LiPur, 2, 17
Select a line for its word-by-word analysis.
शृण्वतो नास्ति मे तृप्तिस् त्वद्वाक्यामृतपानतः ॥ (१।३)
śṛṇvato nāsti me tṛptis tvadvākyāmṛtapānataḥ ||
कथं शरीरी भगवान् कस्माद्रुद्रः प्रतापवान् । (२।१)
kathaṃ śarīrī bhagavān kasmādrudraḥ pratāpavān |
सर्वात्मा च कथं शम्भुः कथं पाशुपतं व्रतम् ॥ (२।२)
sarvātmā ca kathaṃ śambhuḥ kathaṃ pāśupataṃ vratam ||
कथं वा देवमुख्यैश्च श्रुतो दृष्टश्च शङ्करः । (३।१)
kathaṃ vā devamukhyaiśca śruto dṛṣṭaśca śaṅkaraḥ |
देवानां प्रथमं देवं जायमानं मुखाम्बुजात् ॥ (४।२)
devānāṃ prathamaṃ devaṃ jāyamānaṃ mukhāmbujāt ||
वर्णाश्रमव्यवस्थाश्च स्थापयामास वै विराट् । (६।१)
varṇāśramavyavasthāśca sthāpayāmāsa vai virāṭ |
विष्णुर्नारायणः श्रीमान् सर्वं सोममयं जगत् ॥ (७।२)
viṣṇurnārāyaṇaḥ śrīmān sarvaṃ somamayaṃ jagat ||
रुद्राध्यायेन ते देवा रुद्रं तुष्टुवुरीश्वरम् । (८।१)
rudrādhyāyena te devā rudraṃ tuṣṭuvurīśvaram |
प्रसन्नवदनस्तस्थौ देवानां मध्यतः प्रभुः ॥ (८।२)
prasannavadanastasthau devānāṃ madhyataḥ prabhuḥ ||
देवा ह्यपृच्छंस्तं देवं को भवानिति शङ्करम् ॥ (९।२)
devā hyapṛcchaṃstaṃ devaṃ ko bhavāniti śaṅkaram ||
भविष्यामि च लोके ऽस्मिन्मत्तो नान्यः कुतश्चन । (११।१)
bhaviṣyāmi ca loke 'sminmatto nānyaḥ kutaścana |
व्यतिरिक्तं न मत्तो ऽस्ति नान्यत् किंचित् सुरोत्तमाः ॥ (११।२)
vyatiriktaṃ na matto 'sti nānyat kiṃcit surottamāḥ ||
नित्यो ऽनित्यो ऽहमनघो ब्रह्माहं ब्रह्मणस्पतिः । (१२।१)
nityo 'nityo 'hamanagho brahmāhaṃ brahmaṇaspatiḥ |
त्रिष्टुब्जगत्यनुष्टुप् च छन्दोऽहं तन्मयः शिवः । (१३।१)
triṣṭubjagatyanuṣṭup ca chando'haṃ tanmayaḥ śivaḥ |
सत्योऽहं सर्वगः शान्तस्त्रेताग्निर्गौरवं गुरुः ॥ (१३।२)
satyo'haṃ sarvagaḥ śāntastretāgnirgauravaṃ guruḥ ||
ज्येष्ठोऽहं सर्वतत्त्वानां वरिष्ठोऽहम् अपां पतिः ॥ (१४।२)
jyeṣṭho'haṃ sarvatattvānāṃ variṣṭho'ham apāṃ patiḥ ||
ऋग्वेदोऽहं यजुर्वेदः सामवेदोऽहम् आत्मभूः ॥ (१५।२)
ṛgvedo'haṃ yajurvedaḥ sāmavedo'ham ātmabhūḥ ||
अथर्वणोऽहं मन्त्रोऽहं तथा चाङ्गिरसां वरः । (१६।१)
atharvaṇo'haṃ mantro'haṃ tathā cāṅgirasāṃ varaḥ |
अक्षरं च क्षरं चाहं क्षान्तिः शान्तिरहं क्षमा । (१७।१)
akṣaraṃ ca kṣaraṃ cāhaṃ kṣāntiḥ śāntirahaṃ kṣamā |
गुह्योऽहं सर्ववेदेषु वरेण्योऽहम् अजोऽप्यहम् ॥ (१७।२)
guhyo'haṃ sarvavedeṣu vareṇyo'ham ajo'pyaham ||
पुष्करं च पवित्रं च मध्यं चाहं ततः परम् । (१८।१)
puṣkaraṃ ca pavitraṃ ca madhyaṃ cāhaṃ tataḥ param |
ज्योतिश्चाहं तमश्चाहं ब्रह्मा विष्णुर्महेश्वरः । (१९।१)
jyotiścāhaṃ tamaścāhaṃ brahmā viṣṇurmaheśvaraḥ |
बुद्धिश्चाहमहङ्कारस्तन्मात्राणीन्द्रियाणि च ॥ (१९।२)
buddhiścāhamahaṅkārastanmātrāṇīndriyāṇi ca ||
स एव सर्ववित्सर्वं सर्वात्मा परमेश्वरः ॥ (२०।२)
sa eva sarvavitsarvaṃ sarvātmā parameśvaraḥ ||
गां गोभिर्ब्राह्मणान् सर्वान् ब्राह्मण्येन हवींषि च । (२१।१)
gāṃ gobhirbrāhmaṇān sarvān brāhmaṇyena havīṃṣi ca |
धर्मं धर्मेण सर्वांश्च तर्पयामि स्वतेजसा । (२२।१)
dharmaṃ dharmeṇa sarvāṃśca tarpayāmi svatejasā |
ते देवाः परमात्मानं रुद्रं ध्यायन्ति शङ्करम् ॥ (२३।२)
te devāḥ paramātmānaṃ rudraṃ dhyāyanti śaṅkaram ||
तथोर्ध्वबाहवो देवा रुद्रं स्तुन्वन्ति शंकरम् ॥ (२४।२)
tathordhvabāhavo devā rudraṃ stunvanti śaṃkaram ||
इति श्रीलिङ्गमहापुराणे उत्तरभागे सप्तदशो ऽध्यायः ॥ (२५।१)
iti śrīliṅgamahāpurāṇe uttarabhāge saptadaśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.