३२

ॐ निरृतये नमः । (१८।३२)

oṃ nirṛtaye namaḥ |

18.33१८.३३

ॐ वरुणाय नमः । (१८।३३)

oṃ varuṇāya namaḥ |

18.34१८.३४

ॐ वायवे नमः । (१८।३४)

oṃ vāyave namaḥ |

18.35१८.३५

ॐ सोमाय नमः । (१८।३५)

oṃ somāya namaḥ |

18.36१८.३६

ॐ ईशानाय नमः । (१८।३६)

oṃ īśānāya namaḥ |

18.37१८.३७

ॐ अनन्ताय नमः । (१८।३७)

oṃ anantāya namaḥ |

18.38१८.३८

ॐ ब्रह्मणे नमः । (१८।३८)

oṃ brahmaṇe namaḥ |

18.39१८.३९

ॐ विष्वक्सेनाय नमः ॥ (१८।३९)

oṃ viṣvaksenāya namaḥ ||

19.1१९.१

एते मन्त्राः समाख्यातास्तव रुद्र समासतः । (१९।१)

ete mantrāḥ samākhyātāstava rudra samāsataḥ |

19.2१९.२

पूजा चैव प्रकर्तव्या मण्डले स्वस्तिकादिके ॥ (१९।२)

pūjā caiva prakartavyā maṇḍale svastikādike ||

20.1२०.१

ॐ पद्माय नमः । (२०।१)

oṃ padmāya namaḥ |

20.2२०.२

अङ्गन्यासं च कृत्वा तु मुद्राः सर्वाः प्रदर्शयेत् । (२०।२)

aṅganyāsaṃ ca kṛtvā tu mudrāḥ sarvāḥ pradarśayet |

20.3२०.३

आत्मानं वासुदेवं च ध्यात्वा चैव परेश्वरम् ॥ (२०।३)

ātmānaṃ vāsudevaṃ ca dhyātvā caiva pareśvaram ||

21.1२१.१

आसनं पूजयेत्पश्चादावाह्य विधिवन्नरः । (२१।१)

āsanaṃ pūjayetpaścādāvāhya vidhivannaraḥ |

21.2२१.२

द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वज ॥ (२१।२)

dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja ||

22.1२२.१

गरुडं पूजयेदग्रे वासुदेवस्य शङ्कर । (२२।१)

garuḍaṃ pūjayedagre vāsudevasya śaṅkara |

22.2२२.२

शङ्खादिपद्मपर्यन्तं मध्यदेशे प्रपूजयेत् ॥ (२२।२)

śaṅkhādipadmaparyantaṃ madhyadeśe prapūjayet ||

23.1२३.१

धर्मं ज्ञानं च वैराग्यमैश्वर्यं पूर्वदेशतः । (२३।१)

dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ pūrvadeśataḥ |

23.2२३.२

आग्नेयादिष्वर्चयेद्वै अधर्मादिचतुष्टयम् ॥ (२३।२)

āgneyādiṣvarcayedvai adharmādicatuṣṭayam ||

24.1२४.१

मण्डलत्रयमध्ये तु कीर्तिता ह्यसनस्थितिः । (२४।१)

maṇḍalatrayamadhye tu kīrtitā hyasanasthitiḥ |

24.2२४.२

पूर्वादिपद्मपत्रेषु पूज्याः संकर्षणादयः ॥ (२४।२)

pūrvādipadmapatreṣu pūjyāḥ saṃkarṣaṇādayaḥ ||

25.1२५.१

कर्णिकायां वासुदेवं पूजयेत्परमेश्वरम् । (२५।१)

karṇikāyāṃ vāsudevaṃ pūjayetparameśvaram |

25.2२५.२

पाञ्चजन्यादयः पूज्याः ऐशान्यादिषु संस्थिताः ॥ (२५।२)

pāñcajanyādayaḥ pūjyāḥ aiśānyādiṣu saṃsthitāḥ ||

26.1२६.१

शक्तयश्चैव पूर्वादौ देवदेवस्य शङ्कर । (२६।१)

śaktayaścaiva pūrvādau devadevasya śaṅkara |

26.2२६.२

इन्द्रादयो लोकपालाः पूज्याः पूर्वादिषु स्थिताः ॥ (२६।२)

indrādayo lokapālāḥ pūjyāḥ pūrvādiṣu sthitāḥ ||

27.1२७.१

अधो नागं तदूर्ध्वं तु ब्रह्माणं पूजयेत्सुधीः । (२७।१)

adho nāgaṃ tadūrdhvaṃ tu brahmāṇaṃ pūjayetsudhīḥ |

27.2२७.२

इति स्थानक्रमो ज्ञेयो मण्डले शङ्कर त्वया ॥ (२७।२)

iti sthānakramo jñeyo maṇḍale śaṅkara tvayā ||

28.1२८.१

आवाह्य मण्डले देवं कृत्वा न्यासं तु तस्य च । (२८।१)

āvāhya maṇḍale devaṃ kṛtvā nyāsaṃ tu tasya ca |

28.2२८.२

मुद्रां प्रदर्श्य पाद्यादीन् दद्यान् मूलेन शङ्कर ॥ (२८।२)

mudrāṃ pradarśya pādyādīn dadyān mūlena śaṅkara ||

29.1२९.१

स्नानं वस्त्रं तथाचामं गन्धं पुष्पं च धूपकम् । (२९।१)

snānaṃ vastraṃ tathācāmaṃ gandhaṃ puṣpaṃ ca dhūpakam |

29.2२९.२

दीपं नैवेद्यमाचामं नमस्कारं प्रदक्षिणम् । (२९।२)

dīpaṃ naivedyamācāmaṃ namaskāraṃ pradakṣiṇam |

29.3२९.३

कुर्याच्छङ्कर मूलेन जपं चापि समर्पयेत् ॥ (२९।३)

kuryācchaṅkara mūlena japaṃ cāpi samarpayet ||

30.1३०.१

दं स्तोत्रं जपेत्पश्चाद्वासुदेवमनुस्मरन् । (३०।१)

daṃ stotraṃ japetpaścādvāsudevamanusmaran |

30.2३०.२

ॐ नमो वासुदेवाय नमः संकर्षणाय च ॥ (३०।२)

oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca ||

31.1३१.१

प्रद्युम्नाय आदिदेवायानिरुद्धाय नमोनमः । (३१।१)

pradyumnāya ādidevāyāniruddhāya namonamaḥ |

31.2३१.२

नमो नारायणायैव नरायणां पतये नमः ॥ (३१।२)

namo nārāyaṇāyaiva narāyaṇāṃ pataye namaḥ ||

32.1३२.१

नरपूज्याय कीर्त्याय स्तुत्याय वरदाय च । (३२।१)

narapūjyāya kīrtyāya stutyāya varadāya ca |

32.2३२.२

अनादिनिधनायैव पुराणाय नमोनमः ॥ (३२।२)

anādinidhanāyaiva purāṇāya namonamaḥ ||

33.1३३.१

सृष्टिसंहारकर्त्रे च ब्रह्मणः पतये नमः । (३३।१)

sṛṣṭisaṃhārakartre ca brahmaṇaḥ pataye namaḥ |

33.2३३.२

मनो वै वेदवेद्याय शङ्खचक्रधराय च ॥ (३३।२)

mano vai vedavedyāya śaṅkhacakradharāya ca ||

34.1३४.१

कलिकल्मषहर्त्रे च सुरेशाय नमोनमः । (३४।१)

kalikalmaṣahartre ca sureśāya namonamaḥ |

34.2३४.२

संकारवृक्षछेत्त्रे च मायाभेत्त्रे नमोनमः ॥ (३४।२)

saṃkāravṛkṣachettre ca māyābhettre namonamaḥ ||

35.1३५.१

बहुरूपाय तीर्थाय त्रिगुणायागुणाय च । (३५।१)

bahurūpāya tīrthāya triguṇāyāguṇāya ca |

35.2३५.२

ब्रह्मविष्ण्वीशरूपाय मोक्षदाय नमोनमः ॥ (३५।२)

brahmaviṣṇvīśarūpāya mokṣadāya namonamaḥ ||

36.1३६.१

मोक्षद्वाराय धर्माय निर्माणाय नमोनमः । (३६।१)

mokṣadvārāya dharmāya nirmāṇāya namonamaḥ |

36.2३६.२

सर्वकामप्रदायैव परब्रह्मस्वरूपिणे ॥ (३६।२)

sarvakāmapradāyaiva parabrahmasvarūpiṇe ||

37.1३७.१

संसारसागरे घोरे निमग्नं मां समुद्धर । (३७।१)

saṃsārasāgare ghore nimagnaṃ māṃ samuddhara |

37.2३७.२

त्वदन्यो नास्ति देवेश नास्ति त्राता जगत्प्रभो ॥ (३७।२)

tvadanyo nāsti deveśa nāsti trātā jagatprabho ||

38.1३८.१

त्वामव सर्वगं विष्णुं गतो ऽहं शरणं गतः । (३८।१)

tvāmava sarvagaṃ viṣṇuṃ gato 'haṃ śaraṇaṃ gataḥ |

38.2३८.२

ज्ञानदीपप्रदानेन तमोमुक्तं प्रकाशय ॥ (३८।२)

jñānadīpapradānena tamomuktaṃ prakāśaya ||

39.1३९.१

एवं स्तुवीत देवेशं सर्वक्लेशविनाशनम् । (३९।१)

evaṃ stuvīta deveśaṃ sarvakleśavināśanam |

39.2३९.२

अन्यैश्च वादकेः स्तोत्रैः स्तुत्वा वै नीललोहित ॥ (३९।२)

anyaiśca vādakeḥ stotraiḥ stutvā vai nīlalohita ||

40.1४०.१

पञ्चतत्त्वसमायुक्तं ध्यायेद् विष्णुं नरो हृदि । (४०।१)

pañcatattvasamāyuktaṃ dhyāyed viṣṇuṃ naro hṛdi |

40.2४०.२

विसर्जयेत्ततो देवमिति पूजा प्रकीर्तिता ॥ (४०।२)

visarjayettato devamiti pūjā prakīrtitā ||

41.1४१.१

सर्वकामप्रदा श्रेष्ठा वासुदेवस्य शङ्कर । (४१।१)

sarvakāmapradā śreṣṭhā vāsudevasya śaṅkara |

41.2४१.२

एतत्पूजनमात्रेण कृतकृत्यो भवेन्नरः ॥ (४१।२)

etatpūjanamātreṇa kṛtakṛtyo bhavennaraḥ ||

42.1४२.१

इदं च यः पठेद्रुद्र पञ्चतत्त्वार्चनं नरः । (४२।१)

idaṃ ca yaḥ paṭhedrudra pañcatattvārcanaṃ naraḥ |

42.2४२.२

शृणुयाच्छ्रावयेद् वापि विष्णुलोकं स गच्छति ॥ (४२।२)

śṛṇuyācchrāvayed vāpi viṣṇulokaṃ sa gacchati ||

43.1४३.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पञ्चतत्त्वार्चनविधिर् नाम द्वात्रिंशो ऽध्यायः ॥ (४३।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pañcatattvārcanavidhir nāma dvātriṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 32

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit