गरुडपुराणGaruḍapurāṇa

GarPur, 1, 132

129 of 166 · 44 verses

Select a line for its word-by-word analysis.

1.1१.१

ब्रह्मोवाच । (१।१)

brahmovāca |

1.2१.२

नक्ताशी त्वष्टमीं यावद्वर्षान्ते चैव धेनुदः । (१।२)

naktāśī tvaṣṭamīṃ yāvadvarṣānte caiva dhenudaḥ |

1.3१.३

पौरन्दरपदं याति सद्गतिव्रतमुच्यते ॥ (१।३)

paurandarapadaṃ yāti sadgativratamucyate ||

2.1२.१

शुक्लाष्टम्यां पौषमासे महारुद्रेति साधु वै । (२।१)

śuklāṣṭamyāṃ pauṣamāse mahārudreti sādhu vai |

2.2२.२

मत्प्रीतये कृतं देवि शतसाहस्रिकं फलम् ॥ (२।२)

matprītaye kṛtaṃ devi śatasāhasrikaṃ phalam ||

3.1३.१

अष्टमी बुधवारेण पक्षयोरुभयोर्यदा । (३।१)

aṣṭamī budhavāreṇa pakṣayorubhayoryadā |

3.2३.२

भविष्यति तदा तस्यां व्रतमेतत्कथा परा ॥ (३।२)

bhaviṣyati tadā tasyāṃ vratametatkathā parā ||

4.1४.१

तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः । (४।१)

tasyāṃ niyamakartāro na syuḥ khaṇḍitasampadaḥ |

4.2४.२

तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलिद्वयम् ॥ (४।२)

taṇḍulasyāṣṭamuṣṭīnāṃ varjayitvāṅgulidvayam ||

5.1५.१

भक्तं सद्भक्तिश्रद्धाभ्यां मुक्तिकामी हि मानवः । (५।१)

bhaktaṃ sadbhaktiśraddhābhyāṃ muktikāmī hi mānavaḥ |

5.2५.२

आम्रं पत्रपुटे कृत्वा यो भुङ्क्ते कुशवेष्टिते ॥ (५।२)

āmraṃ patrapuṭe kṛtvā yo bhuṅkte kuśaveṣṭite ||

6.1६.१

कलम्बिकाम्लिकोपेतं काम्यं तस्य फलं भवेत् । (६।१)

kalambikāmlikopetaṃ kāmyaṃ tasya phalaṃ bhavet |

6.2६.२

बुधं पञ्चोपचारेण पूजयित्वा जलाशये ॥ (६।२)

budhaṃ pañcopacāreṇa pūjayitvā jalāśaye ||

7.1७.१

शक्तितो दक्षिणं दद्यात्कर्करीं तण्डुलान्विताम् । (७।१)

śaktito dakṣiṇaṃ dadyātkarkarīṃ taṇḍulānvitām |

7.2७.२

बुं बुधायेति बीजं स्यात्स्वाहान्तः कमलादिकः ॥ (७।२)

buṃ budhāyeti bījaṃ syātsvāhāntaḥ kamalādikaḥ ||

8.1८.१

बाणचापधरं श्यामं दले चाङ्गानि मध्यतः । (८।१)

bāṇacāpadharaṃ śyāmaṃ dale cāṅgāni madhyataḥ |

8.2८.२

बुधाष्टमीकथा पुण्या श्रोतव्या कृतिभिर्ध्रुवम् ॥ (८।२)

budhāṣṭamīkathā puṇyā śrotavyā kṛtibhirdhruvam ||

9.1९.१

पुरे पाटलिपुत्राख्ये वीरो नाम द्विजोत्तमः । (९।१)

pure pāṭaliputrākhye vīro nāma dvijottamaḥ |

9.2९.२

रम्भा भार्या तस्य चासीत्कौशिकः पुत्र उत्तमः ॥ (९।२)

rambhā bhāryā tasya cāsītkauśikaḥ putra uttamaḥ ||

10.1१०.१

दुहिता विजयानाम्नी वनपालो वृषो ऽभवत् । (१०।१)

duhitā vijayānāmnī vanapālo vṛṣo 'bhavat |

10.2१०.२

गृहीत्वा कौशिकस्तं च ग्रीष्मे गङ्गां गतो ऽरमत् ॥ (१०।२)

gṛhītvā kauśikastaṃ ca grīṣme gaṅgāṃ gato 'ramat ||

11.1११.१

गोपालकैर्वृषश्चौरैः क्रीडास्थो ऽपहृतो बलात् । (११।१)

gopālakairvṛṣaścauraiḥ krīḍāstho 'pahṛto balāt |

11.2११.२

गङ्गातः स च उत्थाय वनं बभ्राम दुःखितः ॥ (११।२)

gaṅgātaḥ sa ca utthāya vanaṃ babhrāma duḥkhitaḥ ||

12.1१२.१

जलार्थं विजया चागाद्भ्रात्रा सार्धं च साप्यगात् । (१२।१)

jalārthaṃ vijayā cāgādbhrātrā sārdhaṃ ca sāpyagāt |

12.2१२.२

पिपासितो मृणालार्थो आगतो ऽथ सरोवरम् ॥ (१२।२)

pipāsito mṛṇālārtho āgato 'tha sarovaram ||

13.1१३.१

दिव्यस्त्रीणां च पूजादीन्दृष्ट्वा चाप्यथ विस्मितः । (१३।१)

divyastrīṇāṃ ca pūjādīndṛṣṭvā cāpyatha vismitaḥ |

13.2१३.२

स ता गत्वा ययाचे ऽन्नं सानुजो ऽहं बुभुक्षितः ॥ (१३।२)

sa tā gatvā yayāce 'nnaṃ sānujo 'haṃ bubhukṣitaḥ ||

14.1१४.१

स्त्रियो ऽब्रुवन्व्रतं कर्तुं दास्यामश्च कुरु व्रतम् । (१४।१)

striyo 'bruvanvrataṃ kartuṃ dāsyāmaśca kuru vratam |

14.2१४.२

पत्न्यर्थं धनपानार्थं पूजयामासतुर्बुधम् ॥ (१४।२)

patnyarthaṃ dhanapānārthaṃ pūjayāmāsaturbudham ||

15.1१५.१

पुटद्वयं गृहीत्वान्नं बुभुजाते प्रदत्तकम् । (१५।१)

puṭadvayaṃ gṛhītvānnaṃ bubhujāte pradattakam |

15.2१५.२

स्त्रियो गतास्तौ धनदौ धनपानमपश्यताम् ॥ (१५।२)

striyo gatāstau dhanadau dhanapānamapaśyatām ||

16.1१६.१

चौरैर्दत्तं गृहीत्वाथ प्रदोषे प्राप्तवान् गृहम् । (१६।१)

caurairdattaṃ gṛhītvātha pradoṣe prāptavān gṛham |

16.2१६.२

वीरं च दुःखितं नत्वा रात्रौ सुप्तो यथासुखम् ॥ (१६।२)

vīraṃ ca duḥkhitaṃ natvā rātrau supto yathāsukham ||

17.1१७.१

कन्यां च युवतीं दृष्ट्वा कस्मै देया सुता मया । (१७।१)

kanyāṃ ca yuvatīṃ dṛṣṭvā kasmai deyā sutā mayā |

17.2१७.२

यमायेत्यब्रवीद्दुःखात् साचाराद् व्रतसत्फलात् ॥ (१७।२)

yamāyetyabravīdduḥkhāt sācārād vratasatphalāt ||

18.1१८.१

स्वर्गं गतौ च पितरौ व्रतं राज्याय कौशिकः । (१८।१)

svargaṃ gatau ca pitarau vrataṃ rājyāya kauśikaḥ |

18.2१८.२

चक्रे ऽयोध्यामहाराज्यं दत्त्वा च भगिनीं यमे ॥ (१८।२)

cakre 'yodhyāmahārājyaṃ dattvā ca bhaginīṃ yame ||

19.1१९.१

यमो ऽपि विजयामाह गृहस्था भव मे पुरे । (१९।१)

yamo 'pi vijayāmāha gṛhasthā bhava me pure |

19.2१९.२

नोद्घाटयान्य् अत्र गते यमे सा न तथाकरोत् । (१९।२)

nodghāṭayāny atra gate yame sā na tathākarot |

19.3१९.३

अपश्यन्मातरं स्वां सा पाशयातनया स्थिताम् ॥ (१९।३)

apaśyanmātaraṃ svāṃ sā pāśayātanayā sthitām ||

20.1२०.१

अथोद्विग्ना कोशिकोक्तं ज्ञात्वा मुक्तिप्रदं व्रतम् । (२०।१)

athodvignā kośikoktaṃ jñātvā muktipradaṃ vratam |

20.2२०.२

चक्रे च सा ततो मुक्ता माता तस्माच्चरेद्व्रतम् ॥ (२०।२)

cakre ca sā tato muktā mātā tasmāccaredvratam ||

21.1२१.१

व्रतपुण्यप्रभावेण स्वर्गं गत्वावसत्सुखम् ॥ (२१।१)

vratapuṇyaprabhāveṇa svargaṃ gatvāvasatsukham ||

22.1२२.१

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बुधाष्टमीव्रतनिरूपणं नाम द्वात्रिंशदुत्तरशततमो ऽध्यायः ॥ (२२।१)

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe budhāṣṭamīvratanirūpaṇaṃ nāma dvātriṃśaduttaraśatatamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

GarPur, 1, 132

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit