लिङ्गपुराणLiṅgapurāṇa

LiPur, 1, 49

49 of 163 · 141 verses

Select a line for its word-by-word analysis.

1.1१.१

सूत उवाच । (१।१)

sūta uvāca

1.2१.२

शतमेकं सहस्राणां योजनानां स तु स्मृतः । (१।२)

śatamekaṃ sahasrāṇāṃ yojanānāṃ sa tu smṛtaḥ |

1.3१.३

अनु द्वीपं सहस्राणां द्विगुणं द्विगुणोत्तरम् ॥ (१।३)

anu dvīpaṃ sahasrāṇāṃ dviguṇaṃ dviguṇottaram ||

2.1२.१

पञ्चाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता । (२।१)

pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā |

2.2२.२

द्वीपैश् च सप्तभिर् युक्ता लोकालोकावृता शुभा ॥ (२।२)

dvīpaiś ca saptabhir yuktā lokālokāvṛtā śubhā ||

3.1३.१

नीलस्तथोत्तरे मेरोः श्वेतस्तस्योत्तरे पुनः । (३।१)

nīlastathottare meroḥ śvetastasyottare punaḥ |

3.2३.२

शृङ्गी तस्योत्तरे विप्रास्त्रयस्ते वर्षपर्वताः ॥ (३।२)

śṛṅgī tasyottare viprāstrayaste varṣaparvatāḥ ||

4.1४.१

जठरो देवकूटश् च पूर्वस्यां दिशि पर्वतौ । (४।१)

jaṭharo devakūṭaś ca pūrvasyāṃ diśi parvatau |

4.2४.२

निषधो दक्षिणे मेरोस्तस्य दक्षिणतो गिरिः । (४।२)

niṣadho dakṣiṇe merostasya dakṣiṇato giriḥ |

4.3४.३

हेमकूट इति ख्यातो हिमवांस्तस्य दक्षिणे ॥ (४।३)

hemakūṭa iti khyāto himavāṃstasya dakṣiṇe ||

5.1५.१

मेरोः पश्चिमतश्चैव पर्वतौ द्वौ धराधरौ । (५।१)

meroḥ paścimataścaiva parvatau dvau dharādharau |

5.2५.२

माल्यवान्गन्धमादश् च द्वावेतावुदगायतौ ॥ (५।२)

mālyavāngandhamādaś ca dvāvetāvudagāyatau ||

6.1६.१

एते पर्वतराजानः सिद्धचारणसेविताः । (६।१)

ete parvatarājānaḥ siddhacāraṇasevitāḥ |

6.2६.२

तेषाम् अन्तरविष्कम्भो नवसाहस्रमेकशः ॥ (६।२)

teṣām antaraviṣkambho navasāhasramekaśaḥ ||

7.1७.१

इदं हैमवतं वर्षं भारतं नाम विश्रुतम् । (७।१)

idaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam |

7.2७.२

हेमकूटं परं तस्मान्नाम्ना किंपुरुषं स्मृतम् ॥ (७।२)

hemakūṭaṃ paraṃ tasmānnāmnā kiṃpuruṣaṃ smṛtam ||

8.1८.१

नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते । (८।१)

naiṣadhaṃ hemakūṭāttu harivarṣaṃ taducyate |

8.2८.२

हरिवर्षात्परं चैव मेरोः शुभमिलावृतम् ॥ (८।२)

harivarṣātparaṃ caiva meroḥ śubhamilāvṛtam ||

9.1९.१

इलावृतात्परं नीलं रम्यकं नाम विश्रुतम् । (९।१)

ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam |

9.2९.२

रम्यात्परतरं श्वेतं विख्यातं तद्धिरण्मयम् ॥ (९।२)

ramyātparataraṃ śvetaṃ vikhyātaṃ taddhiraṇmayam ||

10.1१०.१

हिरण्मयात्परं चापि शृङ्गी चैव कुरुः स्मृतः । (१०।१)

hiraṇmayātparaṃ cāpi śṛṅgī caiva kuruḥ smṛtaḥ |

10.2१०.२

धनुःसंस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे ॥ (१०।२)

dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare ||

11.1११.१

दीर्घाणि तत्र चत्वारि मध्यतस्तदिलावृतम् । (११।१)

dīrghāṇi tatra catvāri madhyatastadilāvṛtam |

11.2११.२

मेरोः पश्चिमपूर्वेण द्वे तु दीर्घेतरे स्मृते ॥ (११।२)

meroḥ paścimapūrveṇa dve tu dīrghetare smṛte ||

12.1१२.१

अर्वाक्तु निषधस्याथ वेद्यर्धं चोत्तरं स्मृतम् । (१२।१)

arvāktu niṣadhasyātha vedyardhaṃ cottaraṃ smṛtam |

12.2१२.२

वेद्यर्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ॥ (१२।२)

vedyardhe dakṣiṇe trīṇi varṣāṇi trīṇi cottare ||

13.1१३.१

तयोर्मध्ये च विज्ञेयं मेरुमध्यमिलावृतम् । (१३।१)

tayormadhye ca vijñeyaṃ merumadhyamilāvṛtam |

13.2१३.२

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ (१३।२)

dakṣiṇena tu nīlasya niṣadhasyottareṇa tu ||

14.1१४.१

उदगायतो महाशैलो माल्यवान्नाम पर्वतः । (१४।१)

udagāyato mahāśailo mālyavānnāma parvataḥ |

14.2१४.२

योजनानां सहस्रे द्वे उपरिष्टात्तु विस्तृतः ॥ (१४।२)

yojanānāṃ sahasre dve upariṣṭāttu vistṛtaḥ ||

15.1१५.१

आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः । (१५।१)

āyāmataścatustriṃśatsahasrāṇi prakīrtitaḥ |

15.2१५.२

तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः ॥ (१५।२)

tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ ||

16.1१६.१

आयामतः स विज्ञेयो माल्यवानिव विस्तृतः । (१६।१)

āyāmataḥ sa vijñeyo mālyavāniva vistṛtaḥ |

16.2१६.२

जम्बूद्वीपस्य विस्तारात्समेन तु समन्ततः ॥ (१६।२)

jambūdvīpasya vistārātsamena tu samantataḥ ||

17.1१७.१

प्रागायताः सुपर्वाणः षडेते वर्षपर्वताः । (१७।१)

prāgāyatāḥ suparvāṇaḥ ṣaḍete varṣaparvatāḥ |

17.2१७.२

अवगाढाश्चोभयतः समुद्रौ पूर्वपश्चिमौ ॥ (१७।२)

avagāḍhāścobhayataḥ samudrau pūrvapaścimau ||

18.1१८.१

हिमप्रायस्तु हिमवान् हेमकूटस्तु हेमवान् । (१८।१)

himaprāyastu himavān hemakūṭastu hemavān |

18.2१८.२

तरुणादित्यसंकाशो हैरण्यो निषधः स्मृतः ॥ (१८।२)

taruṇādityasaṃkāśo hairaṇyo niṣadhaḥ smṛtaḥ ||

19.1१९.१

चतुर्वर्णः ससौवर्णो मेरुश्चोर्ध्वायतः स्मृतः । (१९।१)

caturvarṇaḥ sasauvarṇo meruścordhvāyataḥ smṛtaḥ |

19.2१९.२

वृत्ताकृतिपरीणाहश् चतुरस्रः समुत्थितः ॥ (१९।२)

vṛttākṛtiparīṇāhaś caturasraḥ samutthitaḥ ||

20.1२०.१

नीलश् च वैडूर्यमयः श्वेतः शुक्लो हिरण्मयः । (२०।१)

nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ |

20.2२०.२

मयूरबर्हवर्णस्तु शातकुंभस् त्रिशृङ्गवान् ॥ (२०।२)

mayūrabarhavarṇastu śātakuṃbhas triśṛṅgavān ||

21.1२१.१

एवं संक्षेपतः प्रोक्ताः पुनः शृणु गिरीश्वरान् । (२१।१)

evaṃ saṃkṣepataḥ proktāḥ punaḥ śṛṇu girīśvarān |

21.2२१.२

मन्दरो देवकूटश् च पूर्वस्यां दिशि पर्वतौ ॥ (२१।२)

mandaro devakūṭaś ca pūrvasyāṃ diśi parvatau ||

22.1२२.१

कैलासो गन्धमादश् च हेमवांश्चैव पर्वतौ । (२२।१)

kailāso gandhamādaś ca hemavāṃścaiva parvatau |

22.2२२.२

पूर्वतश् चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ (२२।२)

pūrvataś cāyatāvetāvarṇavāntarvyavasthitau ||

23.1२३.१

निषधः पारियात्रश् च द्वावेतौ वरपर्वतौ । (२३।१)

niṣadhaḥ pāriyātraś ca dvāvetau varaparvatau |

23.2२३.२

यथा पूर्वौ तथा याम्यावेतौ पश्चिमतः श्रितौ ॥ (२३।२)

yathā pūrvau tathā yāmyāvetau paścimataḥ śritau ||

24.1२४.१

त्रिशृङ्गो जारुचिश्चैव उत्तरौ वरपर्वतौ । (२४।१)

triśṛṅgo jāruciścaiva uttarau varaparvatau |

24.2२४.२

पूर्वतश् चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ (२४।२)

pūrvataś cāyatāvetāvarṇavāntarvyavasthitau ||

25.1२५.१

मर्यादापर्वतान् एतानष्टावाहुर्मनीषिणः । (२५।१)

maryādāparvatān etānaṣṭāvāhurmanīṣiṇaḥ |

25.2२५.२

योऽसौ मेरुर्द्विजश्रेष्ठाः प्रांशुः कनकपर्वतः ॥ (२५।२)

yo'sau merurdvijaśreṣṭhāḥ prāṃśuḥ kanakaparvataḥ ||

26.1२६.१

तस्य पादास्तु चत्वारश्चतुर्दिक्षु नगोत्तमाः । (२६।१)

tasya pādāstu catvāraścaturdikṣu nagottamāḥ |

26.2२६.२

यैर्विष्टब्धा न चलति सप्तद्वीपवती मही ॥ (२६।२)

yairviṣṭabdhā na calati saptadvīpavatī mahī ||

27.1२७.१

दशयोजनसाहस्रम् आयामस् तेषु पठ्यते । (२७।१)

daśayojanasāhasram āyāmas teṣu paṭhyate |

27.2२७.२

पूर्वे तु मन्दरो नाम दक्षिणे गन्धमादनः ॥ (२७।२)

pūrve tu mandaro nāma dakṣiṇe gandhamādanaḥ ||

28.1२८.१

विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः । (२८।१)

vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ |

28.2२८.२

महावृक्षाः समुत्पन्नाश् चत्वारो द्वीपकेतवः ॥ (२८।२)

mahāvṛkṣāḥ samutpannāś catvāro dvīpaketavaḥ ||

29.1२९.१

मन्दरस्य गिरेः शृङ्गे महावृक्षः सकेतुराट् । (२९।१)

mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ |

29.2२९.२

प्रलम्बशाखाशिखरः कदम्बश् चैत्यपादपः ॥ (२९।२)

pralambaśākhāśikharaḥ kadambaś caityapādapaḥ ||

30.1३०.१

दक्षिणस्यापि शैलस्य शिखरे देवसेविता । (३०।१)

dakṣiṇasyāpi śailasya śikhare devasevitā |

30.2३०.२

जम्बूः सदा पुण्यफला सदा माल्योपशोभिता ॥ (३०।२)

jambūḥ sadā puṇyaphalā sadā mālyopaśobhitā ||

31.1३१.१

सकेतुर् दक्षिणे द्वीपे जम्बूर्लोकेषु विश्रुता । (३१।१)

saketur dakṣiṇe dvīpe jambūrlokeṣu viśrutā |

31.2३१.२

विपुलस्यापि शैलस्य पश्चिमे च महात्मनः ॥ (३१।२)

vipulasyāpi śailasya paścime ca mahātmanaḥ ||

32.1३२.१

संजातः शिखरे ऽश्वत्थः स महान् चैत्यपादपः । (३२।१)

saṃjātaḥ śikhare 'śvatthaḥ sa mahān caityapādapaḥ |

32.2३२.२

सुपार्श्वस्योत्तरस्यापि शृङ्गे जातो महाद्रुमः ॥ (३२।२)

supārśvasyottarasyāpi śṛṅge jāto mahādrumaḥ ||

33.1३३.१

न्यग्रोधो विपुलस्कन्धो ऽनेकयोजनमण्डलः । (३३।१)

nyagrodho vipulaskandho 'nekayojanamaṇḍalaḥ |

33.2३३.२

तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् ॥ (३३।२)

teṣāṃ caturṇāṃ vakṣyāmi śailendrāṇāṃ yathākramam ||

34.1३४.१

अमानुष्याणि रम्याणि सर्वकालर्तुकानि च । (३४।१)

amānuṣyāṇi ramyāṇi sarvakālartukāni ca |

34.2३४.२

मनोहराणि चत्वारि देवक्रीडनकानि च ॥ (३४।२)

manoharāṇi catvāri devakrīḍanakāni ca ||

35.1३५.१

वनानि वै चतुर्दिक्षु नामतस्तु निबोधत । (३५।१)

vanāni vai caturdikṣu nāmatastu nibodhata |

35.2३५.२

पूर्वे चैत्ररथं नाम दक्षिणे गन्धमादनम् ॥ (३५।२)

pūrve caitrarathaṃ nāma dakṣiṇe gandhamādanam ||

36.1३६.१

वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम् । (३६।१)

vaibhrājaṃ paścime vidyāduttare saviturvanam |

36.2३६.२

मित्रेश्वरं तु पूर्वे तु षष्ठेश्वरम् अतः परम् ॥ (३६।२)

mitreśvaraṃ tu pūrve tu ṣaṣṭheśvaram ataḥ param ||

37.1३७.१

वर्येश्वरं पश्चिमे तु उत्तरे चाम्रकेश्वरम् । (३७।१)

varyeśvaraṃ paścime tu uttare cāmrakeśvaram |

37.2३७.२

महासरांसि च तथा चत्वारि मुनिपुङ्गवाः ॥ (३७।२)

mahāsarāṃsi ca tathā catvāri munipuṅgavāḥ ||

38.1३८.१

यत्र क्रीडन्ति मुनयः पर्वतेषु वनेषु च । (३८।१)

yatra krīḍanti munayaḥ parvateṣu vaneṣu ca |

38.2३८.२

अरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम् ॥ (३८।२)

aruṇodaṃ saraḥ pūrvaṃ dakṣiṇaṃ mānasaṃ smṛtam ||

39.1३९.१

सितोदं पश्चिमसरो महाभद्रं तथोत्तरम् । (३९।१)

sitodaṃ paścimasaro mahābhadraṃ tathottaram |

39.2३९.२

शाखस्य दक्षिणे क्षेत्रं विशाखस्य च पश्चिमे ॥ (३९।२)

śākhasya dakṣiṇe kṣetraṃ viśākhasya ca paścime ||

40.1४०.१

उत्तरे नैगमेयस्य कुमारस्य च पूर्वतः । (४०।१)

uttare naigameyasya kumārasya ca pūrvataḥ |

40.2४०.२

अरुणोदस्य पूर्वेण शैलेन्द्रा नामतः स्मृताः ॥ (४०।२)

aruṇodasya pūrveṇa śailendrā nāmataḥ smṛtāḥ ||

41.1४१.१

तांस्तु संक्षेपतो वक्ष्ये न शक्यं विस्तरेण तु । (४१।१)

tāṃstu saṃkṣepato vakṣye na śakyaṃ vistareṇa tu |

41.2४१.२

सितान्तश् च कुरण्डश् च कुररश्चाचलोत्तमः ॥ (४१।२)

sitāntaś ca kuraṇḍaś ca kuraraścācalottamaḥ ||

42.1४२.१

विकरो मणिशैलश् च वृक्षवांश्चाचलोत्तमः । (४२।१)

vikaro maṇiśailaś ca vṛkṣavāṃścācalottamaḥ |

42.2४२.२

महानीलोऽथ रुचकः सबिन्दुर्दर्दुरस् तथा ॥ (४२।२)

mahānīlo'tha rucakaḥ sabindurdarduras tathā ||

43.1४३.१

वेणुमांश् च समेघश् च निषधो देवपर्वतः । (४३।१)

veṇumāṃś ca sameghaś ca niṣadho devaparvataḥ |

43.2४३.२

इत्येते पर्वतवरा ह्यन्ये च गिरयस् तथा ॥ (४३।२)

ityete parvatavarā hyanye ca girayas tathā ||

44.1४४.१

पूर्वेण मन्दरस्यैते सिद्धावासा उदाहृताः । (४४।१)

pūrveṇa mandarasyaite siddhāvāsā udāhṛtāḥ |

44.2४४.२

तेषु तेषु गिरीन्द्रेषु गुहासु च वनेषु च ॥ (४४।२)

teṣu teṣu girīndreṣu guhāsu ca vaneṣu ca ||

45.1४५.१

रुद्रक्षेत्राणि दिव्यानि विष्णोर्नारायणस्य च । (४५।१)

rudrakṣetrāṇi divyāni viṣṇornārāyaṇasya ca |

45.2४५.२

सरसो मानसस्येह दक्षिणेन महाचलाः ॥ (४५।२)

saraso mānasasyeha dakṣiṇena mahācalāḥ ||

46.1४६.१

ये कीर्त्यमानास्तान्सर्वान् संक्षिप्य प्रवदाम्यहम् । (४६।१)

ye kīrtyamānāstānsarvān saṃkṣipya pravadāmyaham |

46.2४६.२

शैलश् च विशिराश्चैव शिखरश्चाचलोत्तमः ॥ (४६।२)

śailaś ca viśirāścaiva śikharaścācalottamaḥ ||

47.1४७.१

एकशृङ्गो महाशूलो गजशैलः पिशाचकः । (४७।१)

ekaśṛṅgo mahāśūlo gajaśailaḥ piśācakaḥ |

47.2४७.२

पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः ॥ (४७।२)

pañcaśailo'tha kailāso himavāṃścācalottamaḥ ||

48.1४८.१

इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः । (४८।१)

ityete devacaritā utkaṭāḥ parvatottamāḥ |

48.2४८.२

तेषु तेषु च सर्वेषु पर्वतेषु वनेषु च ॥ (४८।२)

teṣu teṣu ca sarveṣu parvateṣu vaneṣu ca ||

49.1४९.१

रुद्रक्षेत्राणि दिव्यानि स्थापितानि सुरोत्तमैः । (४९।१)

rudrakṣetrāṇi divyāni sthāpitāni surottamaiḥ |

49.2४९.२

दिग्भागे दक्षिणे प्रोक्ताः पश्चिमे च वदामि वः ॥ (४९।२)

digbhāge dakṣiṇe proktāḥ paścime ca vadāmi vaḥ ||

50.1५०.१

अपरेण सितोदश् च सुरपश् च महाबलः । (५०।१)

apareṇa sitodaś ca surapaś ca mahābalaḥ |

50.2५०.२

कुमुदो मधुमांश्चैव ह्यञ्जनो मुकुटस् तथा ॥ (५०।२)

kumudo madhumāṃścaiva hyañjano mukuṭas tathā ||

51.1५१.१

कृष्णश् च पाण्डुरश्चैव सहस्रशिखरश् च यः । (५१।१)

kṛṣṇaś ca pāṇḍuraścaiva sahasraśikharaś ca yaḥ |

51.2५१.२

पारिजातश् च शैलेन्द्रः श्रीशृङ्गश्चाचलोत्तमः ॥ (५१।२)

pārijātaś ca śailendraḥ śrīśṛṅgaścācalottamaḥ ||

52.1५२.१

इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः । (५२।१)

ityete devacaritā utkaṭāḥ parvatottamāḥ |

52.2५२.२

सर्वे पश्चिमदिग्भागे रुद्रक्षेत्रसमन्विताः ॥ (५२।२)

sarve paścimadigbhāge rudrakṣetrasamanvitāḥ ||

53.1५३.१

महाभद्रस्य सरसश्चोत्तरे च महाबलाः । (५३।१)

mahābhadrasya sarasaścottare ca mahābalāḥ |

53.2५३.२

ये स्थिताः कीर्त्यमानांस्तान्संक्षिप्येह निबोधत ॥ (५३।२)

ye sthitāḥ kīrtyamānāṃstānsaṃkṣipyeha nibodhata ||

54.1५४.१

शङ्खकूटो महाशैलो वृषभो हंसपर्वतः । (५४।१)

śaṅkhakūṭo mahāśailo vṛṣabho haṃsaparvataḥ |

54.2५४.२

नागश् च कपिलश्चैव इन्द्रशैलश् च सानुमान् ॥ (५४।२)

nāgaś ca kapilaścaiva indraśailaś ca sānumān ||

55.1५५.१

नीलः कण्टकशृङ्गश् च शतशृङ्गश् च पर्वतः । (५५।१)

nīlaḥ kaṇṭakaśṛṅgaś ca śataśṛṅgaś ca parvataḥ |

55.2५५.२

पुष्पकोशः प्रशैलश् च विरजश्चाचलोत्तमः ॥ (५५।२)

puṣpakośaḥ praśailaś ca virajaścācalottamaḥ ||

56.1५६.१

वराहपर्वतश्चैव मयूरश्चाचलोत्तमः । (५६।१)

varāhaparvataścaiva mayūraścācalottamaḥ |

56.2५६.२

जारुधिश्चैव शैलेन्द्र एत उत्तरसंस्थिताः ॥ (५६।२)

jārudhiścaiva śailendra eta uttarasaṃsthitāḥ ||

57.1५७.१

तेषु शैलेषु दिव्येषु देवदेवस्य शूलिनः । (५७।१)

teṣu śaileṣu divyeṣu devadevasya śūlinaḥ |

57.2५७.२

असंख्यातानि दिव्यानि विमानानि सहस्रशः ॥ (५७।२)

asaṃkhyātāni divyāni vimānāni sahasraśaḥ ||

58.1५८.१

एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् । (५८।१)

eteṣāṃ śailamukhyānāmantareṣu yathākramam |

58.2५८.२

सन्ति चैवान्तरद्रोण्यः सरांस्युपवनानि च ॥ (५८।२)

santi caivāntaradroṇyaḥ sarāṃsyupavanāni ca ||

59.1५९.१

वसन्ति देवा मुनयः सिद्धाश् च शिवभाविताः । (५९।१)

vasanti devā munayaḥ siddhāś ca śivabhāvitāḥ |

59.2५९.२

कृतवासाः सपत्नीकाः प्रसादात्परमेष्ठिनः ॥ (५९।२)

kṛtavāsāḥ sapatnīkāḥ prasādātparameṣṭhinaḥ ||

60.1६०.१

लक्ष्म्याद्यानां बिल्ववने ककुभे कश्यपादयः । (६०।१)

lakṣmyādyānāṃ bilvavane kakubhe kaśyapādayaḥ |

60.2६०.२

तथा तालवने प्रोक्तम् इन्द्रोपेन्द्रोरगात्मनाम् ॥ (६०।२)

tathā tālavane proktam indropendroragātmanām ||

61.1६१.१

उदुंबरे कर्दमस्य तथान्येषां महात्मनाम् । (६१।१)

uduṃbare kardamasya tathānyeṣāṃ mahātmanām |

61.2६१.२

विद्याधराणां सिद्धानां पुण्ये त्वाम्रवने शुभे ॥ (६१।२)

vidyādharāṇāṃ siddhānāṃ puṇye tvāmravane śubhe ||

62.1६२.१

नागानां सिद्धसंघानां तथा निंबवने स्थितिः । (६२।१)

nāgānāṃ siddhasaṃghānāṃ tathā niṃbavane sthitiḥ |

62.2६२.२

सूर्यस्य किंशुकवने तथा रुद्रगणस्य च ॥ (६२।२)

sūryasya kiṃśukavane tathā rudragaṇasya ca ||

63.1६३.१

बीजपूरवने पुण्ये देवाचार्यो व्यवस्थितः । (६३।१)

bījapūravane puṇye devācāryo vyavasthitaḥ |

63.2६३.२

कौमुदे तु वने विष्णुप्रमुखानां महात्मनाम् ॥ (६३।२)

kaumude tu vane viṣṇupramukhānāṃ mahātmanām ||

64.1६४.१

स्थलपद्मवनान्तस्थन्यग्रोधे ऽशेषभोगिनः । (६४।१)

sthalapadmavanāntasthanyagrodhe 'śeṣabhoginaḥ |

64.2६४.२

शेषस्त्वशेषजगतां पतिरास्ते ऽतिगर्वितः ॥ (६४।२)

śeṣastvaśeṣajagatāṃ patirāste 'tigarvitaḥ ||

65.1६५.१

स एव जगतां कालः पाताले च व्यवस्थितः । (६५।१)

sa eva jagatāṃ kālaḥ pātāle ca vyavasthitaḥ |

65.2६५.२

विष्णोर्विश्वगुरोर्मूर्तिर्दिव्यः साक्षाद्धलायुधः ॥ (६५।२)

viṣṇorviśvagurormūrtirdivyaḥ sākṣāddhalāyudhaḥ ||

66.1६६.१

शयनं देवदेवस्य स हरेः कङ्कणं विभोः । (६६।१)

śayanaṃ devadevasya sa hareḥ kaṅkaṇaṃ vibhoḥ |

66.2६६.२

वने पनसवृक्षाणां सशुक्रा दानवादयः ॥ (६६।२)

vane panasavṛkṣāṇāṃ saśukrā dānavādayaḥ ||

67.1६७.१

किन्नरैरुरगाश्चैव विशाखकवने स्थिताः । (६७।१)

kinnarairuragāścaiva viśākhakavane sthitāḥ |

67.2६७.२

मनोहरवने वृक्षाः सर्वकोटिसमन्विताः ॥ (६७।२)

manoharavane vṛkṣāḥ sarvakoṭisamanvitāḥ ||

68.1६८.१

नन्दीश्वरो गणवरैः स्तूयमानो व्यवस्थितः । (६८।१)

nandīśvaro gaṇavaraiḥ stūyamāno vyavasthitaḥ |

68.2६८.२

संतानकस्थलीमध्ये साक्षाद्देवी सरस्वती ॥ (६८।२)

saṃtānakasthalīmadhye sākṣāddevī sarasvatī ||

69.1६९.१

एवं संक्षेपतः प्रोक्ता वनेषु वनवासिनः । (६९।१)

evaṃ saṃkṣepataḥ proktā vaneṣu vanavāsinaḥ |

69.2६९.२

असंख्याता मयाप्यत्र वक्तुं नो विस्तरेण तु ॥ (६९।२)

asaṃkhyātā mayāpyatra vaktuṃ no vistareṇa tu ||

70.1७०.१

इति श्रीलिङ्गमहापुराणे पूर्वभागे एकोनपञ्चाशत्तमो ऽध्यायः ॥ (७०।१)

iti śrīliṅgamahāpurāṇe pūrvabhāge ekonapañcāśattamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

LiPur, 1, 49

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit