लिङ्गपुराणLiṅgapurāṇa

LiPur, 1, 27

27 of 163 · 110 verses

Select a line for its word-by-word analysis.

1.1१.१

शैलादिरुवाच । (१।१)

śailādiruvāca |

1.2१.२

वक्ष्यामि शृणु संक्षेपाल्लिङ्गार्चनाविधिक्रमम् । (१।२)

vakṣyāmi śṛṇu saṃkṣepālliṅgārcanāvidhikramam |

1.3१.३

वक्तुं वर्षशतेनापि न शक्यं विस्तरेण यत् ॥ (१।३)

vaktuṃ varṣaśatenāpi na śakyaṃ vistareṇa yat ||

2.1२.१

एवं स्नात्वा यथान्यायं पूजास्थानं प्रविश्य च । (२।१)

evaṃ snātvā yathānyāyaṃ pūjāsthānaṃ praviśya ca |

2.2२.२

प्राणायामत्रयं कृत्वा ध्यायेद्देवं त्रियंबकम् ॥ (२।२)

prāṇāyāmatrayaṃ kṛtvā dhyāyeddevaṃ triyaṃbakam ||

3.1३.१

पञ्चवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् । (३।१)

pañcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham |

3.2३.२

सर्वाभरणसंयुक्तं चित्रांबरविभूषितम् ॥ (३।२)

sarvābharaṇasaṃyuktaṃ citrāṃbaravibhūṣitam ||

4.1४.१

तस्य रूपं समाश्रित्य दाहनप्लावनादिभिः । (४।१)

tasya rūpaṃ samāśritya dāhanaplāvanādibhiḥ |

4.2४.२

शैवीं तनुं समास्थाय पूजयेत्परमेश्वरम् ॥ (४।२)

śaivīṃ tanuṃ samāsthāya pūjayetparameśvaram ||

5.1५.१

देहशुद्धिं च कृत्वैव मूलमन्त्रं न्यसेत् क्रमात् । (५।१)

dehaśuddhiṃ ca kṛtvaiva mūlamantraṃ nyaset kramāt |

5.2५.२

सर्वत्र प्रणवेनैव ब्रह्माणि च यथाक्रमम् ॥ (५।२)

sarvatra praṇavenaiva brahmāṇi ca yathākramam ||

6.1६.१

सूत्रे नमः शिवायेति छन्दांसि परमे शुभे । (६।१)

sūtre namaḥ śivāyeti chandāṃsi parame śubhe |

6.2६.२

मन्त्राणि सूक्ष्मरूपेण संस्थितानि यतस्ततः ॥ (६।२)

mantrāṇi sūkṣmarūpeṇa saṃsthitāni yatastataḥ ||

7.1७.१

न्यग्रोधबीजे न्यग्रोधस् तथा सूत्रे तु शोभने । (७।१)

nyagrodhabīje nyagrodhas tathā sūtre tu śobhane |

7.2७.२

महत्यपि महद्ब्रह्म संस्थितं सूक्ष्मवत्स्वयम् ॥ (७।२)

mahatyapi mahadbrahma saṃsthitaṃ sūkṣmavatsvayam ||

8.1८.१

सेचयेदर्चनस्थानं गन्धचन्दनवारिणा । (८।१)

secayedarcanasthānaṃ gandhacandanavāriṇā |

8.2८.२

द्रव्याणि शोधयेत्पश्चात्क्षालनप्रोक्षणादिभिः ॥ (८।२)

dravyāṇi śodhayetpaścātkṣālanaprokṣaṇādibhiḥ ||

9.1९.१

क्षालनं प्रोक्षणं चैव प्रणवेन विधीयते । (९।१)

kṣālanaṃ prokṣaṇaṃ caiva praṇavena vidhīyate |

9.2९.२

प्रोक्षणी चार्घ्यपात्रं च पाद्यपात्रम् अनुक्रमात् ॥ (९।२)

prokṣaṇī cārghyapātraṃ ca pādyapātram anukramāt ||

10.1१०.१

तथा ह्याचमनीयार्थं कल्पितं पात्रमेव च । (१०।१)

tathā hyācamanīyārthaṃ kalpitaṃ pātrameva ca |

10.2१०.२

स्थापयेद् विधिना धीमान् अवगुण्ठ्य यथाविधि ॥ (१०।२)

sthāpayed vidhinā dhīmān avaguṇṭhya yathāvidhi ||

11.1११.१

दर्भैर् आच्छादयेच्चैव प्रोक्षयेच्छुद्धवारिणा । (११।१)

darbhair ācchādayeccaiva prokṣayecchuddhavāriṇā |

11.2११.२

तेषु तेष्वथ सर्वेषु क्षिपेत्तोयं सुशीतलम् ॥ (११।२)

teṣu teṣvatha sarveṣu kṣipettoyaṃ suśītalam ||

12.1१२.१

प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् । (१२।१)

praṇavena kṣipetteṣu dravyāṇyālokya buddhimān |

12.2१२.२

उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ (१२।२)

uśīraṃ candanaṃ caiva pādye tu parikalpayet ||

13.1१३.१

जातिकङ्कोलकर्पूरबहुमूलतमालकम् । (१३।१)

jātikaṅkolakarpūrabahumūlatamālakam |

13.2१३.२

चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके ॥ (१३।२)

cūrṇayitvā yathānyāyaṃ kṣipedācamanīyake ||

14.1१४.१

एवं सर्वेषु पात्रेषु दापयेच्चन्दनं तथा । (१४।१)

evaṃ sarveṣu pātreṣu dāpayeccandanaṃ tathā |

14.2१४.२

कर्पूरं च यथान्यायं पुष्पाणि विविधानि च ॥ (१४।२)

karpūraṃ ca yathānyāyaṃ puṣpāṇi vividhāni ca ||

15.1१५.१

कुशाग्रमक्षतांश्चैव यवव्रीहितिलानि च । (१५।१)

kuśāgramakṣatāṃścaiva yavavrīhitilāni ca |

15.2१५.२

आज्यसिद्धार्थपुष्पाणि भसितं चार्घ्यपात्रके ॥ (१५।२)

ājyasiddhārthapuṣpāṇi bhasitaṃ cārghyapātrake ||

16.1१६.१

कुशपुष्पयवव्रीहिबहुमूलतमालकम् । (१६।१)

kuśapuṣpayavavrīhibahumūlatamālakam |

16.2१६.२

दापयेत्प्रोक्षणीपात्रे भसितं प्रणवेन च ॥ (१६।२)

dāpayetprokṣaṇīpātre bhasitaṃ praṇavena ca ||

17.1१७.१

न्यसेत्पञ्चाक्षरं चैव गायत्रीं रुद्रदेवताम् । (१७।१)

nyasetpañcākṣaraṃ caiva gāyatrīṃ rudradevatām |

17.2१७.२

केवलं प्रणवं वापि वेदसारमनुत्तमम् ॥ (१७।२)

kevalaṃ praṇavaṃ vāpi vedasāramanuttamam ||

18.1१८.१

अथ संप्रोक्षयेत्पश्चाद्द्रव्याणि प्रणवेन तु । (१८।१)

atha saṃprokṣayetpaścāddravyāṇi praṇavena tu |

18.2१८.२

प्रोक्षणीपात्रसंस्थेन ईशानाद्यैश् च पञ्चभिः ॥ (१८।२)

prokṣaṇīpātrasaṃsthena īśānādyaiś ca pañcabhiḥ ||

19.1१९.१

पार्श्वतो देवदेवस्य नन्दिनं मांसमर्चयेत् । (१९।१)

pārśvato devadevasya nandinaṃ māṃsamarcayet |

19.2१९.२

दीप्तानलायुतप्रख्यं त्रिनेत्रं त्रिदशेश्वरम् ॥ (१९।२)

dīptānalāyutaprakhyaṃ trinetraṃ tridaśeśvaram ||

20.1२०.१

बालेन्दुमुकुटं चैव हरिवक्त्रं चतुर्भुजम् । (२०।१)

bālendumukuṭaṃ caiva harivaktraṃ caturbhujam |

20.2२०.२

पुष्पमालाधरं सौम्यं सर्वाभरणभूषितम् ॥ (२०।२)

puṣpamālādharaṃ saumyaṃ sarvābharaṇabhūṣitam ||

21.1२१.१

उत्तरे चात्मनः पुण्यां भार्यां च मरुतां शुभाम् । (२१।१)

uttare cātmanaḥ puṇyāṃ bhāryāṃ ca marutāṃ śubhām |

21.2२१.२

सुयशां सुव्रतां चाम्बां पादमण्डनतत्पराम् ॥ (२१।२)

suyaśāṃ suvratāṃ cāmbāṃ pādamaṇḍanatatparām ||

22.1२२.१

एवं पूज्य प्रविश्यान्तर्भवनं परमेष्ठिनः । (२२।१)

evaṃ pūjya praviśyāntarbhavanaṃ parameṣṭhinaḥ |

22.2२२.२

दत्त्वा पुष्पाञ्जलिं भक्त्या पञ्चमूर्धसु पञ्चभिः ॥ (२२।२)

dattvā puṣpāñjaliṃ bhaktyā pañcamūrdhasu pañcabhiḥ ||

23.1२३.१

गन्धपुष्पैस् तथा धूपैर्विविधैः पूज्य शङ्करम् । (२३।१)

gandhapuṣpais tathā dhūpairvividhaiḥ pūjya śaṅkaram |

23.2२३.२

स्कन्दं विनायकं देवीं लिङ्गशुद्धिं च कारयेत् ॥ (२३।२)

skandaṃ vināyakaṃ devīṃ liṅgaśuddhiṃ ca kārayet ||

24.1२४.१

जप्त्वा सर्वाणि मन्त्राणि प्रणवादिनमोऽन्तकम् । (२४।१)

japtvā sarvāṇi mantrāṇi praṇavādinamo'ntakam |

24.2२४.२

कल्पयेदासनं पश्चात्पद्माख्यं प्रणवेन तत् ॥ (२४।२)

kalpayedāsanaṃ paścātpadmākhyaṃ praṇavena tat ||

25.1२५.१

तस्य पूर्वदलं साक्षाद् अणिमामयम् अक्षरम् । (२५।१)

tasya pūrvadalaṃ sākṣād aṇimāmayam akṣaram |

25.2२५.२

लघिमा दक्षिणं चैव महिमा पश्चिमं तथा ॥ (२५।२)

laghimā dakṣiṇaṃ caiva mahimā paścimaṃ tathā ||

26.1२६.१

प्राप्तिस्तथोत्तरं पत्रं प्राकाम्यं पावकस्य तु । (२६।१)

prāptistathottaraṃ patraṃ prākāmyaṃ pāvakasya tu |

26.2२६.२

ईशित्वं नैरृतं पत्रं वशित्वं वायुगोचरे ॥ (२६।२)

īśitvaṃ nairṛtaṃ patraṃ vaśitvaṃ vāyugocare ||

27.1२७.१

सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते । (२७।१)

sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate |

27.2२७.२

सोमस्याधस् तथा सूर्यस्तस्याधः पावकः स्वयम् ॥ (२७।२)

somasyādhas tathā sūryastasyādhaḥ pāvakaḥ svayam ||

28.1२८.१

धर्मादयो विदिक्ष्वेते त्वनन्तं कल्पयेत्क्रमात् । (२८।१)

dharmādayo vidikṣvete tvanantaṃ kalpayetkramāt |

28.2२८.२

अव्यक्तादिचतुर्दिक्षु सोमस्यान्ते गुणत्रयम् ॥ (२८।२)

avyaktādicaturdikṣu somasyānte guṇatrayam ||

29.1२९.१

आत्मत्रयं ततश्चोर्ध्वं तस्यान्ते शिवपीठिका । (२९।१)

ātmatrayaṃ tataścordhvaṃ tasyānte śivapīṭhikā |

29.2२९.२

सद्योजातं प्रपद्यामीत्यावाह्य परमेश्वरम् ॥ (२९।२)

sadyojātaṃ prapadyāmītyāvāhya parameśvaram ||

30.1३०.१

वामदेवेन मन्त्रेण स्थापयेदासनोपरि । (३०।१)

vāmadevena mantreṇa sthāpayedāsanopari |

30.2३०.२

सान्निध्यं रुद्रगायत्र्या अघोरेण निरुध्य च ॥ (३०।२)

sānnidhyaṃ rudragāyatryā aghoreṇa nirudhya ca ||

31.1३१.१

ईशानः सर्वविद्यानामिति मन्त्रेण पूजयेत् । (३१।१)

īśānaḥ sarvavidyānāmiti mantreṇa pūjayet |

31.2३१.२

पाद्यमाचमनीयं च विभोश्चार्घ्यं प्रदापयेत् ॥ (३१।२)

pādyamācamanīyaṃ ca vibhoścārghyaṃ pradāpayet ||

32.1३२.१

स्नापयेद्विधिना रुद्रं गन्धचन्दनवारिणा । (३२।१)

snāpayedvidhinā rudraṃ gandhacandanavāriṇā |

32.2३२.२

पञ्चगव्यविधानेन गृह्य पात्रे ऽभिमन्त्र्य च ॥ (३२।२)

pañcagavyavidhānena gṛhya pātre 'bhimantrya ca ||

33.1३३.१

प्रणवेनैव गव्यैस्तु स्नापयेच्च यथाविधि । (३३।१)

praṇavenaiva gavyaistu snāpayecca yathāvidhi |

33.2३३.२

आज्येन मधुना चैव तथा चेक्षुरसेन च ॥ (३३।२)

ājyena madhunā caiva tathā cekṣurasena ca ||

34.1३४.१

पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत् । (३४।१)

puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet |

34.2३४.२

जलभाण्डैः पवित्रैस्तु मन्त्रैस्तोयं क्षिपेत्ततः ॥ (३४।२)

jalabhāṇḍaiḥ pavitraistu mantraistoyaṃ kṣipettataḥ ||

35.1३५.१

शुद्धिं कृत्वा यथान्यायं सितवस्त्रेण साधकः । (३५।१)

śuddhiṃ kṛtvā yathānyāyaṃ sitavastreṇa sādhakaḥ |

35.2३५.२

कुशापामार्गकर्पूरजातिपुष्पकचम्पकैः ॥ (३५।२)

kuśāpāmārgakarpūrajātipuṣpakacampakaiḥ ||

36.1३६.१

करवीरैः सितैश्चैव मल्लिकाकमलोत्पलैः । (३६।१)

karavīraiḥ sitaiścaiva mallikākamalotpalaiḥ |

36.2३६.२

आपूर्य पुष्पैः सुशुभैः चन्दनाद्यैश् च तज्जलम् ॥ (३६।२)

āpūrya puṣpaiḥ suśubhaiḥ candanādyaiś ca tajjalam ||

37.1३७.१

न्यसेन्मन्त्राणि तत्तोये सद्योजातादिकानि तु । (३७।१)

nyasenmantrāṇi tattoye sadyojātādikāni tu |

37.2३७.२

सुवर्णकलशेनाथ तथा वै राजतेन वा ॥ (३७।२)

suvarṇakalaśenātha tathā vai rājatena vā ||

38.1३८.१

ताम्रेण पद्मपत्रेण पालाशेन दलेन वा । (३८।१)

tāmreṇa padmapatreṇa pālāśena dalena vā |

38.2३८.२

शंखेन मृन्मयेनाथ शोधितेन शुभेन वा ॥ (३८।२)

śaṃkhena mṛnmayenātha śodhitena śubhena vā ||

39.1३९.१

सकूर्चेन सपुष्पेण स्नापयेन्मन्त्रपूर्वकम् । (३९।१)

sakūrcena sapuṣpeṇa snāpayenmantrapūrvakam |

39.2३९.२

मन्त्राणि ते प्रवक्ष्यामि शृणु सर्वार्थसिद्धये ॥ (३९।२)

mantrāṇi te pravakṣyāmi śṛṇu sarvārthasiddhaye ||

40.1४०.१

यैर्लिङ्गं सकृदप्येवं स्नाप्य मुच्येत मानवः । (४०।१)

yairliṅgaṃ sakṛdapyevaṃ snāpya mucyeta mānavaḥ |

40.2४०.२

पवमानेन मन्त्रज्ञाः तथा वामीयकेन च ॥ (४०।२)

pavamānena mantrajñāḥ tathā vāmīyakena ca ||

41.1४१.१

रुद्रेण नीलरुद्रेण श्रीसूक्तेन शुभेन च । (४१।१)

rudreṇa nīlarudreṇa śrīsūktena śubhena ca |

41.2४१.२

रजनीसूक्तकेनैव चमकेन शुभेन च ॥ (४१।२)

rajanīsūktakenaiva camakena śubhena ca ||

42.1४२.१

होतारेणाथ शिरसार्थर्वेण शुभेन च । (४२।१)

hotāreṇātha śirasārtharveṇa śubhena ca |

42.2४२.२

शान्त्या चाथ पुनः शान्त्या भारुण्डेनारुणेन च ॥ (४२।२)

śāntyā cātha punaḥ śāntyā bhāruṇḍenāruṇena ca ||

43.1४३.१

वारुणेन च ज्येष्ठेन तथा वेदव्रतेन च । (४३।१)

vāruṇena ca jyeṣṭhena tathā vedavratena ca |

43.2४३.२

तथान्तरेण पुण्येन सूक्तेन पुरुषेण च ॥ (४३।२)

tathāntareṇa puṇyena sūktena puruṣeṇa ca ||

44.1४४.१

त्वरितेनैव रुद्रेण कपिना च कपर्दिना । (४४।१)

tvaritenaiva rudreṇa kapinā ca kapardinā |

44.2४४.२

आवोसजेति साम्ना तु बृहच्चन्द्रेण विष्णुना ॥ (४४।२)

āvosajeti sāmnā tu bṛhaccandreṇa viṣṇunā ||

45.1४५.१

विरूपाक्षेण स्कन्देन शतर्ग्भिः शिवैस् तथा । (४५।१)

virūpākṣeṇa skandena śatargbhiḥ śivais tathā |

45.2४५.२

पञ्चब्रह्मैश् च सूत्रेण केवलप्रणवेन च ॥ (४५।२)

pañcabrahmaiś ca sūtreṇa kevalapraṇavena ca ||

46.1४६.१

स्नापयेद्देवदेवेशं सर्वपापप्रशान्तये । (४६।१)

snāpayeddevadeveśaṃ sarvapāpapraśāntaye |

46.2४६.२

वस्त्रं शिवोपवीतं च तथा ह्याचमनीयकम् ॥ (४६।२)

vastraṃ śivopavītaṃ ca tathā hyācamanīyakam ||

47.1४७.१

गन्धं पुष्पं तथा धूपं दीपमन्नं क्रमेण तु । (४७।१)

gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ krameṇa tu |

47.2४७.२

तोयं सुगन्धितं चैव पुनराचमनीयकम् ॥ (४७।२)

toyaṃ sugandhitaṃ caiva punarācamanīyakam ||

48.1४८.१

मुकुटं च शुभं छन्नं तथा वै भूषणानि च । (४८।१)

mukuṭaṃ ca śubhaṃ channaṃ tathā vai bhūṣaṇāni ca |

48.2४८.२

दापयेत्प्रणवेनैव मुखवासादिकानि च ॥ (४८।२)

dāpayetpraṇavenaiva mukhavāsādikāni ca ||

49.1४९.१

ततः स्फटिकसंकाशं देवं निष्कलमक्षरम् । (४९।१)

tataḥ sphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣaram |

49.2४९.२

कारणं सर्वदेवानां सर्वलोकमयं परम् ॥ (४९।२)

kāraṇaṃ sarvadevānāṃ sarvalokamayaṃ param ||

50.1५०.१

ब्रह्मेन्द्रविष्णुरुद्राद्यैर् ऋषिदेवैर् अगोचरम् । (५०।१)

brahmendraviṣṇurudrādyair ṛṣidevair agocaram |

50.2५०.२

वेदविद्भिर् हि वेदान्तैस्त्वगोचरमिति श्रुतिः ॥ (५०।२)

vedavidbhir hi vedāntaistvagocaramiti śrutiḥ ||

51.1५१.१

आदिमध्यान्तरहितं भेषजं भवरोगिणाम् । (५१।१)

ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām |

51.2५१.२

शिवतत्त्वमिति ख्यातं शिवलिङ्गे व्यवस्थितम् ॥ (५१।२)

śivatattvamiti khyātaṃ śivaliṅge vyavasthitam ||

52.1५२.१

प्रणवेनैव मन्त्रेण पूजयेल्लिङ्गमूर्धनि । (५२।१)

praṇavenaiva mantreṇa pūjayelliṅgamūrdhani |

52.2५२.२

स्तोत्रं जपेच्च विधिना नमस्कारं प्रदक्षिणम् ॥ (५२।२)

stotraṃ japecca vidhinā namaskāraṃ pradakṣiṇam ||

53.1५३.१

अर्घ्यं दत्त्वाथ पुष्पाणि पादयोस्तु विकीर्य च । (५३।१)

arghyaṃ dattvātha puṣpāṇi pādayostu vikīrya ca |

53.2५३.२

प्रणिपत्य च देवेशमात्मन्यारोपयेच्छिवम् ॥ (५३।२)

praṇipatya ca deveśamātmanyāropayecchivam ||

54.1५४.१

एवं संक्षिप्य कथितं लिङ्गार्चनमनुत्तमम् । (५४।१)

evaṃ saṃkṣipya kathitaṃ liṅgārcanamanuttamam |

54.2५४.२

आभ्यन्तरं प्रवक्ष्यामि लिङ्गार्चनमिहाद्य ते ॥ (५४।२)

ābhyantaraṃ pravakṣyāmi liṅgārcanamihādya te ||

55.1५५.१

इति श्रीलिङ्गमहापुराणे पूर्वभागे लिङ्गार्चनविधिर्नाम सप्तविंशो ऽध्यायः ॥ (५५।१)

iti śrīliṅgamahāpurāṇe pūrvabhāge liṅgārcanavidhirnāma saptaviṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

LiPur, 1, 27

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit