लिङ्गपुराणLiṅgapurāṇa

LiPur, 1, 7

7 of 163 · 118 verses

Select a line for its word-by-word analysis.

1.1१.१

सूत उवाच । (१।१)

sūta uvāca

1.2१.२

रहस्यं वः प्रवक्ष्यामि भवस्यामिततेजसः । (१।२)

rahasyaṃ vaḥ pravakṣyāmi bhavasyāmitatejasaḥ |

1.3१.३

प्रभावं शंकरस्याद्यं संक्षेपात्सर्वदर्शिनः ॥ (१।३)

prabhāvaṃ śaṃkarasyādyaṃ saṃkṣepātsarvadarśinaḥ ||

2.1२.१

योगिनः सर्वतत्त्वज्ञाः परं वैराग्यमास्थिताः ॥ (२।१)

yoginaḥ sarvatattvajñāḥ paraṃ vairāgyamāsthitāḥ ||

3.1३.१

प्राणायामादिभिश्चाष्टसाधनैः सहचारिणः ॥ (३।१)

prāṇāyāmādibhiścāṣṭasādhanaiḥ sahacāriṇaḥ ||

4.1४.१

करुणादिगुणोपेताः कृत्वापि विविधानि ते । (४।१)

karuṇādiguṇopetāḥ kṛtvāpi vividhāni te |

4.2४.२

कर्माणि नरकं स्वर्गं गच्छन्त्येव स्वकर्मणा ॥ (४।२)

karmāṇi narakaṃ svargaṃ gacchantyeva svakarmaṇā ||

5.1५.१

प्रसादाज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते । (५।१)

prasādājjāyate jñānaṃ jñānādyogaḥ pravartate |

5.2५.२

योगेन जायते मुक्तिः प्रसादादखिलं ततः ॥ (५।२)

yogena jāyate muktiḥ prasādādakhilaṃ tataḥ ||

6.1६.१

ऋषय ऊचुः । (६।१)

ṛṣaya ūcuḥ |

6.2६.२

प्रसादाद् यदि विज्ञानं स्वरूपं वक्तुमर्हसि । (६।२)

prasādād yadi vijñānaṃ svarūpaṃ vaktumarhasi |

6.3६.३

दिव्यं माहेश्वरं चैव योगं योगविदां वर ॥ (६।३)

divyaṃ māheśvaraṃ caiva yogaṃ yogavidāṃ vara ||

7.1७.१

कथं करोति भगवान् चिन्तया रहितः शिवः । (७।१)

kathaṃ karoti bhagavān cintayā rahitaḥ śivaḥ |

7.2७.२

प्रसादं योगमार्गेण कस्मिन्काले नृणां विभुः ॥ (७।२)

prasādaṃ yogamārgeṇa kasminkāle nṛṇāṃ vibhuḥ ||

8.1८.१

रोमहर्षण उवाच । (८।१)

romaharṣaṇa uvāca

8.2८.२

देवानां च ऋषीणां च पितॄणां संनिधौ पुरा । (८।२)

devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ saṃnidhau purā |

8.3८.३

शैलादिना तु कथितं शृण्वन्तु ब्रह्मसूनवे ॥ (८।३)

śailādinā tu kathitaṃ śṛṇvantu brahmasūnave ||

9.1९.१

व्यासावताराणि तथा द्वापरान्ते च सुव्रताः । (९।१)

vyāsāvatārāṇi tathā dvāparānte ca suvratāḥ |

9.2९.२

योगाचार्यावताराणि तथा तिष्ये तु शूलिनः ॥ (९।२)

yogācāryāvatārāṇi tathā tiṣye tu śūlinaḥ ||

10.1१०.१

तत्रतत्र विभोः शिष्याश् चत्वारः शमभाजनाः । (१०।१)

tatratatra vibhoḥ śiṣyāś catvāraḥ śamabhājanāḥ |

10.2१०.२

प्रशिष्या बहवस्तेषां प्रसीदत्येवमीश्वरः ॥ (१०।२)

praśiṣyā bahavasteṣāṃ prasīdatyevamīśvaraḥ ||

11.1११.१

एवं क्रमागतं ज्ञानं मुखादेव नृणां विभोः । (११।१)

evaṃ kramāgataṃ jñānaṃ mukhādeva nṛṇāṃ vibhoḥ |

11.2११.२

वैश्यान्तं ब्राह्मणाद्यं हि घृणया चानुरूपतः ॥ (११।२)

vaiśyāntaṃ brāhmaṇādyaṃ hi ghṛṇayā cānurūpataḥ ||

12.1१२.१

ऋषय ऊचुः । (१२।१)

ṛṣaya ūcuḥ |

12.2१२.२

द्वापरे द्वापरे व्यासाः के वै कुत्रान्तरेषु वै । (१२।२)

dvāpare dvāpare vyāsāḥ ke vai kutrāntareṣu vai |

12.3१२.३

कल्पेषु कस्मिन्कल्पे नो वक्तुमर्हसि चात्र तान् ॥ (१२।३)

kalpeṣu kasminkalpe no vaktumarhasi cātra tān ||

13.1१३.१

सूत उवाच । (१३।१)

sūta uvāca

13.2१३.२

शृण्वन्तु कल्पे वाराहे द्विजा वैवस्वतान्तरे । (१३।२)

śṛṇvantu kalpe vārāhe dvijā vaivasvatāntare |

13.3१३.३

व्यासांश् च साम्प्रतं रुद्रांस् तथा सर्वान्तरेषु वै ॥ (१३।३)

vyāsāṃś ca sāmprataṃ rudrāṃs tathā sarvāntareṣu vai ||

14.1१४.१

वेदानां च पुराणानां तथा ज्ञानप्रदर्शकान् । (१४।१)

vedānāṃ ca purāṇānāṃ tathā jñānapradarśakān |

14.2१४.२

यथाक्रमं प्रवक्ष्यामि सर्वावर्तेषु साम्प्रतम् ॥ (१४।२)

yathākramaṃ pravakṣyāmi sarvāvarteṣu sāmpratam ||

15.1१५.१

क्रतुः सत्यो भार्गवश् च अङ्गिराः सविता द्विजाः । (१५।१)

kratuḥ satyo bhārgavaś ca aṅgirāḥ savitā dvijāḥ |

15.2१५.२

मृत्युः शतक्रतुर्धीमान् वसिष्ठो मुनिपुंगवः ॥ (१५।२)

mṛtyuḥ śatakraturdhīmān vasiṣṭho munipuṃgavaḥ ||

16.1१६.१

सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः । (१६।१)

sārasvatastridhāmā ca trivṛto munipuṃgavaḥ |

16.2१६.२

शततेजाः स्वयंधर्मो नारायण इति श्रुतः ॥ (१६।२)

śatatejāḥ svayaṃdharmo nārāyaṇa iti śrutaḥ ||

17.1१७.१

तरक्षुश्चारुणिर्धीमांस् तथा देवः कृतंजयः । (१७।१)

tarakṣuścāruṇirdhīmāṃs tathā devaḥ kṛtaṃjayaḥ |

17.2१७.२

ऋतंजयो भरद्वाजो गौतमः कविसत्तमः ॥ (१७।२)

ṛtaṃjayo bharadvājo gautamaḥ kavisattamaḥ ||

18.1१८.१

वाचश्रवा मुनिः साक्षात्तथा शुष्मायणिः शुचिः । (१८।१)

vācaśravā muniḥ sākṣāttathā śuṣmāyaṇiḥ śuciḥ |

18.2१८.२

तृणबिन्दुर् मुनी रूक्षः शक्तिः शाक्तेय उत्तरः ॥ (१८।२)

tṛṇabindur munī rūkṣaḥ śaktiḥ śākteya uttaraḥ ||

19.1१९.१

जातूकर्ण्यो हरिः साक्षात्कृष्णद्वैपायनो मुनिः । (१९।१)

jātūkarṇyo hariḥ sākṣātkṛṣṇadvaipāyano muniḥ |

19.2१९.२

व्यासास्त्वेते च शृण्वन्तु कलौ योगेश्वरान् क्रमात् ॥ (१९।२)

vyāsāstvete ca śṛṇvantu kalau yogeśvarān kramāt ||

20.1२०.१

असंख्याता हि कल्पेषु विभोः सर्वान्तरेषु च । (२०।१)

asaṃkhyātā hi kalpeṣu vibhoḥ sarvāntareṣu ca |

20.2२०.२

कलौ रुद्रावताराणां व्यासानां किल गौरवात् ॥ (२०।२)

kalau rudrāvatārāṇāṃ vyāsānāṃ kila gauravāt ||

21.1२१.१

वैवस्वतान्तरे कल्पे वाराहे ये च तान् पुनः । (२१।१)

vaivasvatāntare kalpe vārāhe ye ca tān punaḥ |

21.2२१.२

अवतारान् प्रवक्ष्यामि तथा सर्वान्तरेषु वै ॥ (२१।२)

avatārān pravakṣyāmi tathā sarvāntareṣu vai ||

22.1२२.१

ऋषय ऊचुः । (२२।१)

ṛṣaya ūcuḥ |

22.2२२.२

मन्वन्तराणि वाराहे वक्तुमर्हसि साम्प्रतम् । (२२।२)

manvantarāṇi vārāhe vaktumarhasi sāmpratam |

22.3२२.३

तथैव चोर्ध्वकल्पेषु सिद्धान्वैवस्वतान्तरे ॥ (२२।३)

tathaiva cordhvakalpeṣu siddhānvaivasvatāntare ||

23.1२३.१

रोमहर्षण उवाच । (२३।१)

romaharṣaṇa uvāca

23.2२३.२

मनुः स्वायम्भुवस्त्वाद्यस्ततः स्वारोचिषो द्विजाः । (२३।२)

manuḥ svāyambhuvastvādyastataḥ svārociṣo dvijāḥ |

23.3२३.३

उत्तमस्तामसश्चैव रैवताश्चाक्षुषस् तथा ॥ (२३।३)

uttamastāmasaścaiva raivatāścākṣuṣas tathā ||

24.1२४.१

वैवस्वतश् च सावर्णिर् धर्मः सावर्णिकः पुनः । (२४।१)

vaivasvataś ca sāvarṇir dharmaḥ sāvarṇikaḥ punaḥ |

24.2२४.२

पिशङ्गश्चापिशङ्गाभः शबलो वर्णकस् तथा ॥ (२४।२)

piśaṅgaścāpiśaṅgābhaḥ śabalo varṇakas tathā ||

25.1२५.१

औकारान्ता अकाराद्या मनवः परिकीर्तिताः । (२५।१)

aukārāntā akārādyā manavaḥ parikīrtitāḥ |

25.2२५.२

श्वेतः पाण्डुस् तथा रक्तस्ताम्रः पीतश्च कापिलः ॥ (२५।२)

śvetaḥ pāṇḍus tathā raktastāmraḥ pītaśca kāpilaḥ ||

26.1२६.१

कृष्णः श्यामस् तथा धूम्रः सुधूम्रश् च द्विजोत्तमाः । (२६।१)

kṛṣṇaḥ śyāmas tathā dhūmraḥ sudhūmraś ca dvijottamāḥ |

26.2२६.२

अपिशङ्गः पिशङ्गश् च त्रिवर्णः शबलस् तथा ॥ (२६।२)

apiśaṅgaḥ piśaṅgaś ca trivarṇaḥ śabalas tathā ||

27.1२७.१

कालंधुरस्तु कथिता वर्णतो मनवः शुभाः । (२७।१)

kālaṃdhurastu kathitā varṇato manavaḥ śubhāḥ |

27.2२७.२

नामतो वर्णतश्चैव वर्णतः पुनरेव च ॥ (२७।२)

nāmato varṇataścaiva varṇataḥ punareva ca ||

28.1२८.१

स्वरात्मानः समाख्याताश्चान्तरेशाः समासतः । (२८।१)

svarātmānaḥ samākhyātāścāntareśāḥ samāsataḥ |

28.2२८.२

वैवस्वत ऋकारस्तु मनुः कृष्णः सुरेश्वरः ॥ (२८।२)

vaivasvata ṛkārastu manuḥ kṛṣṇaḥ sureśvaraḥ ||

29.1२९.१

सप्तमस्तस्य वक्ष्यामि युगावर्तेषु योगिनः । (२९।१)

saptamastasya vakṣyāmi yugāvarteṣu yoginaḥ |

29.2२९.२

समतीतेषु कल्पेषु तथा चानागतेषु वै ॥ (२९।२)

samatīteṣu kalpeṣu tathā cānāgateṣu vai ||

30.1३०.१

वाराहः साम्प्रतं ज्ञेयः सप्तमान्तरतः क्रमात् । (३०।१)

vārāhaḥ sāmprataṃ jñeyaḥ saptamāntarataḥ kramāt |

30.2३०.२

योगावतारांश् च विभोः शिष्याणां संततिस् तथा ॥ (३०।२)

yogāvatārāṃś ca vibhoḥ śiṣyāṇāṃ saṃtatis tathā ||

31.1३१.१

सम्प्रेक्ष्य सर्वकालेषु तथावर्तेषु योगिनाम् । (३१।१)

samprekṣya sarvakāleṣu tathāvarteṣu yoginām |

31.2३१.२

आद्ये श्वेतः कलौ रुद्रः सुतारो मदनस् तथा ॥ (३१।२)

ādye śvetaḥ kalau rudraḥ sutāro madanas tathā ||

32.1३२.१

सुहोत्रः कङ्कणश्चैव लोकाक्षिर् मुनिसत्तमाः । (३२।१)

suhotraḥ kaṅkaṇaścaiva lokākṣir munisattamāḥ |

32.2३२.२

जैगीषव्यो महातेजा भगवान् दधिवाहनः ॥ (३२।२)

jaigīṣavyo mahātejā bhagavān dadhivāhanaḥ ||

33.1३३.१

ऋषभश् च मुनिर्धीमान् उग्रश्चात्रिः सुबालकः । (३३।१)

ṛṣabhaś ca munirdhīmān ugraścātriḥ subālakaḥ |

33.2३३.२

गौतमश्चाथ भगवान् सर्वदेवनमस्कृतः ॥ (३३।२)

gautamaścātha bhagavān sarvadevanamaskṛtaḥ ||

34.1३४.१

वेदशीर्षश् च गोकर्णो गुहावासी शिखण्डभृत् । (३४।१)

vedaśīrṣaś ca gokarṇo guhāvāsī śikhaṇḍabhṛt |

34.2३४.२

जटामाल्यट्टहासश् च दारुको लाङ्गली तथा ॥ (३४।२)

jaṭāmālyaṭṭahāsaś ca dāruko lāṅgalī tathā ||

35.1३५.१

महाकायमुनिः शूली दण्डी मुण्डीश्वरः स्वयम् । (३५।१)

mahākāyamuniḥ śūlī daṇḍī muṇḍīśvaraḥ svayam |

35.2३५.२

सहिष्णुः सोमशर्मा च नकुलीशो जगद्गुरुः ॥ (३५।२)

sahiṣṇuḥ somaśarmā ca nakulīśo jagadguruḥ ||

36.1३६.१

वैवस्वते ऽन्तरे सम्यक् प्रोक्ता हि परमात्मनः । (३६।१)

vaivasvate 'ntare samyak proktā hi paramātmanaḥ |

36.2३६.२

योगाचार्यावतारा ये सर्वावर्तेषु सुव्रताः ॥ (३६।२)

yogācāryāvatārā ye sarvāvarteṣu suvratāḥ ||

37.1३७.१

व्यासाश्चैवं मुनिश्रेष्ठा द्वापरे द्वापरे त्विमे । (३७।१)

vyāsāścaivaṃ muniśreṣṭhā dvāpare dvāpare tvime |

37.2३७.२

योगेश्वराणां चत्वारः शिष्याः प्रत्येकमव्ययाः ॥ (३७।२)

yogeśvarāṇāṃ catvāraḥ śiṣyāḥ pratyekamavyayāḥ ||

38.1३८.१

श्वेतः श्वेतशिखण्डी च श्वेताश्वः श्वेतलोहितः । (३८।१)

śvetaḥ śvetaśikhaṇḍī ca śvetāśvaḥ śvetalohitaḥ |

38.2३८.२

दुन्दुभिः शतरूपश् च ऋचीकः केतुमांस् तथा ॥ (३८।२)

dundubhiḥ śatarūpaś ca ṛcīkaḥ ketumāṃs tathā ||

39.1३९.१

विशोकश्च विकेशश् च विपाशः पापनाशनः । (३९।१)

viśokaśca vikeśaś ca vipāśaḥ pāpanāśanaḥ |

39.2३९.२

सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः ॥ (३९।२)

sumukho durmukhaścaiva durdamo duratikramaḥ ||

40.1४०.१

सनकश् च सनन्दश् च प्रभुर्यश् च सनातनः । (४०।१)

sanakaś ca sanandaś ca prabhuryaś ca sanātanaḥ |

40.2४०.२

ऋभुः सनत्कुमारश् च सुधामा विरजास् तथा ॥ (४०।२)

ṛbhuḥ sanatkumāraś ca sudhāmā virajās tathā ||

41.1४१.१

शङ्खपाद् वैरजश्चैव मेघः सारस्वतस् तथा । (४१।१)

śaṅkhapād vairajaścaiva meghaḥ sārasvatas tathā |

41.2४१.२

सुवाहनो मुनिश्रेष्ठो मेघवाहो महाद्युतिः ॥ (४१।२)

suvāhano muniśreṣṭho meghavāho mahādyutiḥ ||

42.1४२.१

कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः । (४२।१)

kapilaścāsuriścaiva tathā pañcaśikho muniḥ |

42.2४२.२

वाल्कलश् च महायोगी धर्मात्मानो महौजसः ॥ (४२।२)

vālkalaś ca mahāyogī dharmātmāno mahaujasaḥ ||

43.1४३.१

पराशरश् च गर्गश् च भार्गवश्चाङ्गिरास् तथा । (४३।१)

parāśaraś ca gargaś ca bhārgavaścāṅgirās tathā |

43.2४३.२

बलबन्धुर् निरामित्रः केतुशृङ्गस्तपोधनः ॥ (४३।२)

balabandhur nirāmitraḥ ketuśṛṅgastapodhanaḥ ||

44.1४४.१

लम्बोदरश् च लम्बश्च लम्बाक्षो लम्बकेशकः । (४४।१)

lambodaraś ca lambaśca lambākṣo lambakeśakaḥ |

44.2४४.२

सर्वज्ञः समबुद्धिश् च साध्यः सर्वस्तथैव च ॥ (४४।२)

sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca ||

45.1४५.१

सुधामा काश्यपश्चैव वासिष्ठो विरजास् तथा । (४५।१)

sudhāmā kāśyapaścaiva vāsiṣṭho virajās tathā |

45.2४५.२

अत्रिर् देवसदश्चैव श्रवणो ऽथ श्रविष्ठकः । (४५।२)

atrir devasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ |

45.3४५.३

कुणिश् च कुणिबाहुश् च कुशरीरः कुनेत्रकः ॥ (४५।३)

kuṇiś ca kuṇibāhuś ca kuśarīraḥ kunetrakaḥ ||

46.1४६.१

कश्यपोऽप्युशनाश्चैव च्यवनो ऽथ बृहस्पतिः । (४६।१)

kaśyapo'pyuśanāścaiva cyavano 'tha bṛhaspatiḥ |

46.2४६.२

उतथ्यो वामदेवश् च महायोगो महाबलः ॥ (४६।२)

utathyo vāmadevaś ca mahāyogo mahābalaḥ ||

47.1४७.१

वाचश्रवाः सुधीकश्च श्यावाश्वश् च यतीश्वरः । (४७।१)

vācaśravāḥ sudhīkaśca śyāvāśvaś ca yatīśvaraḥ |

47.2४७.२

हिरण्यनाभः कौशल्यो लोगाक्षिः कुथुमिस् तथा ॥ (४७।२)

hiraṇyanābhaḥ kauśalyo logākṣiḥ kuthumis tathā ||

48.1४८.१

सुमन्तुर्बर्बरी विद्वान् कबन्धः कुशिकंधरः । (४८।१)

sumanturbarbarī vidvān kabandhaḥ kuśikaṃdharaḥ |

48.2४८.२

प्लक्षो दाल्भ्यायणिश्चैव केतुमान् गोपनस् तथा ॥ (४८।२)

plakṣo dālbhyāyaṇiścaiva ketumān gopanas tathā ||

49.1४९.१

भल्लावी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः । (४९।१)

bhallāvī madhupiṅgaśca śvetaketustaponidhiḥ |

49.2४९.२

उशिको बृहदश्वश् च देवलः कविरेव च ॥ (४९।२)

uśiko bṛhadaśvaś ca devalaḥ kavireva ca ||

50.1५०.१

शालिहोत्रो ऽग्निवेशश्च युवनाश्वः शरद्वसुः । (५०।१)

śālihotro 'gniveśaśca yuvanāśvaḥ śaradvasuḥ |

50.2५०.२

छगलः कुण्डकर्णश् च कुम्भश्चैव प्रवाहकः ॥ (५०।२)

chagalaḥ kuṇḍakarṇaś ca kumbhaścaiva pravāhakaḥ ||

51.1५१.१

उलूको विद्युतश्चैव मण्डूको ह्याश्वलायनः । (५१।१)

ulūko vidyutaścaiva maṇḍūko hyāśvalāyanaḥ |

51.2५१.२

अक्षपादः कुमारश् च उलूको वत्स एव च ॥ (५१।२)

akṣapādaḥ kumāraś ca ulūko vatsa eva ca ||

52.1५२.१

कुशिकश्चैव गर्भश् च मित्रः कौरुष्य एव च । (५२।१)

kuśikaścaiva garbhaś ca mitraḥ kauruṣya eva ca |

52.2५२.२

शिष्यास्त्वेते महात्मानः सर्वावर्तेषु योगिनाम् ॥ (५२।२)

śiṣyāstvete mahātmānaḥ sarvāvarteṣu yoginām ||

53.1५३.१

विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः । (५३।१)

vimalā brahmabhūyiṣṭhā jñānayogaparāyaṇāḥ |

53.2५३.२

एते पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥ (५३।२)

ete pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ ||

54.1५४.१

शिष्याः प्रशिष्याश्चैतेषां शतशोऽथ सहस्रशः । (५४।१)

śiṣyāḥ praśiṣyāścaiteṣāṃ śataśo'tha sahasraśaḥ |

54.2५४.२

प्राप्य पाशुपतं योगं रुद्रलोकाय संस्थिताः ॥ (५४।२)

prāpya pāśupataṃ yogaṃ rudralokāya saṃsthitāḥ ||

55.1५५.१

देवादयः पिशाचान्ताः पशवः परिकीर्तिताः । (५५।१)

devādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ |

55.2५५.२

तेषां पतित्वात्सर्वेशो भवः पशुपतिः स्मृतः ॥ (५५।२)

teṣāṃ patitvātsarveśo bhavaḥ paśupatiḥ smṛtaḥ ||

56.1५६.१

तेन प्रणीतो रुद्रेण पशूनां पतिना द्विजाः । (५६।१)

tena praṇīto rudreṇa paśūnāṃ patinā dvijāḥ |

56.2५६.२

योगः पाशुपतो ज्ञेयः परावरविभूतये ॥ (५६।२)

yogaḥ pāśupato jñeyaḥ parāvaravibhūtaye ||

Data courtesy of The Digital Corpus of Sanskrit.

LiPur, 1, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit