GarPur, 1, 17
Select a line for its word-by-word analysis.
पुनः सूर्यार्चनं वक्ष्ये यदुक्तं धनदाय हि । (१।२)
punaḥ sūryārcanaṃ vakṣye yaduktaṃ dhanadāya hi |
अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम् ॥ (१।३)
aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam ||
खखोल्कं स्थाप्य मुद्रां तु स्थापयेन्मन्त्ररूपिणीम् ॥ (२।२)
khakholkaṃ sthāpya mudrāṃ tu sthāpayenmantrarūpiṇīm ||
आग्नेय्यां दिशि देवस्य हृदयं स्थापयेच्छिव । (३।१)
āgneyyāṃ diśi devasya hṛdayaṃ sthāpayecchiva |
ऐशान्यां तु शिरः स्थाप्यं नैरृत्यां विन्यसेच्छिखाम् ॥ (३।२)
aiśānyāṃ tu śiraḥ sthāpyaṃ nairṛtyāṃ vinyasecchikhām ||
पौरंदर्यां न्यसेद् धर्मम् एकाग्रस्थितमानसः । (४।१)
pauraṃdaryāṃ nyased dharmam ekāgrasthitamānasaḥ |
वायव्यां चैव नेत्रं तु वारुण्यामस्त्रमेव च ॥ (४।२)
vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca ||
ऐशान्यां स्थापयेत्सोमं पौरन्दर्यां तु लोहितम् । (५।१)
aiśānyāṃ sthāpayetsomaṃ paurandaryāṃ tu lohitam |
आग्नेय्यां सोमतनयं याम्यां चैव बृहस्पतिम् ॥ (५।२)
āgneyyāṃ somatanayaṃ yāmyāṃ caiva bṛhaspatim ||
नैरृत्यां दानवगुरुं वारुण्यां तु शनैश्चरम् । (६।१)
nairṛtyāṃ dānavaguruṃ vāruṇyāṃ tu śanaiścaram |
वायव्यां च तथा केतुं कौबेर्यां राहुमेव च ॥ (६।२)
vāyavyāṃ ca tathā ketuṃ kauberyāṃ rāhumeva ca ||
द्वितीयायां तु कक्षायां सूर्यान्द्वादश पूजयेत् । (७।१)
dvitīyāyāṃ tu kakṣāyāṃ sūryāndvādaśa pūjayet |
भगः सूर्यो ऽर्यमा चैव मित्रो वै वरुणस्तथा ॥ (७।२)
bhagaḥ sūryo 'ryamā caiva mitro vai varuṇastathā ||
त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुरुच्यते ॥ (८।२)
tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇurucyate ||
पूर्वादावर्चयेद्देवानिन्द्रादीञ्छ्रद्धया नरः । (९।१)
pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ |
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चनविधिर् नाम सप्तदशो ऽध्यायः ॥ (१०।१)
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanavidhir nāma saptadaśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.