LiPur, 2, 40
Select a line for its word-by-word analysis.
कन्यादानं प्रवक्ष्यामि सर्वदानोत्तमोत्तमम् । (१।२)
kanyādānaṃ pravakṣyāmi sarvadānottamottamam |
कन्यां लक्षणसम्पन्नां सर्वदोषविवर्जिताम् ॥ (१।३)
kanyāṃ lakṣaṇasampannāṃ sarvadoṣavivarjitām ||
मातापित्रोस्तु संवादं कृत्वा दत्त्वा धनं महत् । (२।१)
mātāpitrostu saṃvādaṃ kṛtvā dattvā dhanaṃ mahat |
आत्मीकृत्याथ संस्नाप्य वस्त्रं दत्त्वा शुभं नवम् ॥ (२।२)
ātmīkṛtyātha saṃsnāpya vastraṃ dattvā śubhaṃ navam ||
भूषणैर्भूषयित्वाथ गन्धमाल्यैरथार्चयेत् । (३।१)
bhūṣaṇairbhūṣayitvātha gandhamālyairathārcayet |
निमित्तानि समीक्ष्याथ गोत्रनक्षत्रकादिकान् ॥ (३।२)
nimittāni samīkṣyātha gotranakṣatrakādikān ||
दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने ॥ (४।२)
dātavyā śrotriyāyaiva brāhmaṇāya tapasvine ||
क्षेत्राणि च धनं धान्यं वासांसि च प्रदापयेत् । (६।१)
kṣetrāṇi ca dhanaṃ dhānyaṃ vāsāṃsi ca pradāpayet |
इति श्रीलिङ्गमहापुराणे उत्तरभागे कन्यादानविधिर् नाम चत्वारिंशो ऽध्यायः ॥ (८।१)
iti śrīliṅgamahāpurāṇe uttarabhāge kanyādānavidhir nāma catvāriṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.