गरुडपुराणGaruḍapurāṇa

GarPur, 1, 9

9 of 166 · 28 verses

Select a line for its word-by-word analysis.

1.1१.१

हरिरुवाच । (१।१)

hariruvāca |

1.2१.२

समये दीक्षितः शिष्यो बद्धनेत्रस्तु वाससा । (१।२)

samaye dīkṣitaḥ śiṣyo baddhanetrastu vāsasā |

1.3१.३

अष्टाहुतिशतं तस्य मूलमन्त्रेण होमयेत् ॥ (१।३)

aṣṭāhutiśataṃ tasya mūlamantreṇa homayet ||

2.1२.१

द्विगुणं पुत्रके होमं त्रिगुणं साधके मतम् । (२।१)

dviguṇaṃ putrake homaṃ triguṇaṃ sādhake matam |

2.2२.२

निर्वाणदेशिके रुद्र चतुर्गुणमुदाहृतम् ॥ (२।२)

nirvāṇadeśike rudra caturguṇamudāhṛtam ||

3.1३.१

गुरुविष्णुद्विजस्त्रीणां हन्ता वध्यस्त्वदीक्षितैः । (३।१)

guruviṣṇudvijastrīṇāṃ hantā vadhyastvadīkṣitaiḥ |

3.2३.२

अथ दीक्षां प्रवक्ष्यामि धर्माधर्मक्षयङ्करीम् ॥ (३।२)

atha dīkṣāṃ pravakṣyāmi dharmādharmakṣayaṅkarīm ||

4.1४.१

उपवेश्य बहिः शिष्यान्धारणं तेषु कारयेत् । (४।१)

upaveśya bahiḥ śiṣyāndhāraṇaṃ teṣu kārayet |

4.2४.२

वायव्या कलया रुद्र शोष्यमाणान् विचिन्तयेत् ॥ (४।२)

vāyavyā kalayā rudra śoṣyamāṇān vicintayet ||

5.1५.१

आग्रेय्या दह्यमानांश्च प्लावितानम्भसा पुनः । (५।१)

āgreyyā dahyamānāṃśca plāvitānambhasā punaḥ |

5.2५.२

तेजस्तेजासि तं जीवमेकीकृत्य समाक्षिपेत् ॥ (५।२)

tejastejāsi taṃ jīvamekīkṛtya samākṣipet ||

6.1६.१

प्राणवं चिन्तयेद् व्योम्नि शरीरे ऽन्यत्तु कारणम् । (६।१)

prāṇavaṃ cintayed vyomni śarīre 'nyattu kāraṇam |

6.2६.२

एकैकं यो जयेत्तत्र क्षेत्रज्ञं देहकारणात् ॥ (६।२)

ekaikaṃ yo jayettatra kṣetrajñaṃ dehakāraṇāt ||

7.1७.१

उत्पाद्य योजयेत्पश्चादेकैकं वृषभध्वज । (७।१)

utpādya yojayetpaścādekaikaṃ vṛṣabhadhvaja |

7.2७.२

मण्डलादिष्वशक्तस्तु कल्पयित्वार्चयेद्धरिम् ॥ (७।२)

maṇḍalādiṣvaśaktastu kalpayitvārcayeddharim ||

8.1८.१

चतुर्द्वारं भवेत्तच्च ब्रह्मतीर्थादनुक्रमात् । (८।१)

caturdvāraṃ bhavettacca brahmatīrthādanukramāt |

8.2८.२

हस्तं पद्मं समाख्यातं पत्राण्यङ्गुलयः स्मृताः ॥ (८।२)

hastaṃ padmaṃ samākhyātaṃ patrāṇyaṅgulayaḥ smṛtāḥ ||

9.1९.१

कर्णिका तलहस्तं तु नखान्यस्य तु केसराः । (९।१)

karṇikā talahastaṃ tu nakhānyasya tu kesarāḥ |

9.2९.२

तत्रार्चयेद्धरिं ध्यात्वा सूर्यं द्वग्नयन्तरेव च ॥ (९।२)

tatrārcayeddhariṃ dhyātvā sūryaṃ dvagnayantareva ca ||

10.1१०.१

तं हस्तं पातयेन्मूर्ध्नि शिष्यस्य तु समाहितः । (१०।१)

taṃ hastaṃ pātayenmūrdhni śiṣyasya tu samāhitaḥ |

10.2१०.२

हस्ते विष्णुः स्थितो यस्माद्विष्णुहस्तस्ततस्त्वयम् । (१०।२)

haste viṣṇuḥ sthito yasmādviṣṇuhastastatastvayam |

10.3१०.३

नश्यन्ति स्पर्शनात्तस्य पातकान्यखिलानि च ॥ (१०।३)

naśyanti sparśanāttasya pātakānyakhilāni ca ||

11.1११.१

गुरुः शिष्यं समभ्यर्च्य नेत्रे बद्धे तु वाससा । (११।१)

guruḥ śiṣyaṃ samabhyarcya netre baddhe tu vāsasā |

11.2११.२

देवस्य प्रमुखं कृत्वा पुष्पमेवार्पयेत्ततः । (११।२)

devasya pramukhaṃ kṛtvā puṣpamevārpayettataḥ |

11.3११.३

पुष्पं निपतितं यत्र मूर्ध्नो देवस्य शार्ङ्गिणः ॥ (११।३)

puṣpaṃ nipatitaṃ yatra mūrdhno devasya śārṅgiṇaḥ ||

12.1१२.१

तन्नाम कारयेत्तस्य स्त्रीणां नामाङ्कितं स्वयम् । (१२।१)

tannāma kārayettasya strīṇāṃ nāmāṅkitaṃ svayam |

12.2१२.२

शूद्राणां दाससंयुक्तं कारयेत्तु विचक्षणः ॥ (१२।२)

śūdrāṇāṃ dāsasaṃyuktaṃ kārayettu vicakṣaṇaḥ ||

13.1१३.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुदीक्षानिदृ नाम नवमो ऽध्यायः ॥ (१३।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudīkṣānidṛ nāma navamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 9

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit