लिङ्गपुराणLiṅgapurāṇa

LiPur, 2, 25

133 of 163 · 190 verses

Select a line for its word-by-word analysis.

1.1१.१

शैलादिरुवाच । (१।१)

śailādiruvāca |

1.2१.२

शिवाग्निकार्यं वक्ष्यामि शिवेन परिभाषितम् । (१।२)

śivāgnikāryaṃ vakṣyāmi śivena paribhāṣitam |

1.3१.३

जनयित्वाग्रतः प्राचीं शुभे देशे सुसंस्कृते ॥ (१।३)

janayitvāgrataḥ prācīṃ śubhe deśe susaṃskṛte ||

2.1२.१

पूर्वाग्रमुत्तराग्रं च कुर्यात्सूत्रत्रयंशुभम् । (२।१)

pūrvāgramuttarāgraṃ ca kuryātsūtratrayaṃśubham |

2.2२.२

चतुरस्त्रीकृते क्षेत्रे कुर्यात्कुण्डानि यत्नतः ॥ (२।२)

caturastrīkṛte kṣetre kuryātkuṇḍāni yatnataḥ ||

3.1३.१

नित्यहोमाग्निकुण्डं च त्रिमेखलसमायुतम् । (३।१)

nityahomāgnikuṇḍaṃ ca trimekhalasamāyutam |

3.2३.२

चतुस्त्रिद्व्यङ्गुलायामा मेखला हस्तमात्रतः ॥ (३।२)

catustridvyaṅgulāyāmā mekhalā hastamātrataḥ ||

4.1४.१

हस्तमात्रं भवेत्कुण्डं योनिः प्रादेशमात्रतः । (४।१)

hastamātraṃ bhavetkuṇḍaṃ yoniḥ prādeśamātrataḥ |

4.2४.२

अश्वत्थपत्रवद् योनिं मेखलोपरि कल्पयेत् ॥ (४।२)

aśvatthapatravad yoniṃ mekhalopari kalpayet ||

5.1५.१

कुण्डमध्ये तु नाभिः स्यादष्टपत्रं सकर्णिकम् । (५।१)

kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam |

5.2५.२

प्रादेशमात्रं विधिना कारयेद्ब्रह्मणः सुत ॥ (५।२)

prādeśamātraṃ vidhinā kārayedbrahmaṇaḥ suta ||

6.1६.१

षष्ठेनोल्लेखनं प्रोक्तं प्रोक्षणं वर्मणा स्मृतम् । (६।१)

ṣaṣṭhenollekhanaṃ proktaṃ prokṣaṇaṃ varmaṇā smṛtam |

6.2६.२

नेत्रेणालोक्य वै कुण्डं षड्रेखाः कारयेद्बुधः ॥ (६।२)

netreṇālokya vai kuṇḍaṃ ṣaḍrekhāḥ kārayedbudhaḥ ||

7.1७.१

प्रागायतेन विप्रेन्द्र ब्रह्मविष्णुमहेश्वराः । (७।१)

prāgāyatena viprendra brahmaviṣṇumaheśvarāḥ |

7.2७.२

उत्तराग्राः शिवा रेखाः प्रोक्षयेद्वर्मणा पुनः ॥ (७।२)

uttarāgrāḥ śivā rekhāḥ prokṣayedvarmaṇā punaḥ ||

8.1८.१

शमीपिप्पलसम्भूताम् अरणीं षोडशाङ्गुलाम् । (८।१)

śamīpippalasambhūtām araṇīṃ ṣoḍaśāṅgulām |

8.2८.२

मथित्वा वह्निबीजेन शक्तिन्यासं हृदैव तु ॥ (८।२)

mathitvā vahnibījena śaktinyāsaṃ hṛdaiva tu ||

9.1९.१

प्रक्षिपेद्विधिना वह्निमन्वाधाय यथाविधि । (९।१)

prakṣipedvidhinā vahnimanvādhāya yathāvidhi |

9.2९.२

तूष्णीं प्रादेशमात्रैस्तु याज्ञिकैः शकलैः शुभैः ॥ (९।२)

tūṣṇīṃ prādeśamātraistu yājñikaiḥ śakalaiḥ śubhaiḥ ||

10.1१०.१

परिसम्मोहनं कुर्याज्जलेनाष्टसु दिक्षु वै । (१०।१)

parisammohanaṃ kuryājjalenāṣṭasu dikṣu vai |

10.2१०.२

परिस्तीर्य विधानेन प्रागाद्येवमनुक्रमात् ॥ (१०।२)

paristīrya vidhānena prāgādyevamanukramāt ||

11.1११.१

उत्तराग्रं पुरस्ताद्धि प्रागग्रं दक्षिणे पुनः । (११।१)

uttarāgraṃ purastāddhi prāgagraṃ dakṣiṇe punaḥ |

11.2११.२

पश्चिमे चोत्तराग्रं तु सौम्ये पूर्वाग्रमेव तु ॥ (११।२)

paścime cottarāgraṃ tu saumye pūrvāgrameva tu ||

12.1१२.१

ऐन्द्रे चैन्द्राग्रमावाह्य याम्य एवं विधीयते । (१२।१)

aindre caindrāgramāvāhya yāmya evaṃ vidhīyate |

12.2१२.२

सौम्यस्योपरि चान्द्राग्नं वारुणाग्नम् अधस्ततः ॥ (१२।२)

saumyasyopari cāndrāgnaṃ vāruṇāgnam adhastataḥ ||

13.1१३.१

द्वन्द्वरूपेण पात्राणि बर्हिःष्व् आसाद्य सुव्रत । (१३।१)

dvandvarūpeṇa pātrāṇi barhiḥṣv āsādya suvrata |

13.2१३.२

अधोमुखानि सर्वाणि द्रव्याणि च तथोत्तरे ॥ (१३।२)

adhomukhāni sarvāṇi dravyāṇi ca tathottare ||

14.1१४.१

तस्योपरि न्यसेद्दर्भाञ्छिवं दक्षिणतो न्यसेत् । (१४।१)

tasyopari nyaseddarbhāñchivaṃ dakṣiṇato nyaset |

14.2१४.२

पूजयेन्मूलमन्त्रेण पश्चाद्धोमं समाचरेत् ॥ (१४।२)

pūjayenmūlamantreṇa paścāddhomaṃ samācaret ||

15.1१५.१

प्रोक्षणीपात्रमादाय पूरयेदंबुना पुनः । (१५।१)

prokṣaṇīpātramādāya pūrayedaṃbunā punaḥ |

15.2१५.२

प्रादेशमात्रौ तु कुशौ स्थापयेदुदकोपरि ॥ (१५।२)

prādeśamātrau tu kuśau sthāpayedudakopari ||

16.1१६.१

प्लावयेच्च कुशाग्रं तु वसोः सूर्यस्य रश्मिभिः । (१६।१)

plāvayecca kuśāgraṃ tu vasoḥ sūryasya raśmibhiḥ |

16.2१६.२

विकीर्य सर्वपात्राणि सुसंप्रोक्ष्य विधानतः ॥ (१६।२)

vikīrya sarvapātrāṇi susaṃprokṣya vidhānataḥ ||

17.1१७.१

प्रणीतापात्रमादाय पूरयेदंबुना पुनः । (१७।१)

praṇītāpātramādāya pūrayedaṃbunā punaḥ |

17.2१७.२

अन्योदककुशाग्रैस्तु सम्यगाच्छाद्य सुव्रत ॥ (१७।२)

anyodakakuśāgraistu samyagācchādya suvrata ||

18.1१८.१

हस्ताभ्यां नासिकं पात्रमैशान्यां दिशि विन्यसेत् । (१८।१)

hastābhyāṃ nāsikaṃ pātramaiśānyāṃ diśi vinyaset |

18.2१८.२

आज्याधिश्रयणं कुर्यात्पश्चिमोत्तरतः शुभम् ॥ (१८।२)

ājyādhiśrayaṇaṃ kuryātpaścimottarataḥ śubham ||

19.1१९.१

भस्ममिश्रांस्तथाङ्गारान् ग्राहयेच्छकलेन वै । (१९।१)

bhasmamiśrāṃstathāṅgārān grāhayecchakalena vai |

19.2१९.२

पश्चिमोत्तरतो नीत्वा तत्र चाज्यं प्रतापयेत् ॥ (१९।२)

paścimottarato nītvā tatra cājyaṃ pratāpayet ||

20.1२०.१

कुशानग्नौ तु प्रज्वाल्य पर्यग्निं त्रिभिराचरेत् । (२०।१)

kuśānagnau tu prajvālya paryagniṃ tribhirācaret |

20.2२०.२

तान्सर्वांस्तत्र निःक्षिप्य चाग्रे चाज्यं निधापयेत् ॥ (२०।२)

tānsarvāṃstatra niḥkṣipya cāgre cājyaṃ nidhāpayet ||

21.1२१.१

अङ्गुष्ठमात्रौ तु कुशौ प्रक्षाल्य विधिनैव तु । (२१।१)

aṅguṣṭhamātrau tu kuśau prakṣālya vidhinaiva tu |

21.2२१.२

पर्यग्निं च ततः कुर्यात्तैरेव नवभिः पुनः ॥ (२१।२)

paryagniṃ ca tataḥ kuryāttaireva navabhiḥ punaḥ ||

22.1२२.१

पर्यग्निं च पुनः कुर्यात् तदाज्यमवरोपयेत् । (२२।१)

paryagniṃ ca punaḥ kuryāt tadājyamavaropayet |

22.2२२.२

अथापकर्षयेत् पात्रं क्रमेणोत्तरपश्चिमे ॥ (२२।२)

athāpakarṣayet pātraṃ krameṇottarapaścime ||

23.1२३.१

संयुज्य चाग्निं काष्ठेन प्रक्षाल्यारोप्य पश्चिमे । (२३।१)

saṃyujya cāgniṃ kāṣṭhena prakṣālyāropya paścime |

23.2२३.२

आज्यस्योत्पवनं कुर्यात्पवित्राभ्यां सहैव तु ॥ (२३।२)

ājyasyotpavanaṃ kuryātpavitrābhyāṃ sahaiva tu ||

24.1२४.१

पृथगादाय हस्ताभ्यां प्रवाहेण यथाक्रमम् । (२४।१)

pṛthagādāya hastābhyāṃ pravāheṇa yathākramam |

24.2२४.२

अङ्गुष्ठानामिकाभ्यां तु उभाभ्यां मूलविद्यया ॥ (२४।२)

aṅguṣṭhānāmikābhyāṃ tu ubhābhyāṃ mūlavidyayā ||

25.1२५.१

अभ्युक्ष्य दापयेदग्नौ पवित्रे घृतपङ्किते । (२५।१)

abhyukṣya dāpayedagnau pavitre ghṛtapaṅkite |

25.2२५.२

सौवर्णं स्रुक्स्रुवं कुर्याद् रत्निमात्रेण सुव्रत ॥ (२५।२)

sauvarṇaṃ sruksruvaṃ kuryād ratnimātreṇa suvrata ||

26.1२६.१

राजतं वा यथान्यायं सर्वलक्षणसंयुतम् । (२६।१)

rājataṃ vā yathānyāyaṃ sarvalakṣaṇasaṃyutam |

26.2२६.२

अथवा याज्ञिकैर्वृक्षैः कर्तव्यौ स्रुक्स्रुवावुभौ ॥ (२६।२)

athavā yājñikairvṛkṣaiḥ kartavyau sruksruvāvubhau ||

27.1२७.१

अरत्निमात्रमायामं तत्पोत्रे तु बिलं भवेत् । (२७।१)

aratnimātramāyāmaṃ tatpotre tu bilaṃ bhavet |

27.2२७.२

षडङ्गुलपरीणाहं दण्डमूलं महामुने ॥ (२७।२)

ṣaḍaṅgulaparīṇāhaṃ daṇḍamūlaṃ mahāmune ||

28.1२८.१

तदर्धं कण्ठनालं स्यात्पुष्करं मूलवद्भवेत् । (२८।१)

tadardhaṃ kaṇṭhanālaṃ syātpuṣkaraṃ mūlavadbhavet |

28.2२८.२

गोवालसदृशं दण्डं स्रुवाग्रं नासिकासमम् ॥ (२८।२)

govālasadṛśaṃ daṇḍaṃ sruvāgraṃ nāsikāsamam ||

29.1२९.१

पुटद्वयसमायुक्तं मुक्ताद्येन प्रपूरितम् । (२९।१)

puṭadvayasamāyuktaṃ muktādyena prapūritam |

29.2२९.२

षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसविस्तरम् ॥ (२९।२)

ṣaṭtriṃśadaṅgulāyāmamaṣṭāṅgulasavistaram ||

30.1३०.१

उत्सेधस्तु तदर्धं स्यात्सूत्रेण समितं ततः । (३०।१)

utsedhastu tadardhaṃ syātsūtreṇa samitaṃ tataḥ |

30.2३०.२

सप्ताङ्गुलं भवेदास्यं विस्तरायामतः पुनः ॥ (३०।२)

saptāṅgulaṃ bhavedāsyaṃ vistarāyāmataḥ punaḥ ||

31.1३१.१

त्रिभागैकं भवेदग्रं कृत्वा शेषं परित्यजेत् । (३१।१)

tribhāgaikaṃ bhavedagraṃ kṛtvā śeṣaṃ parityajet |

31.2३१.२

कण्ठं च द्व्यङ्गुलायामं विस्तारं चतुरङ्गुलम् ॥ (३१।२)

kaṇṭhaṃ ca dvyaṅgulāyāmaṃ vistāraṃ caturaṅgulam ||

32.1३२.१

वेदिर् अष्टाङ्गुलायामा विस्तारस्तत्प्रमाणतः । (३२।१)

vedir aṣṭāṅgulāyāmā vistārastatpramāṇataḥ |

32.2३२.२

तस्य मध्ये बिलं कुर्याच्चतुरङ्गुलमानतः ॥ (३२।२)

tasya madhye bilaṃ kuryāccaturaṅgulamānataḥ ||

33.1३३.१

बिलं सुवर्तितं कुर्यादष्टपत्रं सुकर्णिकम् । (३३।१)

bilaṃ suvartitaṃ kuryādaṣṭapatraṃ sukarṇikam |

33.2३३.२

परितो बिलबाह्ये तु पट्टिकार्धाङ्गुलेन तु ॥ (३३।२)

parito bilabāhye tu paṭṭikārdhāṅgulena tu ||

34.1३४.१

तद्बाह्ये च विनिद्रं तु पद्मपत्रविचित्रितम् । (३४।१)

tadbāhye ca vinidraṃ tu padmapatravicitritam |

34.2३४.२

यवद्वयप्रमाणेन तद्बाह्ये पट्टिका भवेत् ॥ (३४।२)

yavadvayapramāṇena tadbāhye paṭṭikā bhavet ||

35.1३५.१

वेदिकामध्यतो रन्ध्रं कनिष्ठाङ्गुलमानतः । (३५।१)

vedikāmadhyato randhraṃ kaniṣṭhāṅgulamānataḥ |

35.2३५.२

खातं यावन्मुखान्तः स्याद्बिलमानं तु निम्नगम् ॥ (३५।२)

khātaṃ yāvanmukhāntaḥ syādbilamānaṃ tu nimnagam ||

36.1३६.१

दण्डं षडङ्गुलं नालं दण्डाग्रे दण्डिकात्रयम् । (३६।१)

daṇḍaṃ ṣaḍaṅgulaṃ nālaṃ daṇḍāgre daṇḍikātrayam |

36.2३६.२

अर्धाङ्गुलविवृद्ध्या तु कर्तव्यं चतुरङ्गुलम् ॥ (३६।२)

ardhāṅgulavivṛddhyā tu kartavyaṃ caturaṅgulam ||

37.1३७.१

त्रयोदशाङ्गुलायामं दण्डमूले घटं भवेत् । (३७।१)

trayodaśāṅgulāyāmaṃ daṇḍamūle ghaṭaṃ bhavet |

37.2३७.२

द्व्यङ्गुलस्तु भवेत्कुंभो नाभिं विद्याद्दशाङ्गुलम् ॥ (३७।२)

dvyaṅgulastu bhavetkuṃbho nābhiṃ vidyāddaśāṅgulam ||

38.1३८.१

वेदिमध्ये तथा कृत्वा पादं कुर्याच्च द्व्यङ्गुलम् । (३८।१)

vedimadhye tathā kṛtvā pādaṃ kuryācca dvyaṅgulam |

38.2३८.२

पद्मपृष्ठसमाकारं पादं वै कर्णिकाकृतिम् ॥ (३८।२)

padmapṛṣṭhasamākāraṃ pādaṃ vai karṇikākṛtim ||

39.1३९.१

गजोष्ठसदृशाकारं तस्य पृष्ठाकृतिर्भवेत् । (३९।१)

gajoṣṭhasadṛśākāraṃ tasya pṛṣṭhākṛtirbhavet |

39.2३९.२

अभिचारादिकार्येषु कुर्यात्कृष्णायसेन तु ॥ (३९।२)

abhicārādikāryeṣu kuryātkṛṣṇāyasena tu ||

40.1४०.१

पञ्चविंशत्कुशेनैव स्रुक्स्रुवौ मार्जयेत् पुनः । (४०।१)

pañcaviṃśatkuśenaiva sruksruvau mārjayet punaḥ |

40.2४०.२

अग्रमग्रेण संशोध्य मध्यं मध्येन सुव्रत ॥ (४०।२)

agramagreṇa saṃśodhya madhyaṃ madhyena suvrata ||

41.1४१.१

मूलं मूलेन विधिना अग्नौ ताप्य हृदा पुनः । (४१।१)

mūlaṃ mūlena vidhinā agnau tāpya hṛdā punaḥ |

41.2४१.२

आज्यस्थाली प्रणीता च प्रोक्षणी तिस्र एव च ॥ (४१।२)

ājyasthālī praṇītā ca prokṣaṇī tisra eva ca ||

42.1४२.१

सौवर्णी राजती वापि ताम्री वा मृन्मयी तु वा । (४२।१)

sauvarṇī rājatī vāpi tāmrī vā mṛnmayī tu vā |

42.2४२.२

अन्यथा नैव कर्तव्यं शान्तिके पौष्टिके शुभे ॥ (४२।२)

anyathā naiva kartavyaṃ śāntike pauṣṭike śubhe ||

43.1४३.१

आयसी त्वभिचारे तु शान्तिके मृन्मयी तु वा । (४३।१)

āyasī tvabhicāre tu śāntike mṛnmayī tu vā |

43.2४३.२

षडङ्गुलं सुविस्तीर्णं पात्राणां मुखमुच्यते ॥ (४३।२)

ṣaḍaṅgulaṃ suvistīrṇaṃ pātrāṇāṃ mukhamucyate ||

44.1४४.१

प्रोक्षणी द्व्यङ्गुलोत्सेधा प्रणीता द्व्यङ्गुलाधिका । (४४।१)

prokṣaṇī dvyaṅgulotsedhā praṇītā dvyaṅgulādhikā |

44.2४४.२

आज्यस्थाली ततस्तस्या उत्सेधो द्व्यङ्गुलाधिकः ॥ (४४।२)

ājyasthālī tatastasyā utsedho dvyaṅgulādhikaḥ ||

45.1४५.१

यैः समिद्भिर्हुतं प्रोक्तं तैरेव परिधिर्भवेत् । (४५।१)

yaiḥ samidbhirhutaṃ proktaṃ taireva paridhirbhavet |

45.2४५.२

मध्याङ्गुलपरीणाहा अवक्रा निर्व्रणाः समाः ॥ (४५।२)

madhyāṅgulaparīṇāhā avakrā nirvraṇāḥ samāḥ ||

46.1४६.१

द्वात्रिंशदङ्गुलायामास्तिस्रः परिधयः स्मृताः । (४६।१)

dvātriṃśadaṅgulāyāmāstisraḥ paridhayaḥ smṛtāḥ |

46.2४६.२

द्वात्रिंशदङ्गुलायामैस्त्रिंशद्दर्भैः परिस्तरेत् ॥ (४६।२)

dvātriṃśadaṅgulāyāmaistriṃśaddarbhaiḥ paristaret ||

47.1४७.१

चतुरङ्गुलमध्ये तु ग्रथितं तु प्रदक्षिणम् । (४७।१)

caturaṅgulamadhye tu grathitaṃ tu pradakṣiṇam |

47.2४७.२

अभिचारादिकार्येषु शिवाग्न्याधानवर्जितम् ॥ (४७।२)

abhicārādikāryeṣu śivāgnyādhānavarjitam ||

48.1४८.१

अकोमलाः स्थिरा विप्र संग्राह्यास्त्वाभिचारिके । (४८।१)

akomalāḥ sthirā vipra saṃgrāhyāstvābhicārike |

48.2४८.२

समग्राः सुसमाः स्थूलाः कनिष्ठाङ्गुलसंमिताः ॥ (४८।२)

samagrāḥ susamāḥ sthūlāḥ kaniṣṭhāṅgulasaṃmitāḥ ||

49.1४९.१

अवक्रा निर्व्रणाः स्निग्धा द्वादशाङ्गुलसंमिताः । (४९।१)

avakrā nirvraṇāḥ snigdhā dvādaśāṅgulasaṃmitāḥ |

49.2४९.२

समिधस्थं प्रमाणं हि सर्वकार्येषु सुव्रत ॥ (४९।२)

samidhasthaṃ pramāṇaṃ hi sarvakāryeṣu suvrata ||

50.1५०.१

गव्यं घृतं ततः श्रेष्ठ कापिलं तु ततो ऽधिकम् । (५०।१)

gavyaṃ ghṛtaṃ tataḥ śreṣṭha kāpilaṃ tu tato 'dhikam |

50.2५०.२

आहुतीनां प्रमाणं तु स्रुवं पूर्णं यथा भवेत् ॥ (५०।२)

āhutīnāṃ pramāṇaṃ tu sruvaṃ pūrṇaṃ yathā bhavet ||

51.1५१.१

अन्नमक्षप्रमाणं स्याच्छुक्तिमात्रेण वै तिलः । (५१।१)

annamakṣapramāṇaṃ syācchuktimātreṇa vai tilaḥ |

51.2५१.२

यवानां च तदर्धं स्यात्फलानां स्वप्रमाणतः ॥ (५१।२)

yavānāṃ ca tadardhaṃ syātphalānāṃ svapramāṇataḥ ||

52.1५२.१

क्षीरस्य मधुनो दध्नः प्रमाणं घृतवद्भवेत् । (५२।१)

kṣīrasya madhuno dadhnaḥ pramāṇaṃ ghṛtavadbhavet |

52.2५२.२

चतुःस्रुवप्रमाणेन स्रुवा पूर्णाहुतिर्भवेत् ॥ (५२।२)

catuḥsruvapramāṇena sruvā pūrṇāhutirbhavet ||

53.1५३.१

तदर्धं स्विष्टकृत् प्रोक्तं शेषं सर्वमथापि वा । (५३।१)

tadardhaṃ sviṣṭakṛt proktaṃ śeṣaṃ sarvamathāpi vā |

53.2५३.२

शान्तिकं पौष्टिकं चैव शिवाग्नौ जुहुयात्सदा ॥ (५३।२)

śāntikaṃ pauṣṭikaṃ caiva śivāgnau juhuyātsadā ||

54.1५४.१

लौकिकाग्नौ महाभाग मोहनोच्चाटनादयः । (५४।१)

laukikāgnau mahābhāga mohanoccāṭanādayaḥ |

54.2५४.२

शिवाग्निं जनयित्वा तु सर्वकर्मणि सुव्रत ॥ (५४।२)

śivāgniṃ janayitvā tu sarvakarmaṇi suvrata ||

55.1५५.१

सप्त जिह्वाः प्रकल्प्यैव सर्वकार्याणि कारयेत् । (५५।१)

sapta jihvāḥ prakalpyaiva sarvakāryāṇi kārayet |

55.2५५.२

अथवा सर्वकार्याणि जिह्वामात्रेण सिध्यति ॥ (५५।२)

athavā sarvakāryāṇi jihvāmātreṇa sidhyati ||

56.1५६.१

शिवाग्निरिति विप्रेन्द्रा जिह्वामात्रेण साधकः ॥ (५६।१)

śivāgniriti viprendrā jihvāmātreṇa sādhakaḥ ||

57.1५७.१

ॐ बहुरूपायै मध्यजिह्वायै अनेकवर्णायै दक्षिणोत्तरमध्यगायै शान्तिपौष्टिकमोक्षादिफलप्रदायै स्वाहा ॥ (५७।१)

oṃ bahurūpāyai madhyajihvāyai anekavarṇāyai dakṣiṇottaramadhyagāyai śāntipauṣṭikamokṣādiphalapradāyai svāhā ||

58.1५८.१

ॐ हिरण्यायै चामीकराभायै ईशानजिह्वायै ज्ञानप्रदायै स्वाहा ॥ (५८।१)

oṃ hiraṇyāyai cāmīkarābhāyai īśānajihvāyai jñānapradāyai svāhā ||

59.1५९.१

ॐ कनकायै कनकनिभायै रम्यायै ऐन्द्रजिह्वायै स्वाहा ॥ (५९।१)

oṃ kanakāyai kanakanibhāyai ramyāyai aindrajihvāyai svāhā ||

60.1६०.१

ॐ रक्तायै रक्तवर्णायै आग्नेयजिह्वायै अनेकवर्णायै विद्वेषणमोहनायै स्वाहा ॥ (६०।१)

oṃ raktāyai raktavarṇāyai āgneyajihvāyai anekavarṇāyai vidveṣaṇamohanāyai svāhā ||

61.1६१.१

ॐ कृष्णायै नैरृतजिह्वायै मारणायै स्वाहा ॥ (६१।१)

oṃ kṛṣṇāyai nairṛtajihvāyai māraṇāyai svāhā ||

62.1६२.१

ॐ सुप्रभायै पश्चिमजिह्वायै मुक्ताफलायै शान्तिकायै पौष्टिकायै स्वाहा ॥ (६२।१)

oṃ suprabhāyai paścimajihvāyai muktāphalāyai śāntikāyai pauṣṭikāyai svāhā ||

63.1६३.१

ॐ अभिव्यक्तायै वायव्यजिह्वायै शत्रूच्चाटनायै स्वाहा ॥ (६३।१)

oṃ abhivyaktāyai vāyavyajihvāyai śatrūccāṭanāyai svāhā ||

64.1६४.१

ॐ वह्नये तेजस्विने स्वाहा ॥ (६४।१)

oṃ vahnaye tejasvine svāhā ||

65.1६५.१

एतावद् वह्निसंस्कारम् अथवा वह्निकर्मसु । (६५।१)

etāvad vahnisaṃskāram athavā vahnikarmasu |

65.2६५.२

नैमित्तिके च विधिना शिवाग्निं कारयेत्पुनः ॥ (६५।२)

naimittike ca vidhinā śivāgniṃ kārayetpunaḥ ||

66.1६६.१

निरीक्षणं प्रोक्षणं ताडनं च षष्ठेन फडन्तेन अभ्युक्षणं चतुर्थेन खननोत्किरणं षष्ठेन पूरणं समीकरणमाद्येन सेचनं वौषडन्तेन कुट्टनं षष्ठेन संमार्जनोपलेपने तुरीयेण कुण्डपरिकल्पनं निवृत्त्या त्रिभिरेव कुण्डपरिधानं चतुर्थेन कुण्डार्चनमाद्येन रेखाचतुष्टयसंपादनं षष्ठेन फडन्तेन वज्रीकरणं चतुष्पदापादनमाद्येन एवं कुण्डसंस्कारमष्टादशविधम् ॥ (६६।१)

nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham ||

67.1६७.१

कुण्डसंस्कारानन्तरमक्षपाटनं षष्ठेन विष्टरन्यासमाद्येन वज्रासने वागीश्वर्यावाहनम् ॥ (६७।१)

kuṇḍasaṃskārānantaramakṣapāṭanaṃ ṣaṣṭhena viṣṭaranyāsamādyena vajrāsane vāgīśvaryāvāhanam ||

68.1६८.१

ॐ ह्रीं वागीश्वरीं श्यामवर्णां विशालाक्षीं यौवनोन्मत्तविग्रहाम् । (६८।१)

oṃ hrīṃ vāgīśvarīṃ śyāmavarṇāṃ viśālākṣīṃ yauvanonmattavigrahām |

68.2६८.२

ऋतुमतीं वागीश्वरशक्तिमावाहयामि ॥ (६८।२)

ṛtumatīṃ vāgīśvaraśaktimāvāhayāmi ||

69.1६९.१

वागीश्वरीं पूजयामि ॥ (६९।१)

vāgīśvarīṃ pūjayāmi ||

70.1७०.१

ॐ ईं वागीश्वराय नमः । (७०।१)

oṃ īṃ vāgīśvarāya namaḥ |

70.2७०.२

आवाहनस्थापनसन्निधानसंनिरोधपूजान्तं वागीश्वरीं संभाव्य गर्भाधानवह्निसंस्कारम् ॥ (७०।२)

āvāhanasthāpanasannidhānasaṃnirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram ||

71.1७१.१

एकवक्त्रं चतुर्भुजं शुद्धस्फटिकाभं वरदाभयहस्तं परशुमृगधरं जटामुकुटमण्डितं सर्वाभरणभूषितमावाहयामि ॥ (७१।१)

ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi ||

72.1७२.१

ॐ ईं वागीश्वराय नमः । (७२।१)

oṃ īṃ vāgīśvarāya namaḥ |

72.2७२.२

आवाहनस्थापनसन्निधानसन्निरोधपूजान्तं वागीश्वरीं संभाव्य गर्भाधानवह्निसंस्कारम् ॥ (७२।२)

āvāhanasthāpanasannidhānasannirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram ||

73.1७३.१

अरणीजनितं कान्तोद्भवं वा अग्निहोत्रजं वा ताम्रपात्रे शरावे वा आनीय निरीक्षणताडनाभ्युक्षणप्रक्षालनम् आद्येन क्रव्यादा शिवपरित्यागो ऽपि प्रथमेन वह्नेस् त्रैकारणं जठरभ्रूमध्याद् आवाह्याग्निं वैकारणमूर्तावाग्नेयेन उद्दीपनमाद्येन पुरुषेण संहितया धारणा धेनुमुद्रां तुरीयेणावगुण्ठ्य जानुभ्यामवनिं गत्वा शरावोत्थापनं कुण्डोपरि निधाय प्रदक्षिणमावर्त्य तुरीयेणात्मसम्मुखां वागीश्वरीं गर्भनाड्यां गर्भाधानान्तरीयेण कमलप्रदानमाद्येन वौषडन्तेन कुशार्घ्यं दत्त्वा इन्धनप्रदानमाद्येन प्रज्वालनं गर्भाधानं च सद्येनाद्येन पूजनं वामेन पूजनं द्वितीयेन सीमन्तोन्नयनम् अघोरेण तृतीयेन पूजनम् ॥ (७३।१)

araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam ||

74.1७४.१

अवयवव्याप्तिर् वक्त्रोद्घाटनं वक्त्रनिष्कृतिरिति तृतीयेन गर्भजातकर्मपुरुषेण पूजनं तुरीयेण षष्ठेन प्रोक्षणं सूतकशुद्धये चाग्निसूनुरक्षाकुशास्त्रेण वक्त्रेणाग्नौ मूलम् ईशाग्रं नैरृतिमूलं वायव्याग्रं वायव्यमूलमीशाग्रमिति कुशास्तरणम् इति पूर्वोक्तम् इध्मम् अग्रमूलघृताक्तं लालापनोदाय षष्ठेन जुहुयात् ॥ (७४।१)

avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt ||

75.1७५.१

पञ्चपूर्वातिक्रमेण परिधिविष्टरन्यासो ऽपि आद्येन विष्टरोपरि हिरण्यगर्भहरनारायणानपि पूजयेत् ॥ (७५।१)

pañcapūrvātikrameṇa paridhiviṣṭaranyāso 'pi ādyena viṣṭaropari hiraṇyagarbhaharanārāyaṇānapi pūjayet ||

76.1७६.१

इन्द्रादिलोकपालांश्च पूजयेत् ॥ (७६।१)

indrādilokapālāṃśca pūjayet ||

77.1७७.१

वज्रावर्तपर्यन्तानपि पूजयेत् ॥ (७७।१)

vajrāvartaparyantānapi pūjayet ||

78.1७८.१

वागीश्वरवागीश्वरीपूजाद्येनम् उद्वास्य हुतं विसर्जयेत् ॥ (७८।१)

vāgīśvaravāgīśvarīpūjādyenam udvāsya hutaṃ visarjayet ||

79.1७९.१

स्रक्स्रुवसंस्कारमथो निरीक्षणप्रोक्षणताडनाभ्युक्षणादीनि पूर्ववत् स्रक्स्रुवं च हस्तद्वये गृहीत्वा संस्थापनमाद्येन ताडनमपि स्रुक्स्रुवोपरि दर्भानुलेखनमूलमध्यमाग्रेण त्रित्वेन स्रुक्शक्तिं स्रुवमपि शंभुं दक्षिणपार्श्वे कुशोपरि शक्तये नमः शंभवे नमः ॥ (७९।१)

sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ ||

80.1८०.१

ततो ह्यन्तिसूत्रेण स्रुक्स्रुवौ तुरीयेण वेष्टयेदर्चयेच्च ॥ (८०।१)

tato hyantisūtreṇa sruksruvau turīyeṇa veṣṭayedarcayecca ||

81.1८१.१

धेनुमुद्रां दर्शयित्वा तुरीयेणावगुण्ठ्य षष्ठेन रक्षां विधाय स्रुक्स्रुवसंस्कारः पूर्वमेवोक्तः ॥ (८१।१)

dhenumudrāṃ darśayitvā turīyeṇāvaguṇṭhya ṣaṣṭhena rakṣāṃ vidhāya sruksruvasaṃskāraḥ pūrvamevoktaḥ ||

82.1८२.१

पुनराज्यसंस्कारः पूर्वम् एवोक्तः निरीक्षणप्रोक्षणताडनाभ्युक्षणादीनि पूर्ववत् ॥ (८२।१)

punarājyasaṃskāraḥ pūrvam evoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat ||

83.1८३.१

आज्यप्रतापनमैशान्यां वा षष्ठेन वेद्युपरि विन्यस्य घृतपात्रं वितस्तिमात्रं कुशपवित्रं वामहस्ताङ्गुष्ठानामिकाग्रं गृहीत्वा दक्षिणाङ्गुष्ठानामिकामूलं गृहीत्वाग्निज्वालोत्पवनं स्वाहान्तेन तुरीयेण पुनः षड् दर्भान् गृहीत्वा पूर्ववत्स्वात्मसंप्लवनं स्वाहान्तेनाद्येन कुशद्वयपवित्रबन्धनं चाद्येन घृते न्यसेदिति पवित्रीकरणम् ॥ (८३।१)

ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam ||

84.1८४.१

दर्भद्वयं प्रगृह्याग्निप्रज्वालनं घृतं त्रिधा वर्तयेत् । (८४।१)

darbhadvayaṃ pragṛhyāgniprajvālanaṃ ghṛtaṃ tridhā vartayet |

84.2८४.२

संप्रोक्ष्याग्नौ निधापयेदिति नीराजनम् ॥ (८४।२)

saṃprokṣyāgnau nidhāpayediti nīrājanam ||

85.1८५.१

पुनर्दर्भान् गृहीत्वा कीटकादि निरीक्ष्यार्घ्येण संप्रोक्ष्य दर्भानग्नौ निधाय इत्यवद्योतनम् ॥ (८५।१)

punardarbhān gṛhītvā kīṭakādi nirīkṣyārghyeṇa saṃprokṣya darbhānagnau nidhāya ityavadyotanam ||

86.1८६.१

दर्भद्वयं गृहीत्वाग्निज्वालया घृतं निरीक्षयेत् ॥ (८६।१)

darbhadvayaṃ gṛhītvāgnijvālayā ghṛtaṃ nirīkṣayet ||

87.1८७.१

दर्भेण गृहीत्वा तेनाग्रद्वयेन शुक्लपक्षद्वयेनाद्येनेति कृष्णपक्षसम्पातनं घृतं त्रिभागेन विभज्य स्रुवेणैकभागेनाज्येनाग्नये स्वाहा द्वितीयेनाज्येन सोमाय स्वाहा आज्येन ॐ अग्नीषोमाभ्यां स्वाहा आज्येनाग्नये स्विष्टकृते स्वाहा ॥ (८७।१)

darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā ||

88.1८८.१

पुनः कुशेन गृहीत्वा संहिताभिमन्त्रेण नमोऽन्तेनाभिमन्त्रयेत् ॥ (८८।१)

punaḥ kuśena gṛhītvā saṃhitābhimantreṇa namo'ntenābhimantrayet ||

89.1८९.१

अभिमन्त्र्य धेनुमुद्राप्रदर्शनकवचावगुण्ठनास्त्रेण रक्षाम् । (८९।१)

abhimantrya dhenumudrāpradarśanakavacāvaguṇṭhanāstreṇa rakṣām |

89.2८९.२

अथ संस्कृते निधापयेत् आज्यसंस्कारः ॥ (८९।२)

atha saṃskṛte nidhāpayet ājyasaṃskāraḥ ||

90.1९०.१

आज्येन स्रुग्वदनेन चक्राभिधारणं शक्तिबीजादीशानमूर्तये स्वाहा । (९०।१)

ājyena srugvadanena cakrābhidhāraṇaṃ śaktibījādīśānamūrtaye svāhā |

90.2९०.२

पूर्ववत् पुरुषवक्त्राय स्वाहा अघोरहृदयाय स्वाहा वामदेवाय गुह्याय स्वाहा सद्योजातमूर्तये स्वाहा । (९०।२)

pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā |

90.3९०.३

इति वक्त्रोद्घाटनम् ॥ (९०।३)

iti vaktrodghāṭanam ||

91.1९१.१

ईशानमूर्तये तत्पुरुषवक्त्राय स्वाहा तत्पुरुषवक्त्राय अघोरहृदयाय स्वाहा अघोरहृदयाय वामगुह्याय सद्योजातमूर्तये स्वाहा इति वक्त्रसंधानम् ॥ (९१।१)

īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam ||

92.1९२.१

ईशानमूर्तये तत्पुरुषाय वक्त्राय अघोरहृदयाय वामदेवाय गुह्याय सद्योजाताय स्वाहा इति वक्त्रसंधानम् ॥ (९२।१)

īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam ||

93.1९३.१

ईशानमूर्तये तत्पुरुषाय वक्त्राय अघोरहृदयाय वामदेवाय गुह्याय सद्योजातमूर्तये स्वाहा इति वक्त्रैक्यकरणम् ॥ (९३।१)

īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam ||

94.1९४.१

शिवाग्निं जनयित्वैवं सर्वकर्माणि कारयेत् । (९४।१)

śivāgniṃ janayitvaivaṃ sarvakarmāṇi kārayet |

94.2९४.२

केवलं जिह्वया वापि शान्तिकाद्यानि सर्वदा ॥ (९४।२)

kevalaṃ jihvayā vāpi śāntikādyāni sarvadā ||

95.1९५.१

गर्भाधानादिकार्येषु वह्नेः प्रत्येकमव्यय । (९५।१)

garbhādhānādikāryeṣu vahneḥ pratyekamavyaya |

95.2९५.२

दश आहुतयो देया योनिबीजेन पञ्चधा ॥ (९५।२)

daśa āhutayo deyā yonibījena pañcadhā ||

96.1९६.१

शिवाग्नौ कल्पयेद्दिव्यं पूर्ववत्परमासनम् । (९६।१)

śivāgnau kalpayeddivyaṃ pūrvavatparamāsanam |

96.2९६.२

आवाहनं तथा न्यासं यथा देवे तथार्चनम् ॥ (९६।२)

āvāhanaṃ tathā nyāsaṃ yathā deve tathārcanam ||

97.1९७.१

मूलमन्त्रं सकृज्जप्त्वा देवदेवं प्रणम्य च । (९७।१)

mūlamantraṃ sakṛjjaptvā devadevaṃ praṇamya ca |

97.2९७.२

प्राणायामत्रयं कृत्वा सगर्भं सर्वसंमतम् ॥ (९७।२)

prāṇāyāmatrayaṃ kṛtvā sagarbhaṃ sarvasaṃmatam ||

98.1९८.१

परिषेचनपूर्वं च तदिध्मम् अभिघार्य च । (९८।१)

pariṣecanapūrvaṃ ca tadidhmam abhighārya ca |

98.2९८.२

जुहुयादग्निमध्ये तु ज्वलिते ऽथ महामुने ॥ (९८।२)

juhuyādagnimadhye tu jvalite 'tha mahāmune ||

99.1९९.१

आघारावपि चाधाय चाज्येनैव तु षण्मुखे । (९९।१)

āghārāvapi cādhāya cājyenaiva tu ṣaṇmukhe |

99.2९९.२

आज्यभागौ तु जुहुयाद्विधिनैव घृतेन च ॥ (९९।२)

ājyabhāgau tu juhuyādvidhinaiva ghṛtena ca ||

100.1१००.१

चक्षुषी चाज्यभागौ तु चाग्नये च तथोत्तरे । (१००।१)

cakṣuṣī cājyabhāgau tu cāgnaye ca tathottare |

100.2१००.२

आत्मनो दक्षिणे चैव सोमायेति द्विजोत्तम ॥ (१००।२)

ātmano dakṣiṇe caiva somāyeti dvijottama ||

101.1१०१.१

प्रत्यङ्मुखस्य देवस्य शिवाग्नेर्ब्रह्मणः सुत । (१०१।१)

pratyaṅmukhasya devasya śivāgnerbrahmaṇaḥ suta |

101.2१०१.२

अक्षि वै दक्षिणं चैव चोत्तरं चोत्तरं तथा ॥ (१०१।२)

akṣi vai dakṣiṇaṃ caiva cottaraṃ cottaraṃ tathā ||

102.1१०२.१

दक्षिणं तु महाभाग भवत्येव न संशयः । (१०२।१)

dakṣiṇaṃ tu mahābhāga bhavatyeva na saṃśayaḥ |

102.2१०२.२

आज्येनाहुतयस्तत्र मूलेनैव दशैव तु ॥ (१०२।२)

ājyenāhutayastatra mūlenaiva daśaiva tu ||

103.1१०३.१

चरुणा च यथावद्धि समिद्भिश्च तथा स्मृतम् । (१०३।१)

caruṇā ca yathāvaddhi samidbhiśca tathā smṛtam |

103.2१०३.२

पूर्णाहुतिं ततो दद्यान्मूलमन्त्रेण सुव्रत ॥ (१०३।२)

pūrṇāhutiṃ tato dadyānmūlamantreṇa suvrata ||

104.1१०४.१

सर्वावरणदेवानां पञ्चपञ्चैव पूर्ववत् । (१०४।१)

sarvāvaraṇadevānāṃ pañcapañcaiva pūrvavat |

104.2१०४.२

ईशानादिक्रमेणैव शक्तिबीजक्रमेण च ॥ (१०४।२)

īśānādikrameṇaiva śaktibījakrameṇa ca ||

105.1१०५.१

प्रायश्चित्तम् अघोरेण स्वेष्टान्तं पूर्ववत्स्मृतम् । (१०५।१)

prāyaścittam aghoreṇa sveṣṭāntaṃ pūrvavatsmṛtam |

105.2१०५.२

त्रिप्रकारं मया प्रोक्तमग्निकार्यं सुशोभनम् ॥ (१०५।२)

triprakāraṃ mayā proktamagnikāryaṃ suśobhanam ||

106.1१०६.१

यथावसरम् एवं हि कुर्यान्नित्यं महामुने । (१०६।१)

yathāvasaram evaṃ hi kuryānnityaṃ mahāmune |

106.2१०६.२

जीवितान्ते लभेत्स्वर्गं लभते अग्निदीपनम् ॥ (१०६।२)

jīvitānte labhetsvargaṃ labhate agnidīpanam ||

107.1१०७.१

नरकं चैव नाप्नोति यस्य कस्यापि कर्मणः । (१०७।१)

narakaṃ caiva nāpnoti yasya kasyāpi karmaṇaḥ |

107.2१०७.२

अहिंसकं चरेद्धोमं साधको मुक्तिकाङ्क्षकः ॥ (१०७।२)

ahiṃsakaṃ careddhomaṃ sādhako muktikāṅkṣakaḥ ||

108.1१०८.१

हृदिस्थं चिन्तयेदग्निं ध्यानयज्ञेन होमयेत् । (१०८।१)

hṛdisthaṃ cintayedagniṃ dhyānayajñena homayet |

108.2१०८.२

देहस्थं सर्वभूतानां शिवं सर्वजगत्पतिम् ॥ (१०८।२)

dehasthaṃ sarvabhūtānāṃ śivaṃ sarvajagatpatim ||

109.1१०९.१

तं ज्ञात्वा होमयेद्भक्त्या प्राणायामेन नित्यशः । (१०९।१)

taṃ jñātvā homayedbhaktyā prāṇāyāmena nityaśaḥ |

109.2१०९.२

बाह्यहोमप्रदाता तु पाषाणे दर्दुरो भवेत् ॥ (१०९।२)

bāhyahomapradātā tu pāṣāṇe darduro bhavet ||

110.1११०.१

इति श्रीलिङ्गमहापुराणे उत्तरभागे पञ्चविंशतितमो ऽध्यायः ॥ (११०।१)

iti śrīliṅgamahāpurāṇe uttarabhāge pañcaviṃśatitamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

LiPur, 2, 25

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit