LiPur, 1, 79
Select a line for its word-by-word analysis.
कथं पूज्यो महादेवो मर्त्यैर्मन्दैर्महामते । (१।२)
kathaṃ pūjyo mahādevo martyairmandairmahāmate |
कल्पायुषैर् अल्पवीर्यैर् अल्पसत्त्वैः प्रजापतिः ॥ (१।३)
kalpāyuṣair alpavīryair alpasattvaiḥ prajāpatiḥ ||
न पश्यन्ति सुराश्चापि कथं देवं यजन्ति ते ॥ (२।२)
na paśyanti surāścāpi kathaṃ devaṃ yajanti te ||
कथितं तथ्यम् एवात्र युष्माभिर् मुनिपुङ्गवाः । (३।२)
kathitaṃ tathyam evātra yuṣmābhir munipuṅgavāḥ |
तथापि श्रद्धया दृश्यः पूज्यः संभाष्य एव च ॥ (३।३)
tathāpi śraddhayā dṛśyaḥ pūjyaḥ saṃbhāṣya eva ca ||
प्रसंगाच्चैव सम्पूज्य भक्तिहीनैरपि द्विजाः । (४।१)
prasaṃgāccaiva sampūjya bhaktihīnairapi dvijāḥ |
उच्छिष्टः पूजयन्याति पैशाचं तु द्विजाधमः । (५।१)
ucchiṣṭaḥ pūjayanyāti paiśācaṃ tu dvijādhamaḥ |
संक्रुद्धो राक्षसं स्थानं प्राप्नुयान् मूढधीर् द्विजाः ॥ (५।२)
saṃkruddho rākṣasaṃ sthānaṃ prāpnuyān mūḍhadhīr dvijāḥ ||
अभक्ष्यभक्षी सम्पूज्य याक्षं प्राप्नोति दुर्जनः । (६।१)
abhakṣyabhakṣī sampūjya yākṣaṃ prāpnoti durjanaḥ |
ख्यातिशीलस् तथा चान्द्रं स्त्रीषु सक्तो नराधमः । (७।१)
khyātiśīlas tathā cāndraṃ strīṣu sakto narādhamaḥ |
मदार्तः पूजयन् रुद्रं सोमस्थानमवाप्नुयात् ॥ (७।२)
madārtaḥ pūjayan rudraṃ somasthānamavāpnuyāt ||
गायत्र्या देवमभ्यर्च्य प्राजापत्यमवाप्नुयात् । (८।१)
gāyatryā devamabhyarcya prājāpatyamavāpnuyāt |
ब्राह्मं हि प्रणवेनैव वैष्णवं चाभिनन्द्य च ॥ (८।२)
brāhmaṃ hi praṇavenaiva vaiṣṇavaṃ cābhinandya ca ||
रुद्रलोकमनुप्राप्य रुद्रैः सार्धं प्रमोदते ॥ (९।२)
rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate ||
जलैः पूतैस्तथा पीठे देवमावाह्य भक्तितः ॥ (१०।२)
jalaiḥ pūtaistathā pīṭhe devamāvāhya bhaktitaḥ ||
दृष्ट्वा देवं यथान्यायं प्रणिपत्य च शङ्करम् । (११।१)
dṛṣṭvā devaṃ yathānyāyaṃ praṇipatya ca śaṅkaram |
कल्पिते चासने स्थाप्य धर्मज्ञानमये शुभे ॥ (११।२)
kalpite cāsane sthāpya dharmajñānamaye śubhe ||
पाद्यमाचमनं चार्घ्यं दत्त्वा रुद्राय शंभवे । (१३।१)
pādyamācamanaṃ cārghyaṃ dattvā rudrāya śaṃbhave |
स्नापयेद्दिव्यतोयैश् च घृतेन पयसा तथा ॥ (१३।२)
snāpayeddivyatoyaiś ca ghṛtena payasā tathā ||
दध्ना च स्नापयेद्रुद्रं शोधयेच्च यथाविधि । (१४।१)
dadhnā ca snāpayedrudraṃ śodhayecca yathāvidhi |
ततः शुद्धांबुना स्नाप्य चन्दनाद्यैश् च पूजयेत् ॥ (१४।२)
tataḥ śuddhāṃbunā snāpya candanādyaiś ca pūjayet ||
रोचनाद्यैश् च सम्पूज्य दिव्यपुष्पैश् च पूजयेत् । (१५।१)
rocanādyaiś ca sampūjya divyapuṣpaiś ca pūjayet |
बिल्वपत्रैरखण्डैश् च पद्मैर्नानाविधैस् तथा ॥ (१५।२)
bilvapatrairakhaṇḍaiś ca padmairnānāvidhais tathā ||
नीलोत्पलैश् च राजीवैर्नद्यावर्तैश् च मल्लिकैः । (१६।१)
nīlotpalaiś ca rājīvairnadyāvartaiś ca mallikaiḥ |
चम्पकैर् जातिपुष्पैश्च बकुलैः करवीरकैः ॥ (१६।२)
campakair jātipuṣpaiśca bakulaiḥ karavīrakaiḥ ||
शमीपुष्पैर् बृहत्पुष्पैर् उन्मत्तागस्त्यजैरपि । (१७।१)
śamīpuṣpair bṛhatpuṣpair unmattāgastyajairapi |
दत्त्वा पञ्चविधं धूपं पायसं च निवेदयेत् । (१८।१)
dattvā pañcavidhaṃ dhūpaṃ pāyasaṃ ca nivedayet |
दधिभक्तं च मध्वाज्यपरिप्लुतमतः परम् ॥ (१८।२)
dadhibhaktaṃ ca madhvājyapariplutamataḥ param ||
शुद्धान्नं चैव मुद्गान्नं षड्विधं च निवेदयेत् । (१९।१)
śuddhānnaṃ caiva mudgānnaṃ ṣaḍvidhaṃ ca nivedayet |
केवलं चापि शुद्धान्नम् आढकं तण्डुलं पचेत् । (२०।१)
kevalaṃ cāpi śuddhānnam āḍhakaṃ taṇḍulaṃ pacet |
कृत्वा प्रदक्षिणं चान्ते नमस्कृत्य मुहुर्मुहुः ॥ (२०।२)
kṛtvā pradakṣiṇaṃ cānte namaskṛtya muhurmuhuḥ ||
स्तुत्वा च देवमीशानं पुनः सम्पूज्य शङ्करम् । (२१।१)
stutvā ca devamīśānaṃ punaḥ sampūjya śaṅkaram |
सद्योजातं जपंश्चापि पञ्चभिः पूजयेच्छिवम् । (२२।१)
sadyojātaṃ japaṃścāpi pañcabhiḥ pūjayecchivam |
वृक्षाः पुष्पादिपत्राद्यैर् उपयुक्ताः शिवार्चने । (२३।१)
vṛkṣāḥ puṣpādipatrādyair upayuktāḥ śivārcane |
गावश्चैव द्विजश्रेष्ठाः प्रयान्ति परमां गतिम् ॥ (२३।२)
gāvaścaiva dvijaśreṣṭhāḥ prayānti paramāṃ gatim ||
पूजयेद्यः शिवं रुद्रं शर्वं भवमजं सकृत् । (२४।१)
pūjayedyaḥ śivaṃ rudraṃ śarvaṃ bhavamajaṃ sakṛt |
सकृत्प्रसंगाद्वा दृष्ट्वा सर्वपापैः प्रमुच्यते ॥ (२५।२)
sakṛtprasaṃgādvā dṛṣṭvā sarvapāpaiḥ pramucyate ||
दृष्ट्वा प्रयाति वै मर्त्यो ब्रह्मलोकं न संशयः ॥ (२६।२)
dṛṣṭvā prayāti vai martyo brahmalokaṃ na saṃśayaḥ ||
श्रुत्वानुमोदयेच्चापि स याति परमां गतिम् । (२७।१)
śrutvānumodayeccāpi sa yāti paramāṃ gatim |
यो दद्याद् घृतदीपं च सकृल्लिङ्गस्य चाग्रतः ॥ (२७।२)
yo dadyād ghṛtadīpaṃ ca sakṛlliṅgasya cāgrataḥ ||
स तां गतिम् अवाप्नोति स्वाश्रमैर् दुर्लभां स्थिराम् । (२८।१)
sa tāṃ gatim avāpnoti svāśramair durlabhāṃ sthirām |
दीपवृक्षं पार्थिवं वा दारवं वा शिवालये ॥ (२८।२)
dīpavṛkṣaṃ pārthivaṃ vā dāravaṃ vā śivālaye ||
आयसं ताम्रजं वापि रौप्यं सौवर्णिकं तथा ॥ (२९।२)
āyasaṃ tāmrajaṃ vāpi raupyaṃ sauvarṇikaṃ tathā ||
शिवाय दीपं यो दद्याद्विधिना वापि भक्तितः । (३०।१)
śivāya dīpaṃ yo dadyādvidhinā vāpi bhaktitaḥ |
सूर्यायुतसमैः श्लक्ष्णैर्यानैः शिवपुरं व्रजेत् ॥ (३०।२)
sūryāyutasamaiḥ ślakṣṇairyānaiḥ śivapuraṃ vrajet ||
कार्तिके मासि यो दद्याद् घृतदीपं शिवाग्रतः । (३१।१)
kārtike māsi yo dadyād ghṛtadīpaṃ śivāgrataḥ |
सम्पूज्यमानं वा पश्येद्विधिना परमेश्वरम् ॥ (३१।२)
sampūjyamānaṃ vā paśyedvidhinā parameśvaram ||
स याति ब्रह्मणो लोकं श्रद्धया मुनिसत्तमाः । (३२।१)
sa yāti brahmaṇo lokaṃ śraddhayā munisattamāḥ |
आवाहनं सुसान्निध्यं स्थापनं पूजनं तथा ॥ (३२।२)
āvāhanaṃ susānnidhyaṃ sthāpanaṃ pūjanaṃ tathā ||
सम्प्रोक्तं रुद्रगायत्र्या आसनं प्रणवेन वै । (३३।१)
samproktaṃ rudragāyatryā āsanaṃ praṇavena vai |
पञ्चभिः स्नपनं प्रोक्तं रुद्राद्यैश् च विशेषतः ॥ (३३।२)
pañcabhiḥ snapanaṃ proktaṃ rudrādyaiś ca viśeṣataḥ ||
ब्रह्माणं दक्षिणे तस्य प्रणवेन समर्चयेत् ॥ (३४।२)
brahmāṇaṃ dakṣiṇe tasya praṇavena samarcayet ||
उत्तरे देवदेवेशं विष्णुं गायत्रिया यजेत् । (३५।१)
uttare devadeveśaṃ viṣṇuṃ gāyatriyā yajet |
वह्नौ हुत्वा यथान्यायं पञ्चभिः प्रणवेन च ॥ (३५।२)
vahnau hutvā yathānyāyaṃ pañcabhiḥ praṇavena ca ||
इति संक्षेपतः प्रोक्तो लिङ्गार्चनविधिक्रमः ॥ (३६।२)
iti saṃkṣepataḥ prokto liṅgārcanavidhikramaḥ ||
व्यासेन कथितः पूर्वं श्रुत्वा रुद्रमुखात्स्वयम् ॥ (३७।१)
vyāsena kathitaḥ pūrvaṃ śrutvā rudramukhātsvayam ||
इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवार्चनविधिर् नामैकोनाशीतितमो ऽध्यायः ॥ (३८।१)
iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanavidhir nāmaikonāśītitamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.