गरुडपुराणGaruḍapurāṇa

GarPur, 1, 36

36 of 166 · 37 verses

Select a line for its word-by-word analysis.

1.1१.१

हरिरुवाच । (१।१)

hariruvāca |

1.2१.२

सन्ध्याविधिं प्रवक्ष्यामि शृणु रुद्राघनाशनम् । (१।२)

sandhyāvidhiṃ pravakṣyāmi śṛṇu rudrāghanāśanam |

1.3१.३

प्राणायामत्रयं कृत्वा सन्ध्यास्नानमुपक्रमेत् ॥ (१।३)

prāṇāyāmatrayaṃ kṛtvā sandhyāsnānamupakramet ||

2.1२.१

सप्रणवां सव्याहृतिं गायत्त्रीं शिरसा सह । (२।१)

sapraṇavāṃ savyāhṛtiṃ gāyattrīṃ śirasā saha |

2.2२.२

त्रिः पठेद् आयतप्रणः प्राणायामः स उच्यते ॥ (२।२)

triḥ paṭhed āyatapraṇaḥ prāṇāyāmaḥ sa ucyate ||

3.1३.१

मनोवाक्कायजं दोषं प्राणायामैर्दहेद्द्विजः । (३।१)

manovākkāyajaṃ doṣaṃ prāṇāyāmairdaheddvijaḥ |

3.2३.२

तस्मात्सर्वेषु कालेषु प्राणायामपरो भवेत् ॥ (३।२)

tasmātsarveṣu kāleṣu prāṇāyāmaparo bhavet ||

4.1४.१

सायमग्निश्च मेत्युक्ता प्रातः सूर्येत्यपः पिबेत् । (४।१)

sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet |

4.2४.२

आपः पुनन्तु मध्याह्ने उपस्पृश्य यथाविधि ॥ (४।२)

āpaḥ punantu madhyāhne upaspṛśya yathāvidhi ||

5.1५.१

आपोहिष्ठेत्यृचा कुर्यान्मार्जनं तु कुशोदकैः । (५।१)

āpohiṣṭhetyṛcā kuryānmārjanaṃ tu kuśodakaiḥ |

5.2५.२

प्रणवेन तु संयुक्तं क्षिपेद्वारि पदे पदे ॥ (५।२)

praṇavena tu saṃyuktaṃ kṣipedvāri pade pade ||

6.1६.१

रजस्तमःस्वमोहोत्थाञ् जाग्रत्स्वप्नसुषुप्तिजान् । (६।१)

rajastamaḥsvamohotthāñ jāgratsvapnasuṣuptijān |

6.2६.२

वाङ्मनःकर्मजान् दोषान् नवैतान् नवभिर् दहेत् ॥ (६।२)

vāṅmanaḥkarmajān doṣān navaitān navabhir dahet ||

7.1७.१

समुद्धृत्योदकं पाणौ जप्त्वा च द्रुपदां क्षिपेत् । (७।१)

samuddhṛtyodakaṃ pāṇau japtvā ca drupadāṃ kṣipet |

7.2७.२

त्रिपडष्टौ द्वादशधा वर्तयेदघमर्पणम् ॥ (७।२)

tripaḍaṣṭau dvādaśadhā vartayedaghamarpaṇam ||

8.1८.१

उदुत्यञ्चित्रम् इत्याभ्याम् उपतिष्ठेद्दिवाकरम् । (८।१)

udutyañcitram ityābhyām upatiṣṭheddivākaram |

8.2८.२

दिवा रात्रौ च यत्पापं सर्वं नश्यति तत्क्षणात् ॥ (८।२)

divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt ||

9.1९.१

पूर्वसंध्यां जपंस्तिष्ठेत्पश्चिमामुपविश्य च । (९।१)

pūrvasaṃdhyāṃ japaṃstiṣṭhetpaścimāmupaviśya ca |

9.2९.२

महाव्याहृतिसंयुक्तां गायत्त्रीं प्रणवान्विताम् ॥ (९।२)

mahāvyāhṛtisaṃyuktāṃ gāyattrīṃ praṇavānvitām ||

10.1१०.१

दशभिर्जन्मजनितं शतेन तु पुरा कृतम् । (१०।१)

daśabhirjanmajanitaṃ śatena tu purā kṛtam |

10.2१०.२

त्रियुगं तु सहस्रेण गायत्त्री हन्ति दुष्कृतम् ॥ (१०।२)

triyugaṃ tu sahasreṇa gāyattrī hanti duṣkṛtam ||

11.1११.१

रक्ता भवति गायत्त्री सावित्री शुक्लवर्णिका । (११।१)

raktā bhavati gāyattrī sāvitrī śuklavarṇikā |

11.2११.२

कृष्णा सरस्वती ज्ञेया संध्यात्रयमुदाहृतम् ॥ (११।२)

kṛṣṇā sarasvatī jñeyā saṃdhyātrayamudāhṛtam ||

12.1१२.१

ॐ भूर्विन्यस्य हृदये ॐ भुवः शिरसि न्यसेत् । (१२।१)

oṃ bhūrvinyasya hṛdaye oṃ bhuvaḥ śirasi nyaset |

12.2१२.२

ॐ स्वरिति शिखायां च गायत्त्र्याः प्रथमं पदम् ॥ (१२।२)

oṃ svariti śikhāyāṃ ca gāyattryāḥ prathamaṃ padam ||

13.1१३.१

विन्यसेत्कवचे विद्वान्द्वितीयं नेत्रयोर्न्यसेत् । (१३।१)

vinyasetkavace vidvāndvitīyaṃ netrayornyaset |

13.2१३.२

तृतीयेनाङ्गविन्यासं चतुर्थं सर्वतो न्यसेत् ॥ (१३।२)

tṛtīyenāṅgavinyāsaṃ caturthaṃ sarvato nyaset ||

14.1१४.१

संध्याकाले तु विन्यस्य जपेद्वै वेदमातरम् । (१४।१)

saṃdhyākāle tu vinyasya japedvai vedamātaram |

14.2१४.२

शिवस्तस्यास्तु सर्वाह्ने प्राणायामपरं न्यसेत् ॥ (१४।२)

śivastasyāstu sarvāhne prāṇāyāmaparaṃ nyaset ||

15.1१५.१

त्रिपदा या तु गायत्त्री ब्रह्मविष्णुमहेश्वरी । (१५।१)

tripadā yā tu gāyattrī brahmaviṣṇumaheśvarī |

15.2१५.२

विनियोगमृषिच्छन्दो ज्ञात्वा तु जपमारभेत् ॥ (१५।२)

viniyogamṛṣicchando jñātvā tu japamārabhet ||

16.1१६.१

सर्वपापविनिर्मुक्तो ब्रह्मलोकमवाप्नुयात् । (१६।१)

sarvapāpavinirmukto brahmalokamavāpnuyāt |

16.2१६.२

परोरजसि सावद्ॐ तुरीयपदमीरितम् ॥ (१६।२)

parorajasi sāvadoṃ turīyapadamīritam ||

17.1१७.१

तं हन्ति सूर्यः सन्ध्यायां नोपास्तिं कुरुते तु यः । (१७।१)

taṃ hanti sūryaḥ sandhyāyāṃ nopāstiṃ kurute tu yaḥ |

17.2१७.२

तुरीयस्य पदस्यापि ऋषिर्निर्मल एव च ॥ (१७।२)

turīyasya padasyāpi ṛṣirnirmala eva ca ||

18.1१८.१

छन्दस्तु देवी गायत्त्री परमात्मा च देवता ॥ (१८।१)

chandastu devī gāyattrī paramātmā ca devatā ||

19.1१९.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे संध्याविधिर्नाम षट्त्रिंशो ऽध्यायः ॥ (१९।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saṃdhyāvidhirnāma ṣaṭtriṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 36

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit